अध्यायः 026

शोकाद्भुवि पतिताया गान्धार्याः कृष्णेनाश्वासनम् ॥ 1 ॥ युधिष्ठिराज्ञया विदुरसञ्जयादिभिर्मृतानां दाहक्रियाकरणम् ॥ 2 ॥

श्रीभगवानुवाच ।
उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ।
तवैव ह्यपराधेन कुरवो निधनं गताः ॥
यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् ।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे ॥
निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम् ।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि ॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥
तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी ।
शूद्रा दासं पशुपालं च वैश्या वधार्थीयं त्वद्विधा राजपुत्री ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् ।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना ॥
धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः ।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम् ॥
जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव ।
हतानां यदि जानीषे परिमाणं वदस्वं मे ॥
युधिष्ठिर उवाच ।
दशायुतसहस्राणि सहस्राणि च विंशतिः ।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः ॥
आलक्षाणां च वीराणां सहस्राणि चतुर्दश ।
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत ॥
धृतराष्ट्र उवाच ।
युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम ।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः ॥
युधिष्ठिर उवाच ।
यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे ।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः ॥
ये त्वहृष्टेन मनसा मर्तव्यमिति भारत ।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः ॥
ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः ।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति ॥
पात्यमानाः परैर्ये तु हीयमाना निरायुधाः ।
हीनिषेवा महात्मानः परानभिमुखा रणे ॥
छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः ।
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः ॥
ये त्वत्र निहता राजन्नन्तरायोधनं प्रति ।
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम् ॥
धृतराष्ट्र उवाच ।
केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत् ।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया ॥
युधिष्ठिर उवाच ।
निदेशाद्भवतः पूर्वं वने विचरता मया ।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः ॥
देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् ।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा ॥
धृतराष्ट्र उवाच ।
ये त्वनाथा जनास्तात नाथवन्तश्च पाण़्डव ।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् ॥
युधिष्ठिर उवाच ।
न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः ।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम् ॥
यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः ।
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः ॥
वैशम्पायन उवाच ।
एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् ॥
विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः ॥
भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः ।
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति ॥
शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः ।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा ॥
चन्दनागुरुकाष्ठानि तथा कालीयकान्युत ।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च ॥
समाहृत्य महार्हाणि दारुणां चैव सञ्चयान् ।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च ॥
चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा ॥
दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा ॥
शल्यं शलं च राजानं भूरिश्रवसमेव च ॥
जयद्रथं च राजानमभिमन्युं च भारत ।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् ॥
बृहद्वलं सोमदत्तं सृञ्जयं च महारथम् ।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा ॥
शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् ।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च ॥
कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् ।
अचलं वृषकं चैव भगदत्ते च पार्थिवम् ॥
कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् ।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् ॥
घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च ।
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम् ॥
एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः । धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ।
पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम् ।
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः ॥
साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः ।
कश्मलं सर्वभूतानां निशायां समपद्यत ॥
हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः ।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः ॥
ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ।
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः ॥
चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः ।
दाहयामास तान्सर्वान्विदुरो राजशासनात् ॥
कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः ।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत् ॥ ॥

इति श्रीमन्महाभारते स्त्रीपर्वणि श्राद्धपर्वणि षड््विंशोऽध्यायः ॥ 26 ॥

11-26-2 दुष्कृतं दुराचरितं स्वकीयम् ॥ 11-26-3 वैरप्रियं पुरुषं xxxxषम् ॥ 11-264- द्वौ पूर्वापरदुःखद्वयरूपौ ॥ 11-26-5 तपोरूपायार्थाय उत्पन्नं तपोर्थीयम् । त्वद्विधा वधार्थीयमेव गर्भं धत्ते । अन्या तु जयार्थीयं कीर्त्याद्यर्थीयमपीति भावः । तपोर्थिनं, वधार्थिनं इति क.पाठः ॥ 11-26-17 ते गतास्तूत्तरान्कुरूनिति छ.पाठः । ते गतास्तूत्तमां गतिमिति ट.पाठः । ते गता ह्यधमां गतिमिति क.पाठः ॥ 11-26-24 सुधर्माणं दुर्योधनपुरोहितम् ॥ 11-26-43 स्नेहपाचितैः स्नेहसंयुक्तैः ॥ 11-26-26 षड्विंशोऽध्यायः ॥

श्रीः