अध्यायः 075
राज्यस्वीकारे अधर्माशङ्किनं युधिष्ठिरं प्रति भीष्मेण तस्य धार्मिकत्वसमर्थनेन तद्विधानम् ॥ 1 ॥
युधिष्ठिर उवाच ।
यया वृत्त्या महीपालो विवर्धयति मानवान् ।
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
दानशीलो भवेद्राजा यज्ञशीलश्च भारत ।
उपवासतपः शीलः प्रजानां पालने रतः ॥
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयन् ।
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान् ॥
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते ।
यद्यदाचरते राजा तत्प्रजानां स्म रोचते ॥
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु ।
निहन्यात्सर्वतो दस्यून्न राज्ञो दस्युषु क्षमा ॥
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य धर्मस्य राजा भागं च विन्दति ॥
यदधीते यद्ददाति यञ्जुहोति यदर्चति ।
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ॥
यद्राष्ट्रोऽकुशलं किंचिद्राज्ञो रक्षयतः प्रजाः ।
चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः ।
कर्मणा पृथिवीपाल नृशंसोऽनृतवागपि ॥
तादृशात्किल्बिपाद्राजा शृणु येन प्रमुच्यते ।
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि ।
तत्स्वकोशात्प्रदेयं स्यादशक्तेनोपजीवतः ॥
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा ।
न स्थेयं विषये तेन योऽपकुर्याद्द्विजातिषु ॥
ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम् ।
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ॥
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ।
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ॥
न हि कामात्मना राज्ञा सततं शठबुद्धिना ।
नृशंनेनातिलुब्धेन शक्यं पालयितुं प्रजाः ॥
युधिष्ठिर उवाच ।
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम् ।
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ॥
तदल मम राज्येन यत्र धर्मो न विद्यते ।
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ॥
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः ।
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ॥
भीष्म उवाच ।
वेदाहं तव या बुद्धिरानृशंस्येऽगुणैव सा ।
न च नित्यानृशंसेन शक्यं राज्यमुपासितुम् ॥
सदैव त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम् ।
क्लीबं धर्मघृणायुक्तं न लोको बहुमन्यते ॥
राजधर्ममवेक्षस्व पितृपैतामहोचितम् ।
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ॥
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः ।
प्रजापालनसंभूतं प्राप्तो धर्मफलं ह्यसि ॥
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यभ्यभाषत ।
`विचित्रवीर्यो धर्मात्मा चित्रवीर्यो नराधिपः ॥
शन्तनुश्च महीपालः सर्वक्षत्रस्य पूजितः ।'
तवैतां प्राज्ञतां तात यथा चरसि मेधया ॥
शौर्यं बलं च सत्यं च पिता तव सदाऽब्रवीत् ।
महत्त्वं बलमौदार्यं भवतः कुन्त्ययाचत ॥
नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते ।
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ॥
दानमध्ययनं यज्ञं प्रजानां परिपालनम् ।
धर्म्यमेतदधर्म्यं वा जन्मनैवाभ्यजायथाः ॥
कुले धुरि च युक्तानां वहतां भारमीदृशम् ।
सीदतामपि कौन्तेय कीर्तिर्न परिहीयते ॥
समन्ततो विनीतो यो वहत्यस्खलितो हि सः ।
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ॥
नैकान्ते विनिपातेऽपि विहरेदिह कश्चन ।
धर्मी गृही वा राजा वा ब्रह्मचार्यथवा द्विजः ॥
अल्पं हि सारभूयिष्ठं यत्कर्मोदारमेव तत् ।
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्य कर्मणः ॥
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम् ।
योगक्षेमस्तदा राज्ञः कुशलायैव कल्पते ॥
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा ।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥
यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः ।
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ॥
युधिष्ठिर उवाच ।
किं न्वतः परमं स्वर्ग्यं का ततः प्रीतिरुत्तमा ।
किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि ॥
भीष्म उवाच ।
यस्मिन्भयार्दिताः सन्तः क्षेमं विन्दन्त्यपि क्षणम् ।
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ॥
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम ।
भव राजा जय स्वर्गं सतो रक्षाऽसतो जहि ॥
अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह ।
पर्जन्यमिव भूतानि स्वादुद्रुममिव द्विजाः ॥
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम् ।
वत्सलं संविभक्तारमुपजीवन्तु बान्धवाः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥
12-75-5 न कामात्कस्यचित्क्षमेदिति झ.पाठः ॥ 12-75-7 यदधीते ब्राह्मणादिः ॥ 12-75-10 अशक्तेन राज्ञा उपजीवतः धनोपजीविनो वणिजादेः ॥ 12-75-32 प्रतिगृह्णीयाद्वशीकुर्यात् ॥