अध्यायः 049

कृष्णेन भीष्मप्रशंसनपूर्वकं तंप्रति युधिष्ठिराय धर्मोपदेशचोदना ॥ 1 ॥

वैशंपायन उवाच ।
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः ।
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम् ॥
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः ।
विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता ॥
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः ।
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः ॥
अहो धन्यो नृलोकोऽयं समाग्याश्च नरा भुवि ।
यत्र कर्मेदृशं धर्म्यं द्विजाग्र्यैः कृतमच्युत ॥
कथयन्तौ कथां तात तावच्युतयुधिष्ठिरौ ।
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः ॥
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम् ।
स्वरश्मिमालासंवीतं सायंसूर्यसमप्रभम् ॥
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम् ।
देशे परमधर्मिष्ठे नदीमोघवतीमनु ॥
दूरादेव तमालोक्य कृष्णो राजा च धर्मजः ।
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः ॥
अवम्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः ।
एकीकृत्येन्द्रियग्राममुपतम्थुर्महामुनीन् ॥
अभिवाद्य तु गोविन्दः सात्यकिस्ते च पार्थिवाः ।
व्यासादीस्तानृपीन्पश्चाद्गाङ्गेयमुपतस्थिरे ॥
तपोवृद्धि ततः पृष्ट्वा गाङ्गेयं यदुपुङ्गवः ।
परिवार्य ततः सर्वे निपेदुः पुरुषर्षभाः ॥
ततो निशाम्य गाङ्गेयं शाम्यमानमिवानलम् ।
किंचिद्दीनमना भीष्ममितिहोवाच केशवः ॥
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि यथापुरम् ।
कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर ॥
शराभिघातदुःखार्तं कच्चिद्गात्रं न दूयते ।
मानसादपि दुःखाद्धि शारीरं बलवत्तरम् ॥
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो ।
शन्तनोर्धर्मनित्यस्य न त्वेतदिह कारणम् ॥
सुमूक्ष्मोऽपि तु देहे वै शल्यो जनयते रुजम् ।
किंपुनः शरसंघातैश्चितस्य तव पार्थिव ॥
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ ।
भवानुपदिशेच्छ्रेयो देवानामपि भारत ॥
यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ ।
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम् ॥
संसारस्येह भूतानां धर्मस्य च फलोदयः ।
विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः ॥
त्व, हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम् ।
स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम् ॥
ऋते शान्तनवाद्भीष्मात्रिषु लोकेषु पार्थिवम् ।
सत्यधर्मान्महावीर्याच्छूराद्धर्मैकतत्परात् ॥
मृत्युमावार्य तपसा शरसंस्तरशायिनः ।
त्रिवर्गप्रभवं कंचिन्न च तातानुशुश्रुम ॥
सत्ये तपसि दाने च यज्ञाधिकरणे तथा ।
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे ॥
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम् ।
महारथं त्वत्सदृशं न कंचिदनुशुश्रुम ॥
त्वं हि देवान्सगन्धर्वानसुरान्यक्षराक्षसान् ।
शक्तस्त्वेकरथेनैव विजेतुं नात्र संशयः ॥
स त्वं भीष्म महाबाहो वसूनां वासवोपमः ।
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः ॥
अहं च त्वाऽभिजानामि स्वयं पुरुषसत्तम ।
त्रिदशेष्वपि विख्यातस्त्वं शक्त्या पुरुषोत्तमः ॥
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः ।
भवतो हि गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित् ॥
त्वं हि सर्वगुणै राजन्देवानप्यतिरिच्यसे ॥
तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान् ।
किंपुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः ॥
तदस्य तप्यमानस्य ज्ञातीनां संक्षयेन वै ।
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद ॥
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत ।
चातुराश्रम्यसंयुक्ताः सर्वे ते विदितास्तव ॥
चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत ।
योगे साङ्ख्ये च नियता ये च धर्माः सनातनाः ॥
चातुर्वर्ण्यस्य यश्चोक्तो धर्मो न स्म विरुध्यते ।
सेव्यमानः सवैयाख्यो गाङ्गेय विदितस्तव ॥
प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः । देशजातिकुलानां च जानीषे धर्मलक्षणम् ।
वेदोक्तो यश्च शिष्टोक्तः सदैव विदितस्तव । `प्रवृत्तश्च निवृत्तश्च स चापि विदितस्तव ॥'
इतिहासपुराणार्थाः कार्त्स्न्येन विदितास्तव ।
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम् ॥
ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः ।
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभः ॥
स पाण्डवेयस्य मनःसमुत्थितं नरेन्द्र शोकं व्यपकर्ष मेधया ।
भवद्विधा ह्युत्तमबुद्धिर्विस्तरा विमुह्यमानस्य जनस्य शान्तये ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥

12-49-1 अवस्कन्द्यावरुह्य वाहेभ्यः ॥ 12-49-11 यदुपुंगवो निपसादेति शेषः । ततो वृद्धं तथा दृष्ट्वा गाङ्गेयं यदुकौरवाः इति झ. पाठः ॥ 12-49-12 निशाम्य आलोच्य ॥ 12-49-15 छन्दमृत्युः इच्छामरणः । नत्वेतदिह कारणमिति ट. ड. थ. पाठः ॥ 12-49-20 नहि राज्ये स्थितमिति ट.ड. पाठः ॥ 12-49-21 भीष्मादृते मृत्युमावार्य स्थितं कमपि न शुश्रुमेति द्वयोः संबन्धः ॥ 12-49-26 वसूनामष्टानामंशेर्घटितो नवमः गुणैरनवमश्च ॥