अध्यायः 055

भीष्मेण युधिष्ठिराय राजधर्मकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
प्रणिपत्य हृषीकेशमभिवाद्य पितामहम् ।
अनुमान्य गुरून्सर्वान्पर्यपृच्छद्युधिष्ठिरः ॥
राज्ञां वै परमो धर्म इति धर्मविदो विदुः ।
महान्तमेतं भारं च मन्ये तद्ब्रूहि पार्थिव ॥
राजधर्मान्विशेषेण कथयस्य पितामह ।
सर्वस्य जीवलोकस्य राजधर्मः परायणम् ॥
त्रिवर्गो हि समासक्तो राजधर्मेषु कौरव ।
मोक्षधर्मश्च विस्पष्टः सकलोऽत्र समाहितः ॥
यथा हि रश्मयोऽश्वस्य द्विरदस्याङ्कुशो यथा ।
नरेन्द्रधर्मो लोकस्य तथा प्रग्रहणं स्मृतम् ॥
अत्र वै संप्रमूढे तु धर्मे राजर्षिसेविते ।
लोकस्य संस्था न भवेत्सर्वं च व्याकुलीभवेत् ॥
उदयन्हि यथा सूर्यो नाशयत्यशुभं तमः ।
राजधर्मस्तथा लोक्यामाक्षिपत्यशुभां गतिम् ॥
तदग्रे राजधर्मान्हि मदर्थे त्वं पितामह ।
प्रब्रूहि भरतश्रेष्ठ त्वं हि धर्मभूतां वरः ॥
आगमश्च परस्त्वत्तः सर्वेषां नः परन्तप ।
भवन्तं हि परं बुद्धौ वासुदेवोऽभिमन्यते ॥
भीष्म उवाच ।
नमो धर्माय महते नमः कृष्णाय वेधसे ।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान् ॥
शृणु कार्त्स्न्येन मत्तस्त्वं राजधर्मान्युधिष्ठिर ।
निरुच्यमानान्नियतो यच्चान्यदपि वाञ्छसि ॥
आदावेव कुरुश्रेष्ठ राज्ञा रञ्जनमिच्छता ।
देवतानां द्विजानां च वर्तितव्यं यथाविधि ॥
दैवतान्यर्चयित्वा हि ब्राह्मणांश्च कुरूद्वह ।
आनृण्यं याति धर्मस्य लोकेन च समर्च्यते ॥
उत्थानेन सदा पुत्र प्रयतेथा युधिष्ठिर ।
न ह्युत्थानमृते दैवं राज्ञामर्थं प्रसाधयेत् ॥
साधारणं द्वयं ह्येतद्दैवमुत्थानमेव च ।
पौरुषं हि परं मन्ये दैवं निश्चित्य मुह्यते ॥
विपन्ने च समारम्भे सन्तापं मा स्म वै कृथाः ।
घटेतैवं सदाऽऽत्मानं राज्ञामेष परो नयः ॥
न हि सत्यादृते किंचिद्राज्ञां वै सिद्धिकारकम् ।
सत्ये हि राजा निरतः प्रेत्य चेह च नन्दति ॥
ऋषीणामपि राजेन्द्र सत्यमेव परं धनम् ।
तथा राज्ञां परं सत्यान्नान्यद्विश्वासकारणम् ॥
गुणवाञ्शीलवान्दान्तो मृदुदण्डो जितेन्द्रियः ।
सुदर्शः स्थूललक्ष्यश्च न भ्रश्येत सदा श्रियः ॥
आर्जवं सर्वकार्येषु श्रयेथाः कुरुनन्दन । पुनर्नयविचारेण त्रयीसंवरणेन च ।
`आर्जवेन समायुक्ता मोदन्ते ऋषयो दिवि ॥'
मृदुर्हि राजा सततं लङ्घ्यो भवति सर्वशः ।
तीक्ष्णाच्चोद्विजते लोकस्तस्मादुभयमाचरेत् ॥
अदण्ड्याश्चैव ते पुत्र विप्राः स्युर्ददतां वर ।
भूतमेतत्परं लोके ब्राह्मणा नाम पाण्डव ॥
मनुना चात्र राजेन्द्र गीतौ श्लोकौ महात्मना ।
धर्मेषु स्वेषु कौरव्य हृदि तौ कर्तुमर्हसि ॥
अभ्द्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥
अयो हन्ति यदाऽश्मानमग्निरापो निहन्ति च ।
ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ॥
एवं कृत्वा महाराज नमस्या एव ते द्विजाः ।
भौमं ब्रह्म द्विजश्रेष्ठा धारयन्ति शमान्विताः ॥
एवं चैव नरव्याघ्र लोकयात्राविघातकाः ।
निग्राह्या एव बाहुभ्यां ब्राह्मणास्ते नरेश्वर ॥
श्लोकौ चोशनसा गीतौ पुरा तात महर्षिणा ।
तौ निवोध महाराज त्वमेकाग्रमना नृप ॥
उद्यम्य शस्त्रमायान्तमपि वेदान्तगं रणे ।
निगृह्णीयात्स्वधर्मेण धर्मापेक्षी नराधिपः ॥
विनश्यमानं धर्मं हि योऽभिरक्षेत्स धर्मवित् ।
न तेन धर्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥
एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः ।
सापराधानपि हि तान्विषयान्ते समुत्सृजेत् ॥
अभिशस्तमपि ह्येषां पीडयेन्न विशांपते ।
ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च ॥
राजद्विष्टे च विप्रस्य विषयान्ते विवासनम् ।
विधीयते न शारीरं भयमेषां कदाचन ॥
दयिताश्च नरास्ते स्युर्भक्तिमन्तो द्विजेषु ये ।
न शोकः परमा तुष्टी राज्ञां भवति संचयात् ॥
दुर्गेषु च महाराज षट््सु ये शास्त्रनिश्चिताः ।
सर्वदुर्गेषु मन्यन्ते नरदुर्गं सुदुर्गमम् ॥
तस्मान्नित्यं दया कार्या चातुर्वर्ण्ये विपश्चिता ।
धर्मात्मा सत्यवाक्चैव राजा रञ्जयति प्रजाः ॥
न च क्षान्तेन ते नित्यं भाव्यं पुरुषसत्तम ।
अधर्मो हि मृद् राजा क्षमावानिव कुञ्जरः ॥
वार्हस्पत्ये च शास्त्रे च श्लोकोऽयं नियतः प्रभो ।
अस्मिन्नर्थे निगदितस्तन्मे निगदतः शृणु ॥
क्षममाणं नृपं नित्यं नीचः परिभवेञ्जनः ।
हस्तियन्ता गजस्येव शिर एवारुरुक्षति ॥
तस्मान्नैव मृदुर्नित्यं तीक्ष्णो वाऽपि भवेन्नृपः ।
वसन्तेऽर्क इव श्रीमान्न शीतो न च घर्मदः ॥
प्रत्यक्षेणानुमानेन तथौपम्यागमैरपि ।
परीक्ष्यास्ते महाराज स्वे परे चैव नित्यशः ॥
व्यसनानि च सर्वाणि त्यजेथा भूरिदक्षिण ।
नचैतानि प्रयुञ्जीथाः सङ्गं तु परिवर्जय ॥
व्यसनी यस्तु लोकेऽस्मिन्परिभूतो भवत्युत ।
उद्वेजयति लोकं च योऽतिद्वेषी महीपतिः ॥
भवितव्यं सदा राज्ञा गर्भिणीसहधर्मिणा ।
कारणं च महाराज शृणु येनेदमुच्यते ॥
यथा हि गर्भिणी हित्वा स्वं प्रियं मनसोऽनुगम् ।
गर्भस्य हितमाधत्ते तथा राज्ञाऽप्यसंशयम् ॥
वर्तितव्यं कुरुश्रेष्ठ सदा धर्मानुवर्तिना ।
स्वं प्रियं तु परित्यज्य यद्यल्लोकहितं भवेत् ॥
न सन्त्याज्यं च ते धैर्यं कदाचिदपि पाण्डव ।
धीरस्य स्पष्टदण्डस्य न ह्याज्ञा प्रतिहन्यते ॥
परिहासश्च भृत्यैस्ते नात्यर्थं वदतां वर ।
कर्तव्यो राजशार्दूल दोषमत्र हि मे शृणु ॥
अवमन्यन्ति भर्तारं सहर्षमुपजीविनः ।
स्वे स्थाने न च तिष्ठन्ति लङ्घ्यन्ति च तद्वचः ॥
प्रेष्यमाणा विकल्पन्ते गुह्यं चाप्यनुयुञ्जते ।
अयाच्यं चैव याचन्ते भोज्यान्याहारयन्ति च ॥
क्रुथ्यन्ति परिदीप्तन्ति भूमिपायाधितिष्ठते ।
उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्य ते ॥
जर्झरं चास्य विषयं कुर्वन्ति प्रतिरूपकैः ।
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ॥
वान्तं निष्ठीवनं चैव कुर्वते चास्य सन्निधौ ।
निर्लज्जा राजशार्दूल व्याहरन्ति च तद्वचः ॥
हयं वा दन्तिनं वाऽपि रथं वा नृपसंमतम् ।
अधिरोहन्त्यवज्ञाय सहर्षाः पार्थिवे मृदौ ॥
इदं ते दुष्करं राजन्निदं ते दुर्विचेष्टितम् ।
इत्येवं सुहृदो नाम ब्रुवते परिपद्गताः ॥
क्रुद्धे चास्मिन्हसन्त्येव न च हृष्यन्ति पूजिताः ।
सङ्घर्षशीलाश्च तदा भवन्त्यन्योन्यकारणात् ॥
विस्रंसयन्ति मन्त्रं च विवृण्वन्ति च दुष्कृतम् ।
लीलया चैव कुर्वन्ति सावज्ञास्तस्य शासनम् ॥
अलङ्काराणि भोज्यं च तथा स्नानानुलेपने ।
हेलयाना नरव्याघ्र स्वस्थास्तस्योपभुञ्जये ॥
निन्दन्ते स्वानधीकारान्सन्त्यजन्ते च भारत ।
न वृत्त्या परितृष्यन्ति राजदेयं हरन्ति च ॥
क्रीडितुं तेन चेच्छन्ति ससूत्रेणेव पक्षिणा ।
अस्मत्प्रणेयो राजेति लोकांश्चैव वदन्त्युत ॥
एते चैवापरे चैव दोषाः प्रादुर्भवन्त्युत ।
नृपतौ मार्दवोपेते हर्षुले च युधिष्ठिर ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥

12-55-2 धर्मः प्रजापालनात्मकः परमः सर्वधर्मश्रेष्ठः । एतं धर्मं भारं दुवेहं मन्ये ॥ 12-55-5 प्रग्रहणं नियन्त्रणम् ॥ 12-55-6 संस्था मर्यादाव्यवस्था ॥ 12-55-8 अग्रे इतरेभ्यो धर्मेभ्यः पूर्वम् ॥ 12-55-9 परः आगमः परं रहस्यम् । नः अस्माकं त्वत्तएव विहितमस्तु ॥ 12-55-18 सत्यान्नान्यदाश्वासकारमिति ड. थ. पाठः ॥ 12-55-19 स्थूललक्ष्यः बहुप्रदः ॥ 12-55-26 भौमं ब्रह्म वेदान् यज्ञांश्च ॥ 12-55-29 स्वधर्मेण शस्त्रोद्यमनेन निगृह्णीयादेव नतु हन्यात् ॥ 12-55-30 विनश्यमानमाततायिदोषात् । तेन जाततायिनिग्रहेण ॥ 12-55-32 अभिशस्तं सताऽसता वा दोषेण युक्तं तथाख्यापितम् ॥ 12-55-33 शारीरं कशाघातादिजम् ॥ 12-55-35 षट््सु मरुजलपृथ्वीवनपर्वतनस्मवेषु ॥ 12-55-37 अधर्मो धर्मविरोधी ॥ 12-55-39 गजस्य क्षममाणस्य ॥ 12-55-42 व्यसनानि मृगयादीनि ॥ 12-55-46 प्रियमिष्टम् ॥ 12-55-47 न भयं विद्यते क्वचित् । इति झ. पाठः । ते त्वया ॥ 12-55-52 प्रतिरूपकैः कृत्रिमैः शासनपत्रैः । विषयं देशम् । जर्झरं निःसारम् । स्त्रीरक्षिभिः सज्जन्ते प्रीति कुर्वन्ति अन्तःपुरे प्रवेशमिच्छन्तः ॥ 12-55-54 नादृत्य हर्षुले इति झ. पाठः । तत्र हर्षुले परिहासशीले इत्यर्थः ॥ 12-55-57 विस्रंसयन्ति भेदयन्ति ॥ 12-55-58 स्वस्थाः निर्भयाः ॥ 12-55-59 राजदेयं राजभागम् ॥