अध्यायः 046

वैशंपायनेन जनमेजयंप्रति भीष्मकृतकृष्णस्तेवराजानुवादपूर्वकं भीष्मस्य शरीरत्यागप्रकारकथनम् ॥ 1 ॥

जनमेजय उवाच ।
शरतल्पे शयानस्तु भरतानां पितामहः ।
कथमुत्सृष्टवान्देहं कं च योगमधारयत् ॥
वैशंपायन उवाच ।
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः ।
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥
प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे ।
`शुक्लपक्षस्य चाष्टभ्यां माघमासस्य पार्थिव ॥
प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे ।' समावेशयदात्मानमात्मत्येव समाहितः ॥
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः ।
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥
व्यासेन देवश्रवसा नारदेन सुरर्षिणा ।
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना ॥
तथा जैमिनिना चैव पैलेन च महात्मना ।
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥
असितेन वसिष्ठेन कौशिकेन महात्मना ।
हारितलोमशाभ्यां च तथाऽऽत्रेयेण धीमता ॥
[बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः ।
सनत्कुमारः कपिलो चाल्मीकिस्तुम्बुरुः कुरुः ॥
मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः ।
पिप्पलादोऽथ वायुश्च सवर्तः पुलहः कचः ॥
काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः ।
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः ॥
धौम्यो विभाण्डो माण्डव्योधौम्रः कृष्णानुभौतिकः । उलूकः परमो विप्रो मार्कण्डेयो महामुनिः ।
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः ॥
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः ।
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः ॥
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा ।
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः ॥
स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् । योगेश्वरं पझनाभं विष्णुं जिष्णुं जगत्पतिम् ।
`अनादिनिधनं विष्णुमात्मयोनिं सनातनम् ॥'
कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः ॥
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥
भीष्म उवाच ।
आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् ।
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ।
युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः ।
एकोऽयं वेद भगवान्धाता नारायणो हरिः ॥
नारायणादृषिगणास्तथा सिद्धमहोरगाः ।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥
`यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः । यस्मिँल्लोकाः स्फुरन्त्येते जाले शकुनयो यथा ॥'
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥
`यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः ॥ '
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति ।
सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ।
सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम् ॥
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥
चं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥
चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम् ।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥
[यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति । सर्वात्मा सर्ववित्सर्वः सर्वज्ञः सर्वभावनः ॥ ]
यं देवं देवकी देवी वसुदेवादजीजनत् ।
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ।
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि ॥
`अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम् ।' अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् ।
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥
पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु ।
क्षये संकर्षणं प्रोक्तं तमुपास्यमुपास्महे ॥
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् ।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥
यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः ।
प्रयता नित्यमर्चन्ति परमं सुखभेषजम् ॥
अनादिनिधनं देवमात्मयोनिं सनातनम् ।
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम् ॥
अथ भीष्मस्तवराजः ॥
हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् ।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥
शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः ।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥
`हुताशनमुखैर्देवैर्धार्यते सकलं जगत् । हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः ॥ '
महतस्तमसः पारे पुरुषं ह्यतितेजसम् ।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे ।
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥
पादाङ्गं संधिपर्वाणं स्वरव्यञ्जनभूषितम् ।
यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः ॥
[यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहारह । लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥]
ऋग्यजुःसामधामानं दशार्धहविराकृतिम् ।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥
[चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥]
यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः ।
रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः ॥
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः ।
हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः ॥
यश्चिनोति सतां सेतुमृतेनामृतयोनिना ।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः ।
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥
[यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः । उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥]
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः ।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः ।
प्राहुः सप्तदशंसाङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥
यं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः ॥
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः ।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥
यस्याग्रिरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥
युगेष्वावर्तते योंऽशैर्मासर्त्वयनहायनैः ।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः ।
संभक्षयति भूतानि तस्मै घोरात्मने नमः ॥
संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् ।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥
सहस्रशिरसे तस्मै पुरुषायामितात्मने ।
चतुःसमुद्रपयसि योगनिद्रात्मने नमः ॥
अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् ।
पुष्करं पुष्कराक्षस्य तस्मै पझात्मने नमः ॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥
यस्मात्सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥
[यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः । इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥]
अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः ।
वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः ॥
ब्रह्म वक्तं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः ।
पादौ यस्याश्रिताः शूद्रास्तस्मैवर्णात्मने नमः ॥
अन्नपानेन्धनमयो रसप्राणविवर्धनः ।
यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥
[प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् । अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥ ]
विषये वर्तमानानां यं तं वैषयिकैर्गुणैः ।
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥
अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे ।
अपारपरिमाणाय तस्मै दिव्यात्मने नमः ॥
परः कालात्परो यज्ञात्परः सदसतश्च यः ।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥
वैद्युतो जाठरश्चैव पावकः शुचिरेव च ।
दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः ॥
रसातलगतः श्रीमार्ननन्तो भगवान्प्रभुः ।
जगद्धारयते योऽसौ तस्मै शेषात्मने नमः ॥
ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम् ।
यस्तेजयति तेजांसि तस्मै तेजात्मने नमः ॥
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् ।
यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥
साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः ।
यस्य तु ज्ञायते तत्वं तस्मै गुह्यात्मने नमः ॥
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे ।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥
[शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने ।
भस्मदिग्धोर्ध्वलिङ्गाय तस्मा रुद्रात्मने नमः ॥
चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने । पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः ॥]
यो जातो वसुदेवेन देवक्यां यदुनन्दनः ।
शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः ॥
शिरःकपालमालाय व्याघ्रचर्मनिवासिने ।
भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः ॥
यो मोहयति भूतानि सर्वपाशानुबन्धनैः ।
सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥
चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम् ।
सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः ॥
पञ्चभूतात्मभूताय भूतादिनिधनाय च ।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥
यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते ।
फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥
विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि ।
वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः ॥
अव्यक्तं बुद्ध्यहंकारो मनोबुद्धीन्द्रियाणि च ।
तन्मात्राणि विशेषाश्च तस्मै तत्वात्मने नमः ॥
भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः ।
योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः ॥
यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः ।
सूक्ष्मात्सूक्ष्मं च यद्ब्रह्म तस्मै सूक्ष्मात्मने नमः ॥
मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः ।
रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः ॥
मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने ।
अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः ॥
वाराहं रूपमास्थाय महीं सवनपर्वताम् ।
उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः ॥
नारसिंहवपुः कृत्वा सर्वलोकभयंकरम् ।
हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः ॥
पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम् ।
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥
यं न देवा न गन्धर्वा न दैत्या न च दानवाः । तत्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः ॥]
वामनं रूपमास्थाय बलिं संयम्य मायया । त्रैलोक्यं क्रान्तवान्यस्तु तस्मै क्रान्तात्मने नमः ॥
जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः ।
महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः ॥
त्रिःसप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात् ।
जघान क्षत्रियान्सङ्ख्ये तस्मै क्रोधात्मने नमः ॥
[विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः । यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥]
रामो दशिरथिर्भूत्वा पुलस्त्यकुलनन्दनम् ।
जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः ॥
यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः ।
रामाय रौहिणेयाय तस्मै भोगात्मने नमः ॥
शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे ।
वनमालाधरायैव तस्मै कृष्णात्मने नमः ॥
वसुदेवसुतः श्रीमान्क्रीडितो नन्दगोकुले ।
कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः ॥
वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः ।
भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः ॥
सारथ्यमर्जुनस्याजौ कुर्वन्गीतामृतं ददौ ।
लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः ॥
दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः ।
सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः ॥
हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः ।
धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः ॥
तारान्वये कालनेमिं हत्वा दानवपुङ्गवम् ।
ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः ॥
यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः ।
अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः ॥
नमोस्तु ते महादेव नमस्ते भक्तवत्सल ।
सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर ॥
अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो ।
नारायणं सहस्राक्षं सर्वलोकमहेश्वरम् ॥
हिरण्यनाभ यज्ञाङ्गममृतं विश्वतोमुखम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ॥
येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः ।
मङ्गल भगवान्विष्णुर्मङ्गलं मधुसूदनः ॥
मङ्गलं पुण़्डरीकाक्षो मङ्गलं गरुडध्वजः ।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ॥
अपवर्गस्थभूतानां पञ्चानां परमास्थित ।
नमस्ते त्रिषु लोकेषु वमस्ते परतस्त्रिषु ॥
नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ।
नमस्ते भगवन्विष्णो त्येकानां प्रभवाव्यय ॥
त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः ।
तेन पश्यामि ते दिव्यान्भावान्हि त्रिषुवर्त्मसु ॥
तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम् । दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुंधरा ।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥
[दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः । सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥]
व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो ।
अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम् ॥
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥
[एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥
कृष्णव्रताः कृष्णमनुस्मरन्तो रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते कृष्णदेहाः प्रविशन्ति कृष्ण माज्यं यथा मन्त्रहुतं हुताशे ॥
नमो नरकसंत्रासरक्षामण्डलकारिणे ।
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥
प्राणकान्तारपाथेयं संसारोच्छेदभेषजम् । दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥]
नारायणपरं ब्रह्म नारायणपरं तपः ।
नारायणपरं सत्यं नारायणपरं परम् ॥
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः ।
तथा विष्णुमयं सर्वं पाप्मा ने नश्यतां तथा ॥
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे ।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः ।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥
वैशंपायन उवाच ।
एतावदुक्त्वा वचनं भीष्मस्तद्रतमानसः ।
नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥
तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः ।
भीष्मं वाग्भिर्वाष्पगलास्तमानर्चुर्महाद्युतिम् ॥
तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम् ।
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥
अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः ।
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥
विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः ।
सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत ॥
केशवः सात्यकिश्चैव रथेनकेन जग्मतुः ।
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥
भीमसेनो यमौ चोभौ रथमेकं समास्थिताः ।
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः ।
नेमिघोषेण महता कम्पयन्ते वसुंधराम् ॥
ततो गिरः पुरुषवरस्तवेरितां द्विजेरिताः पथिषु मनाक् स शुश्रुवे ।
कृताञ्जलिं प्रणतमथापरं जनं स केशिहा मुदितमनास्थनन्दत ॥
इति स्मरन्पठति च शार्ङ्गधन्वनः शृणोतु वा यदुकुलनन्दनस्तवम् ।
स चक्रभृत्प्रतिहतसर्वाकिल्विषो जनार्दनं प्रविशति देहसंक्षये ॥
यं योगिनः प्राणवियोगकाले यत्नेन चित्ते विनिवेशयन्ति ।
स तं पुरस्ताद्धरिमीक्षमाणः प्राणाञ्जहौ प्राप्तफलो हि भीष्मः ॥
स्ववराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः ।
गाङ्गेयेन पुरा गीतो महापातकनाशनः ॥
इमं नरः स्तवराजं मुमुक्षुः पठञ्शुचिः कलुषितकल्मषापहम् ।
अतीत्य लोकान्मलिनः समामता न्पदं स गच्छत्यमृतं महात्मनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट््चत्वारिंशोऽध्यायः ॥

12-46-17 जिगदिषामि वक्तुमिच्छामि । व्याससमासिन्या विस्तरसंक्षेपवत्या ॥ 12-46-25 सदसत्कार्यं कारणं च विश्वं कर्म यस्मात् ॥ 12-46-28 वाकेषु मन्त्रेषु सामान्यतः कर्मप्रकाशकेषु । अनुवाकेषु मन्त्रार्थविवरणभूतेषु ब्राह्मणवाक्येषु । निषत्सु कर्माङ्गाद्यवबद्धदेवतादिज्ञानवाक्येषु । उपनिषत्सु केवलात्मज्ञापकवाक्येषु गृणन्ति ध्यायन्ति । सत्यमबाधितम् । सत्येष्वबाधितार्थेषु । सामसु ज्येष्ठसामादिषु ॥ 12-46-29 चतुर्भिर्नामभिर्वासुदेवसकर्षणप्रद्युम्रानिरुद्धरूपैः ॥ 12-46-30 नित्यं तपः स्वधर्मस्तद्यस्मिन् । यत्प्रीत्यर्थं तप्तं सद्यद्यस्मादङ्गेषु चित्तेष्वनुतिष्ठति उपतिष्ठति यश्च सर्वात्मा तं प्रपद्ये इति सर्वेषां यच्छब्दसंबद्धानां प्रथमेनान्वयः । ईश्वलरार्थमनुष्ठितो धर्मः स्वचित्तशुद्धिद्वारास्वार्थएव भवतीति भावः ॥ 12-46-31 भौमं ब्रह्म वेदा ब्राह्मणा यज्ञाश्च ॥ 12-46-32 आत्मानं सर्वेश्वरमात्मनि हार्दाकाशे इष्ट्वा योगेन पश्यति । आनन्त्याय मोक्षाय ॥ 12-46-34 पुराणे अतीतकल्पादिविषये । पुरुषं पूर्णं सर्वमस्मिन्नतीतमस्त्येवेति योगात्पुरुष इति नाम । युगादिषु युगारम्भेषु । बृंहकत्वात्सृष्टेरेनं ब्रह्मेत्याहुः । क्षये सर्वस्य सम्यक्वर्षणादयं संकर्षण इत्युक्तः ॥ 12-46-35 नान्यभक्ता अनन्यभक्ताः ॥ 12-46-39 हिरण्यगर्भमिति ड. थ. पाठः । जज्ञे जनयामास ॥ 12-46-43 उक्थे बह्वृचाः । अग्नौ चयनेऽध्वर्यवः ॥ 12-46-47 चतुर्भिरिति । आश्रावयेति चतुरक्षरं अस्तु श्रौषिडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामहे इति पञ्चाक्षरं द्व्यक्षरो वषट््कार इति सप्तदशभिरक्षरैर्यो हूयते तस्मै होमात्मने नमः ॥ 12-46-49 यः सहस्रसमे सत्र इति झ. पाठः । तत्र सहस्रसमे सहस्रसं वत्सरे सत्रे इत्यर्थः ॥ 12-46-54 यं त्रिधात्मानमिति झ.पाठः ॥