अध्यायः 056

भीष्मेण युधिष्ठिराय राजधर्मकथनम् ॥ 1 ॥

भीष्म उवाच ।
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर ।
प्रशस्यते न राजा हि नारीवोद्यमवर्जितः ॥
भगवानुशना चाह श्लोकमत्र विशांपते ।
तदिहैकमना राजन्गदतस्तं निबोध मे ॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि ।
सन्धेयानभिसन्धत्स्व विरोध्यांश्च विरोधय ॥
सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत् ।
गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः ॥
मरुत्तेन हि राज्ञा वै गीतः श्लोकः पुरातनः ।
राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥
बाहोः पुत्रेण राज्ञा च सगरेण च धीमता ।
असमञ्जः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ॥
असमञ्जः सरय्वां स पौराणां बालकान्नृप ।
न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ॥
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः ।
मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः ॥
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः ।
सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ॥
न हिंस्यात्परवित्तानि देयं काले च दापयेत् ।
विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ॥
गुप्तमन्त्रो जितक्रोधः शास्त्रार्थकृतनिश्चयः ।
धर्मे चार्थे च कामे च मोक्षे च सततं रतः ॥
त्रय्या संवृतमन्त्रश्च राजा भवितुर्महति ।
वृजिनं च नरेन्द्राणां नान्यच्चारक्षणात्परम् ॥
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता ।
धर्मसंकररक्षा च राज्ञां धर्मः सनातनः ॥
न विश्वसेच्च नृपतिर्न चात्यर्थं च विश्वसेत् ।
षाङ्गुण्यगुणदोषांश्च नित्यं बुद्ध्याऽवलोकयेत् ॥
अच्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते ।
त्रिवर्गे विदितार्थश्च युक्ताचारपथश्च यः ॥
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः ।
वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ॥
अभृतानां भवेद्भर्ता भृतानामन्ववेक्षकः ।
नृपतिः सुभुखश्च स्यात्स्मितपूर्वाभिभाषिता ॥
उपासिता ---- जिततन्द्रिरलोलुपः ।
सतां वृत्ते स्थितमतिः सतां ह्याचारदर्शनः ॥
न चाददीत वित्तानि सतां हस्तात्कदाचन ।
असभ्द्यश्च समादाय सभ्द्यस्तु प्रतिपादयेत् ॥
स्वयं प्रहर्ता दाता च वश्यात्मा वश्यसाधनः ।
काले दाता च भोक्ता च शुद्धाचारस्तथैव च ॥
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः ।
शिष्टाञ्शिष्टाभिसंबन्धान्मानिनोऽनवमानिनः ॥
विद्याविदो लोकविदः परलोकान्ववेक्षकान् । धर्मे च निरतान्साधूनचलानचलानिव ।
सहायान्सततं कुर्याद्राजा भूतिपरिष्कृतान् ।
तैश्च तुल्यो भवेद्भोगैश्छत्रमात्राज्ञयाऽधिकः ॥
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्समा ।
एवं कुर्वन्नरेन्द्रो हि न खेदमिह विन्दति ॥
सर्वाभिशङ्की नृपतिर्यश्च सर्वहरो भवेत् ।
स क्षिप्रमनृर्जुर्लुब्धः स्वजनेनैव बाध्यते ॥
शुचिस्तु पृथिवीपालो लोकस्यानुग्रहे रतः ।
न पतत्यरिभिर्ग्रस्तः पतितश्चाधितिष्ठति ॥
अक्रोधनो ह्यव्यसनी मृदुदण्डो जितेन्द्रियः ।
राजा भवति भूतानां विश्वास्यो हिमवानिव ॥
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु लालसः ।
सुदर्शः सर्ववर्णानां नयापनयवित्तथा ॥
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः ।
अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः ॥
आरब्धान्येव कार्याणि न पर्यवसितान्यपि ।
यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ॥
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः ।
निर्भया विचरिष्यन्ति स राजा राजसत्तमः ॥
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः ।
नयापनयवेत्तारः स राजा राजसत्तमः ॥
स्वधर्मनिरता यस्य जना विषयवासिनः ।
असङ्घातरता दान्ताः पाल्यमाना यथाविधि ॥
वश्या यत्ता विनीताश्च न च सङ्घर्षशीलिनः ।
विषये दानरुचयो नरा यस्य स पार्थिवः ॥
न यस्य कूटं कपटं न माया न च मत्सरः ।
विषये भूमिपालस्य तस्य धर्मः सनातनः ॥
यः सत्करोति ज्ञानानि श्रेयान्परहिते रतः ।
सतां वर्त्मानुगस्त्यागी स राजा स्वर्गमर्हति ॥
यस्य चाराश्च मन्त्राश्च नित्यं चैव कृताकृताः ।
न ज्ञायन्ते हि रिपुभिः स राजा राज्यमर्हति ॥
श्लोकद्वयं पुरा गीतं भार्गवेण महात्मना ।
आख्याते राजचरिते नृपतिं प्रति भारत ॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनं ॥
तद्राज्ये राज्यकामानां नान्यो धर्मः सनातनः ।
ऋते रक्षां तु विस्पष्टां रक्षा लोकस्य धारिणी ॥
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ ।
राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ॥
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट््पञ्चाशोऽध्यायः ॥ 56 ॥

12-56-3 अप्रवासिनं वेदाध्ययनार्थम् ॥ 12-56-5 सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि अङ्गानि यस्य तस्य सप्ताङ्गस्य ॥ 12-56-12 न हिं स्यात् करार्थं धान्यानि रुद्धा वृष्ट्यादिना न नाशयत् । देय---नम् ॥ 12-56-14 वृजिनं संकटं अरक्षणात् मन्त्रस्यागोपनादन्यन्नास्ति ॥ 12-56-15 धर्माणां संकरोव्यत्ययस्तस्मात्प्रजानां रक्षा धर्मसंकररक्षा ॥ 12-56-16 न विश्वसेत् । चात् विश्वसेदप्याप्तेषु । तेष्वपि अत्यर्थं न विश्वसेत् ॥ 12-56-23 शूरान्सहायान् कुर्यादिति तृतीयेनान्वयः । असंहार्यान्परैरप्रतार्यान् । शिष्टाभिसंबन्धान् शिष्टपरिवारान् । अनवमानिनः अवमानं परस्याकुर्वतः ॥ 12-56-24 अचलान् स्थिरान् अचलानिवपर्वतानिव ॥ 12-56-25 छत्रमात्रेण सहिता या आज्ञा इदमित्थं कुरुइदं नेति तयाधिकः । अन्यत्सर्वं शूरैः समानं भुञ्जीत ॥ 12-56-32 सुपर्यवसितानि च इति झ. पाठः ॥ 12-56-35 असंघातरताः संघाते शरीरे प्रीतिमन्तो न भवन्ति किंतु तत्साध्ये धर्मे एवेत्यर्थः ॥ 12-56-36 संघर्षः पराभिभवस्तच्छीलिनो न ॥ 12-56-37 कूटं दम्भः । कपटमनृतम् । मत्सरः परोत्कर्षासहिष्णुत्वम् ॥ 12-56-38 ज्ञेये परहिते इति झ. पाठः । ज्ञेयः पौरहिते इति थ. द. पाठः । राज्यमर्हतीति झ. पाठः । ज्ञानानि ज्ञानयुक्तान्पण्डितान् ॥ 12-56-39 कृता अप्यकृता इवेति कृताकृताः ॥ 12-56-41 प्रथमं श्रेष्ठं असत्यशुभे ॥