अध्यायः 057
भीष्मेण युधिष्ठिराय प्रथमदिने राजधर्मकथनम् ॥ 1 ॥ ततः सायं
कृष्णादीनां स्वस्वावासगमनम् ॥ 2 ॥
एतत्ते राजधर्माणां नवनीतं युधिष्ठिर ।
बृहस्पतिर्हि भगवान्नान्यं धर्मं प्रशंसति ॥
विशालाक्षश्च भगवान्काव्यश्चैव महातपाः ।
सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः ॥
भरद्वाजश्च भगवांस्तथा गौरशिरा मुनिः ।
राजशास्त्रप्रणेतारो ब्राह्मणा ब्रह्मवादिनः ॥
रक्षामेव प्रशंसन्ति धर्मं धर्मभृतां वर ।
राज्ञां राजीवताम्राक्ष साधनं चात्र मे शृणु ॥
चारश्च प्रणिधिश्चैव काले दानममत्सरः ।
युक्त्या दानं न चादानमयोगेन युधिष्ठिर ॥
सतां संग्रहणं शौर्यं दाक्ष्यं सत्यं प्रजाहितम् ।
अनार्जवैरार्जवैश्च शत्रुपक्षाविवर्धनम् ॥
केतनानां च जीर्णानामवेक्षा चैव सीदताम् ।
द्विविधस्य च दण्डस्य प्रयोगः कालचोदितः ॥
साधूनामपरित्यागः कुलीनानां च धारणम् ।
निचयश्च निचेयानां सेवा बुद्धिमतामपि ॥
बलानां हर्षणं नित्यं प्रजानामन्ववेक्षणम् ।
कार्येष्वखेदः कोशस्य तथैव च विवर्धनम् ॥
पुरगुप्तिरविश्वासः पौरसंघातभेदनम् ।
अरिमध्यस्थमित्राणां यथावच्चान्ववेक्षणम् ॥
उपजापश्च भृत्यानामात्मनः पुरदर्शनम् ।
अविश्वासः स्वयं चैव परस्याश्वासनं तथा ॥
नीतिवर्त्मानुसारेण नित्यमुत्थानमेव च ।
रिपूणामनवज्ञानं नित्यं चानार्यवर्जनम् ॥
उत्थानं हि नरेन्द्राणां बृहस्पतिरभाषत ।
राजधर्मस्य यन्मूलं श्लोकांश्चात्र निबोध मे ॥
उत्थानेनामृतं लब्धमुत्थानेनासुरा हताः ।
उत्थानेन महेन्द्रेण श्रैष्ठ्यं प्राप्तं दिवीह च ॥
उत्थानधीरः पुरुषो वाग्धीरानधितिष्ठति ।
उत्थानवीरान्वाग्वीरा रमयन्त उपासते ॥
उत्थानहीनो राजा हि बुद्धिमानपि नित्यशः ।
प्रधर्षणीयः शत्रूणां भुजङ्ग इव निर्विषः ॥
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि हि दहत्यग्निर्विषमल्पं हिनस्ति च ॥
एकाङ्गेनापि संभूतः शत्रुर्दुर्गमुपाश्रितः ।
सर्वं तापयते देशमपि राज्ञः समृद्धिनः ॥
राज्ञो रहस्यं यद्वाक्यं जयार्थे लोकसंग्रहः ।
हृदि यच्चास्य जिह्नं स्यात्कारणार्थं च यद्भवेत् ॥
यच्चास्य कार्यं वृजिनं मार्दवेनैव धार्यते ।
रञ्जनार्थं च लोकस्य धर्मिष्ठामाचरेत्क्रियाम् ॥
राज्यं हि सुमहत्तत्र दुर्धार्यमकृतात्मभिः ।
न शक्यं मृदुना वोदुमाघातस्थानमुल्वणम् ॥
राज्यं सर्वामिषं नित्यमार्जवेनैव धार्यते ।
तस्मान्मिश्रेण सततं वर्तितव्यं युधिष्ठिर ॥
यद्यप्यस्य विपक्तिः स्याद्रक्षमाणस्य वै प्रजाः ।
सोप्यस्य विपुलो धर्म एवं वृत्ता हि भूमिपाः ॥
एष ते राजधर्माणां लेशः समनुवर्णितः ।
भूयस्ते यत्र संदेहस्तद्ब्रूहि कुरुसत्तम ॥
वैशंपायन उवाच ।
ततो व्यासश्च भगवान्देवस्थानोऽश्म एव च ।
वासुदेवः कृपश्चैव सात्यकिः सञ्जयस्तथा ॥
साधुसाध्विति संहृष्टा घुष्यमाणैरिवाननैः ।
अस्तुवंश्च नरव्याघ्रं भीष्मं धर्मभृतां वरम् ॥
ततो दीनमना भीष्ममुवाच कुरुनन्दनः ।
नेत्राभ्यामश्रुपूर्णाभ्यां पादौ तस्य शनैः स्पृशन् ॥
श्व इदानीं स्वसंदेहं प्रवक्ष्यामि पितामह ।
उपैति सविता ह्यस्तं रसमापीय पार्थिवम् ॥
ततो द्विजातीनभिवाद्य केशवः ।
कृपश्च ते चैव युधिष्ठिरादयः ।
प्रदक्षिणीकृत्य महानदीसुतं
ततो रथानारुरुहुर्मुदान्विताः ॥
दृषद्वतीं चाप्यवगाह्य सुव्रताः ।
कृतोदकार्थाः कृतजप्यमङ्गलाः ।
उपास्य संध्यां विधिवत्परंतपा
स्ततः पुरं ते विविशुर्गजाह्वयम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥
12-57-1 एतद्रक्षणं नवनीतं नवनीतवत्सर्वधर्मसारम् । न्याय्यं
धर्मं प्रशंसतीति झ. पाठः ॥ 12-57-5 चारो गुप्तस्पशः । प्रणिधिः प्रकटस्पशः ।
दानं भक्तवेतनयोः युक्तेरादानम् । अयोगेनानुपायेन आदानं करग्रहणं नच ॥ 12-57-7
केतनानां गृहादीनाम् । द्विविधस्य शारीरदण्डोऽर्थदण्डश्चेति भेदात् ॥ 12-57-8
निचेयानां संग्राह्याणां धान्यादीनां निचयः संग्रहः ॥ 12-57-10 अविश्वासो
यामिकादीनामपि ॥ 12-57-11 अविश्वासो भृत्यानामेव ॥ 12-57-12 उत्थानमुद्योगः ।
अनार्यं हीनकर्म कदर्यत्वादि तद्वर्जनम् ॥ 12-57-15 वाग्वीरान् पण्डितान् ।
उत्थानमेव महत्पाण़्डित्यमित्यर्थः ॥ 12-57-18 एकाङ्गेन
हस्त्यश्वरथपादातानामन्यतमेनापि संभूतः संपन्नः । समृद्धिनः समृद्धिमतः ॥ 12-57-21 अकृतात्मभिः क्रूरैः ॥ 12-57-22 मिश्रेण क्रौर्यमार्दवाभ्याम् ॥ 12-57-28 प्रक्ष्यामि त्वां पितामह इति झ. पाठः ॥