अध्यायः 070
भीष्मेण युधिष्ठिरंप्रति राजनप्रानुवर्णनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
क्तेन वृत्तेन वृत्तक्ष वर्तमानो महीपतिः ।
सुखेनार्यान्तुसुखोदर्कानिह च प्रेत्य चाश्नुते ॥
भीष्म उवाच ।
इत्थं गुणानां षट््त्रिंशी षट््त्रिंशद्गुणसंयुता ।
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ॥
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न चास्तिकः ।
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥
संदधीत न चानार्यैर्विगृह्णीयाच्च शत्रुभिः ।
नानाप्तैश्चारयेच्चारं कुर्यात्कार्यमपीडया ॥
अर्थं ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः ।
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् ।
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ।
स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ॥
अस्तब्धः पूजयन्मान्यान्गुरून्सेवेदमायया ।
अर्चेद्देवानदम्भेन श्रियमिच्छेदकृत्सिताम् ॥
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् ।
सान्त्वयेन्न च मोक्षाय अनुगृह्णन्न चाक्षिपेत् ॥
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् ।
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि ।
अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ॥
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते ।
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥
वैशंपायन उवाच ।
इदं वचः शान्तनवस्य शुश्रुवा
न्युधिष्ठिरः पार्थिवमुख्यसंवृतः ।
तदा ववन्दे च पितामहं नृपो
यथोक्तमेतच्च चकार बुद्धिमान् ॥
12-70-2 षट््त्रिंशी षट््त्रिंशत्संख्याका ॥ 12-70-5 विगृह्णीयान्न बन्धुभिः । नाभक्तं चारयेच्चारं इति झ. पाठः । तत्र अभक्तं अल्पान्नं इत्यर्थः ॥ 12-70-8 चोक्षः शुद्धः ॥ 12-70-11 न शोचयेत् शत्रुबन्धूनां शोकं अपनुदेत् ॥ 12-70-12 अनुत्तमं महत्तरम् ॥