अध्यायः 063

भीष्मेण युधिष्ठिरंप्रति राजधर्मप्रशंसकेन्द्रमांधातृसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।
चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव ।
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः ॥
सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम ।
निराशिषो जीवलोकाः क्षत्रधर्मे व्यवस्थिते ॥
अप्रत्यक्षं बहुफलं धर्ममाश्रमवासिनाम् ।
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ॥
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चये ।
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ॥
प्रत्यक्षं फलभूयिष्ठमात्मसाक्षिकमच्छलम् ।
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ॥
धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर । यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा ।
राजधर्मेष्वनुमता लोकाः सुचरितैः सह ॥
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् । सर्वभूतेश्वरं देवं ब्राह्मं नारायणं पुरा ।
जग्मुः सुबहुशः शूरा राजानो दण्डनीतये ॥
एकैकमात्मनः कर्म तुलयित्वाश्रमं पुरा ।
जानः पर्युपासन्त दृष्टान्तवचने स्थिताः ॥
साध्या देवा वसवश्चाश्विनौ च रुद्राश्च विश्वे मरुतां गणाश्च ।
सृष्टाः पुरा ह्यादिदेवेन देवाः क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ॥
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चये ।
निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा ॥
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ।
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया ॥
अनादिमध्यनिधनं देवं नारायणं प्रभुम् ।
स राजा राजशार्दूल मान्धाता परमेश्वरम् ॥
जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः ।
दर्शयामास तं विष्णू रूपमास्थाय वासवम् ॥
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् । तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः ।
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युतिम् ॥
इन्द्र उवाच ।
किमिष्यसे धर्मभूतां वरिष्ठ यं द्रष्टुकामोऽसि तमप्रमेयम् ।
अनन्तमायामितमन्त्रवीर्यं नारायणं ह्यादिदेवं पुराणम् ॥
नासौ देवो विश्वरूपो मयाऽपि शक्यो द्रष्टुं ब्रह्मणा वाऽपि साक्षात्
येऽन्ये कामास्तव राजन्हृदिस्था दास्ये चैतांस्त्वं हि मर्त्येषु राजा ॥
सत्ये स्थितो धर्मपरो जितेन्द्रियः शूरो दृढप्रीतिरतः सुराणाम् ।
बुद्ध्या भक्त्या चोत्तमः श्रद्धया च ततस्तेऽहं दझि वरान्यथेष्टम् ॥
मान्धातोवाच ।
असंशयं भगवन्नादिदेवं वक्ष्यामि त्वाऽहं शिरसा संप्रसाद्य ।
त्यक्त्वा कामान्धर्मकामो ह्यरण्य मिच्छे गन्तुं सत्पथं साधुजुष्टम् ॥
क्षात्राद्धर्माद्विपुलादप्रमेया श्लोकाः प्राप्ताः स्थापितं स्वं यशश्च ।
धर्मो योऽसावादिदेवात्प्रवृत्तो लोकश्रेष्ठं तं न जानामि कर्तुम् ॥
इन्द्र उवाच ।
असैनिका धर्मपराश्च धर्मे परां गतिं न नयन्ते ह्ययुक्तम् ।
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः ॥
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः सप्रस्थानाः क्षात्रधर्मा विशिष्टाः ।
अस्मिन्धर्मे सर्वधर्माः प्रविष्टाः क्षात्रं धर्मं श्रेष्ठतमं वदन्ति ॥
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः ।
त्राताः सर्वे प्रसह्यारीन्क्षत्रधर्मेण विष्णुना ॥
यदि ह्यसौ भगवन्नाहनिष्य द्रिपू सर्वानसुरानप्रमेयः ।
न च ब्रह्मा नैव लोकादिकर्ता सन्तो धर्माश्चादिधर्माश्च न स्युः ॥
इमामुर्वी नाजयद्विक्रमेण देवश्रेष्ठः सासुरामादिदेवः ।
चातुर्वर्ण्यं चातुराश्रम्यधर्माः सर्वे न स्युर्ब्राह्मणानां विनाशात् ॥
नष्टा धर्माः शतधा शाश्वतास्ते क्षात्रेण धर्मेण पुनः प्रवृद्धाः ।
युगेयुगे ह्यादिधर्माः प्रवृत्ता लोकज्येष्ठं क्षात्रधर्मं वदन्ति ॥
आत्मत्यागः सर्वभूतानुकम्पा लोकज्ञानं पालनं मोक्षणं च ।
विषण्णानां मोक्षणं पीडितानां क्षात्रे धर्मे विद्यते पार्थिवानाम् ॥
निर्मर्यादाः काममन्युप्रवृत्ता भीता राज्ञो नाधिगच्छन्ति पापम् ।
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः साध्वाचाराः साधुधर्मं वदन्ति ॥
पुत्रवत्पाल्यमानानि धर्मलिङ्गानि पार्थिवैः ।
लोके भूतानि सर्वाणि चरन्ते नात्र संशयः ॥
सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम् ।
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

12-63-1 राजधर्माश्च पाण्डव । लोकालोकोत्तराश्चैव धर्माः क्षात्रे समर्पिता इति ट. ड.द. पाठः ॥ 12-63-3 बहुद्वारमिति झ. पाठः ॥ 12-63-4 अदृष्टान्ते न दृष्टोऽन्तो यस्य तस्मिन् ॥ 12-63-5 सुखभूयिष्ठमिति झ. पाठः ॥ 12-63-6 धर्माश्रमे गार्हस्थ्ये वर्णानां धर्माणां उपश्रुतिरन्तर्भावः संख्या प्रकटा । तथा राजधर्मेषु धर्मैः सह लोका अन्तर्भूताः । अनुलोमा राजधर्मो लोके सुचरितैरिहेति थ. द. पाठः ॥ 12-63-8 आश्रमं आश्रमविहितं तुलयित्वा किं दण्डनीतिजो धर्मो महान् उत आश्रमधर्म इति संदिह्य दृष्टान्तवचने सिद्धान्तं श्रोतुम् ॥ 12-63-13 वासयं ऐन्द्रं रूपम् ॥ 12-63-20 न सन्ति सैनिका येषां ते असैनिकाः अराजानः युक्तं अभिनिवेशशून्यं यथा स्यात्तथा हेलयैव न नयन्ते इत्यर्थः । शेषभूताः अङ्गभूताः ॥ 12-63-26 आत्मत्यागो युद्धे मरणम् 12-63-29 अक्षरपर्यन्तं मोक्षावसानम् ॥