अध्यायः 050
भीष्मेण कृष्णंप्रति स्तुतिपूर्वकं श्रेयःप्रार्थना ॥ 1 ॥ कृष्णेन
भीष्माय श्रेयः प्रदानपूर्वकं तंप्रति धर्मकथनचोदना ॥ 2 ॥
श्रुत्वा तु वचनं भीष्मो वासुदेवस्य धीमतः ।
किंचिदुन्नाम्य वदनं प्राञ्जलिर्वाक्यमब्रवीत् ॥
भीष्म उवाच ।
नमस्ते भगवन्कृष्ण लोकानां प्रभवाप्यय ।
त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।
अपवर्गस्थ भूतानां पञ्चानां परतः स्थित ॥
नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु ।
योगेश्वर नमस्तेऽस्तु त्वं हि सर्वपरायणः ॥
मत्संश्रितं यदात्थ त्वं वचः पुरुषसत्तम ।
तेन पश्यामि ते दिव्यान्भावांस्त्रिषु च वर्त्मसु ॥
तच्च पश्यामि तत्वेन यत्ते रूपं सनातनम् ।
सप्त मार्गा निरुद्धास्ते वायोरमिततेजसः ॥
दिवं ते शिरसा व्याप्तं पभ्द्यां देवी वसुंधरा ।
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः ॥
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
वपुर्ह्यनुमिमीमस्ते मेघस्येव सविद्युतः ॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे ।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥
वासुदेव उवाच ।
यतः खलु परा भक्तिर्मयि ते पुरुषर्षभ ।
ततो मया वपुर्दिव्यं तव राजन्प्रदर्शितम् ॥
न ह्यभक्ताय राजेन्द्र भक्तायानृजवे न च ।
दर्शयाम्यहमात्मानं न चादान्ताय भारत ॥
भवांस्तु मम भक्तश्च नित्यं चार्जवमास्थितः ।
दमे तपसि सत्ये च दाने च निरतः शुचिः ॥
अर्हस्त्वं भीष्म मां द्रष्टुं तपसा स्वेन पार्थिव ।
तव ह्युपस्थिता लोका येभ्यो नावर्तते पुनः ॥
पञ्चाशतं षट् च कुरुप्रवीर
शेषं दिनानां तव जीवितस्य ।
ततः शुभैः कर्मफलोदयैस्त्वं
समेष्यसे भीष्म विमुच्य देहम् ॥
एते हि देवा वसवो विमाना
न्यास्थाय सर्वे ज्वलिताग्निकल्पाः ।
अन्तर्हितास्त्वां प्रतिपालयन्ति
काष्ठां प्रपद्यन्तमुदक्पतङ्गाम् ॥
व्यावृत्तमात्रे भगवत्युदीचीं
सूर्ये जगत्कालवशं प्रपन्ने ।
गन्तासि लोकान्पुरुषप्रवीर
नावर्तते यानुपलभ्य विद्वान् ॥
अमुं च लोकं त्वयि भीष्म याते
ज्ञानानि सर्वाणि पराभविष्यन् ।
अतस्तु सर्वे तव सन्निकर्षं
समागता धर्मविवेचनाय ॥
तज्ज्ञातिशोकोपहतश्रुताय
सत्याभिसन्धाय युधिष्ठिराय ।
प्रब्रूषि धर्मार्थसमाधियुक्तं
सत्यं वचोऽस्यापनुदेच्छुचं यत् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥
12-50-4 योगीश्वरेति झ. पाठः ॥ 12-50-14 पञ्चाशतं षट््चेति ।
तव जीवितसंबन्धिनां दिनानां शेषं पञ्चषट् च पञ्चवारमावर्तिताः षडिति रीत्या
त्रिँशदिति ज्ञेयम् । तावदेव आशतं शतावधि । यद्दिनानां शतेन शक्यं तत्रिंशतापि
कर्तुं शक्यमित्यर्थः । अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गता इति भीष्मो
वक्ष्यति । तत्र त्रिशदतः परं शिष्टा अष्टाविंशतिरितः पूर्वं व्यतीताः । तथाहि
भीष्मस्य शरतल्पशयनानन्तरमष्ठौ दिनानि युद्धम् । ततो दुर्योधनाशौचं युयुत्सोः
षोडशदिनानि । तेन सह पुरं प्रविशतां पाण्डवानामपि तावन्ति दिनानि गतानि ।
पञ्चविंशे सर्वेषां श्राद्धदानम् । षङ्विंशे पुरप्रवेशः । सप्तविंशे
राज्याभिषेकः । अष्टाविंशे प्रकृतिसांत्वनमाभ्युदयिकं दानं च । ऊनत्रिंशे
भीष्मंप्रत्यागमनं तद्दिनमारभ्य त्रिंशद्दिनानि शिष्टानीति ज्ञेयम् ॥ 12-50-15
पतंगः सूर्यः 12-50-16 कालवशं जगत् । प्रपन्ने प्राप्ते क्षेप्तुमिति शेषः ॥