अध्यायः 076
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणानां निषिद्धकर्मकथनम् राजधर्मकथनं च ॥
युधिष्ठिर उवाच ।
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि ।
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ॥
भीष्म उवाच ।
विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः ।
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ॥
ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः ।
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ॥
`गोऽजाविमहिषाणां च बडवानां च पोषकाः ।
वृत्त्यर्थं प्रतिपद्यन्ते तान्वैश्यान्संप्रचक्षते ॥
ऐश्वर्यकामा ये चापि सामिपा वाऽपि भारत ।
निग्रहानुग्रहरतांस्तान्द्विजान्क्षत्रियान्विदुः ॥
अश्वारोहा गजारोहा रथिनोऽथ पदातयः ।
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ॥
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः ।
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥
अश्रोत्रियाः सर्वे एते सर्वे चानाहिताग्नयः ।
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ॥
आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः ।
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः ॥
[ऋत्विक्पुरोहितो मन्त्री दूतो वार्तानुकर्षकः ।
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥]
`म्लेच्छदेशाश्च ये केचित्पापैरध्युषिता नरैः ।
गत्वा तु ब्राह्मणस्तांश्च चण्डालः प्रेत्य चेह च ॥
व्रात्यान्म्लेच्छांश्च शूद्रांश्च याजयित्वा द्विजाधमः ।
अकीर्तिमिह संप्राप्य नरकं प्रतिपद्यते ॥
महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम् ।
ब्राह्मणो ऋग्यजुः साम्नां मूढः कृत्वा तु विप्लवम् ॥
कल्पमेकं कृमिस्थोऽथ नानाविष्ठासु जायते ।
व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पत्तितेऽशुचौ ॥
कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ ।
अनधीतेषु सर्वत्र भुञ्जाने यत्र तत्र वा ॥
वालस्त्रीवृद्धहन्तुश्च मातापित्रोर्गुरोस्तथा ।
मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथंचन ॥
पुत्रघातिनि शत्रौ च न मन्त्राद्याजयेद्द्विजः ।
स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः ॥
यदि विप्रो विदेशस्थस्तीर्थयात्रां गतोऽपि वा ।
यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम् ॥
सुसयतः शुचिर्भुत्वा मन्त्रानुच्चारयेद्द्विजः ।
आर्तश्चोच्चारयेन्मन्त्रमार्तत्राणपरोऽथवा ।
हीनेष्वपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः ॥
क्रूरकर्मा विकर्मा वा कर्मभिर्वञ्चितोऽथवा ।
तत्त्ववित्तरते पापं शीलवान्सयतेन्द्रियः ॥ '
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः ।
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ॥
अब्राह्मणानां वित्तस्य स्वामी राजेति नः श्रुतिः ।
ब्राह्मणानां च येकेचिद्विकर्मस्था इति श्रुतिः ।
`प्रागुक्तांश्चाप्यनुक्तांश्च सर्वास्तान्दापयेत्करान्'
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ॥
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा ।
राजन्स राज्ञा भर्तव्य इति वेदविदो विदुः ॥
स चेन्नापि निवर्तेत कृतवृत्तिः परन्तप ।
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ॥
`यज्ञः श्रुतमपैशुन्यमर्हिसाऽतिथिपूजनम् ।
दमः सत्यं तपो दानमेतद्ब्राह्मणलक्षणम् ॥' ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट््सप्ततितमोऽध्यायः ॥ 76 ॥
12-76-3 ऋग्यजुःसामसंपन्नाः इति झ. पाठः ॥ 12-76-7 जन्मकर्मजन्मोचितकर्म तेन विहीनाः ॥ 12-76-8 बलिं करवानम् । विष्टिंविना वेतनं राजसेवाम् ॥ 12-76-9 आह्वायका धर्माधिकारिणः । देवलका वेतनेन देवपूजाकर्तारः । महापथिकः समुद्रे नौयानेन गच्छन् । यद्वा महापथि शुल्कग्राहकः ॥