अध्यायः 027

मृतानामुदकदानाय धृतराष्ट्रयुधिष्ठिरादिभिर्गङ्गातीरगमनम् ॥ 1 ॥ उदकदानारम्भे कुन्त्या युधिष्ठिरम्प्रति कर्णस्य स्वपुत्रत्वकथनपूर्वकं तस्या उदकदानचोदना ॥ 2 ॥ धृतराष्ट्रयुधिष्ठिरादिभिर्बन्धुभ्यो जलदानम् ॥ 3 ॥

वैशम्पायन उवाच ।
ते समासाद्य गङ्गां तु शिवां पुण्यजलान्विताम् ।
ह्लादिनीं च प्रसन्नां च महारूपां महावनाम् ॥
भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च ।
`कवचानि विचित्राणि गङ्गामवजगाहिरे' ॥
ततः पितॄणां भ्रातॄणां पौत्राणां स्वजनस्य च ।
पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः ॥
उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः ।
सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाम् ॥
उदके क्रियमाणे तु वीराणां विरपत्निभिः ।
सूपतीर्थाऽभवद्गङ्गा भूयो विप्रससार च ॥
तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् ।
वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत ॥
ततः कुन्ती महाराज रुदन्ती शोककर्शिता ।
व्रीडया मन्दया वाचा पुत्रान्वचनमब्रवीत् ॥
यः स वीरो महेष्वासो रथयूथपयूथपः ।
अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः ॥
यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः ।
यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः ॥
प्रत्ययुध्यत वः सर्वान्पुरा यः सपदानुगान् ।
दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत ॥
यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन ।
यो वृणीत यशः शूरः प्राणैरपि सदा भुवि ॥
कर्णस्य सत्यसन्धस्य सङ्ग्रामेष्वपलायिनः ।
कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः ॥
स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत ।
कुण्डली कवची शूरो दिवाकरसमप्रभः ॥
श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् ।
कर्णमेवानुशोचन्तो भूयश्चात्यातुरा भवन् ॥
ततः स पुरुषव्याघ्रः रुन्तीपुत्रो युधिष्ठिरः ।
उवाच मातरं वीरो निःश्वसन्निव पन्नगः ॥
यः शरोर्मिर्ध्वजावर्तो महाभुजमहाग्रहः ।
तलशब्दप्रणुदितो महारथमहाग्रहः ॥
यस्येषुपातमासाद्य कोऽन्यस्तिष्ठेद्धनञ्जयात् । कथं पुत्रो भवत्याः स देवगर्भः पुराऽभवत् ।
`कुण्डली कवची शूरो दिवाकरसमप्रभः ॥
यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् ।
तमग्निमिव वस्त्रेण कथं छादितवत्यसि ॥
यस्य बाहुप्रभावेन वैरमस्मास्वरोचयत् ।
सुयोधनस्तु तं ज्येष्ठं कथं नोदितवत्यसि ॥
तथा कर्णं महेष्वासं धार्तराष्ट्रैरुपासितम् ।
उपासितं यथाऽस्माभिर्बलं गाण्डीवधन्वनः ॥
भूमिपानां च सर्वेषां बलं बलवतां वरः ।
नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनो रथी ॥
स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः ।
असूत तं भवत्यग्रे कथमद्भुतविक्रमम् ॥
अहो भवत्या मन्त्रस्य गूहनेन वयं हताः ।
निधनेन हि कर्णस्य पीडितास्तु सबान्धवाः ॥
अभिमन्योर्विनाशेन द्रौपदेयवधेन च ।
पाञ्चालानां विनाशेन, कुरूणां घातनादपि ॥
ततः शतगुणं दुःखमिदमापतितं महत् ।
कर्णमेवानुशोचापि दह्याम्यग्नाविवाहितः ॥
नेह स्म किञ्चिदप्राप्य भवेदपि दिवि स्थितम् ।
न चेदं वैशसं घोरकं कौरवान्तकरं भवेत् ॥
एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः ।
व्यरुदच्छनकैः राजंश्चकारास्योदकं प्रभुः ॥
ततो विनेदुः सहसा स्त्रियस्ताः खलु सर्वशः ।
अभितो याः स्थितास्तत्र तस्मिन्नुदककर्मणि ॥
तत आनाययामास कर्णस्य सपरिच्छदाः ।
स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः ॥
स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् ।
`सर्वं चकार कर्णस्य विधिवद्भूरिदक्षिणम् ॥
स राजा धृतराष्ट्रश्च कृत्वा जलमतन्द्रितः । समुत्ततार गङ्गाया भार्यया सह भारत ॥'
[पापेनासौ मया श्रेष्ठो भ्राता ज्ञातिर्निपातितः ।
अतो मनसि यद्गुह्यं स्त्रीणां तन्न भविष्यति ॥
इत्युक्त्वा स तु गङ्गाया उत्तताराकुलेन्द्रियः । भ्रातृभिः सहितः सर्वैर्गङ्गातीरमुपेयिवान् ॥] ॥

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां स्त्रीपर्वणि श्राद्धपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

11-27-2 वेष्टनानि उष्णीषकटिबन्धनादीनि ॥ 11-27-5 जलावतरणमार्गा ॥ 11-27-14 भवन् अभवन् । अडभाव आर्षः ॥ 11-27-25 दग्धामग्नाविवाहुतिमिति क.पाठः ॥ 11-27-26 कर्णे भ्रातृत्वेन ज्ञाते सति तदनुसारिणामस्माकमपि दुर्लभं नाभविष्यन्नपि कौरवाणां क्षयोऽभविष्यदित्यर्थः । न च मे किञ्चिदप्राप्यमिति क.पाठः ॥ 11-27-27 सप्तविंशोऽध्यायः ॥