अध्यायः 077

भीष्मेण युधिष्ठिरंप्रति केकयराजोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
केषां प्रभवते राजा वित्तस्य भरतर्षभ ।
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् ।
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।
राज्ञ एवापराधं तं मन्यन्ते किल्विषं नृप ॥
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा ।
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं केकयराजेन हियमाणेन रक्षसा ॥
केकयानामधिपतिं रक्षो जग्राह दारुणम् ।
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥
राजोवाच ।
न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।
नानाहिताग्निर्नायज्वा मा ममान्तरमाविशः ॥
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः ।
द्विजातिर्विषये मह्यं मा ममान्तरमाविशः ॥
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम ।
नाधीते चाव्रती कश्चिन्मा ममान्तरमाविशः ॥
अध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति च ।
ददति प्रतिगृह्णन्ति षट््सु कर्मस्ववस्थिताः ॥
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः ।
ब्राह्मणा मे स्वकर्मस्था मा ममान्तरमाविशः ॥
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः ।
नाध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति न ॥
ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः ।
क्षत्रिया मे स्वकर्मस्था मा ममान्तरमाविशः ॥
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया ।
अप्रमत्ताः क्रियावन्तः सुवृत्ताः सत्यवादिनः ॥
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः ।
मम वैश्याः स्वकर्मस्था मा ममान्तरमाविशः ॥
त्रीन्वर्णानुपतिष्ठन्ते यथावदनसूयकाः ।
मम शूद्राः स्वकर्मस्था मा ममान्तरमाविशः ॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् ।
संविभक्ताऽस्मि सर्वेषां मा ममान्तरमाविशः ॥
कुलानुरूपधर्माणां प्रस्थितानां यथाविधि ।
अव्युच्छेत्ताऽस्मि सर्वेषां मा ममान्तरमाविशः ॥
तपस्विनो मे विषये पूजिताः परिपालिताः ।
संविभक्ताश्च सत्कृत्य मा ममान्तरमाविशः ॥
नासंविभज्य भोक्ताऽस्मि न विशामि परस्त्रियम् ।
स्वतन्त्रो जातु न क्रीडे मा ममान्तरमाविशः ॥
नाब्रह्मचारी भिक्षावान्भिक्षुर्वा ब्रह्मचर्यवान् ।
अनृत्विजा हुतं नास्ति मा ममान्तरमाविशः ॥
`कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत् । नाहं व्युत्क्रामितः सत्यान्मा ममान्तरमाविशः ॥ '
नावजानाम्यहं वैद्यान्न वृद्धान्न तपस्विनः ।
राष्ट्रे स्वपति जागर्मि मा ममान्तरमाविशः ॥
`शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम । धर्मचारी गृहस्थश्च मा ममान्तरमाविशः ॥'
वेदाध्ययनसंपन्नस्तपस्वी सत्यधर्मवित् ।
स्वामी सर्वस्य राष्ट्रस्य धीमान्मम पुरोहितः ॥
दानेन दिव्यानभिवाञ्छामि लोकान् सत्येनाथ ब्राह्मणानां च गुप्त्या ।
शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः ॥
न मे राष्ट्रे विधवा ब्रह्मबन्धु र्न ब्राह्मणः कितवो नोत चोरः ।
नायाज्ययाजी न च पापकर्मा न मे भयं विद्यते राक्षसेभ्यः ॥
न मे शस्त्रैरनिर्भिन्नं गात्रे व्द्यङ्गुलमन्तरम् ।
धर्मार्थं युध्यमानस्य मा ममान्तरमाविशः ॥
गोब्राह्मणेभ्यो यज्ञेभ्यो नित्यं स्वस्त्ययनं मम ।
आशासते जना राष्ट्रे मा ममान्तरमाविशः ॥
राक्षस उवाच ।
`नारीणां व्यभिचाराच्च अन्यायाच्च महीक्षिताम् ।
विप्राणां कर्मदोषाच्च प्रजानां जायते भयम् ॥
अवृष्टिर्मारको दोषः सततं क्षुद्भयानि च ।
विग्रहश्च सदा तस्मिन्देशे भवति दारुणः ॥
यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथंचन ।
भयमुत्पद्यते तत्र यत्र विप्राः सुसंयताः ॥
गन्धर्वाप्सरसः सिद्धाः पन्नगाश्च सरीसृपाः ।
मानवान्न जिघांसन्ति यत्र नार्यः पतिव्रताः ॥
ब्राह्मणः क्षत्रिया वैश्या यत्र शूद्राश्च धार्मिकाः ।
नाऽनावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः ॥
धार्मिको यत्र भूपालो न तत्रास्ति पराभवः ।
उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः ॥
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे ।
तस्मात्प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम् ॥
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय ।
न रक्षोऽभ्यो भयं तेषां कुत एव तु पातकम् ॥
येषां पुरोगमा विप्रा येषां ब्रह्म परं बलम् ।
सुरक्षितास्तथा विप्रास्ते वै स्वर्गजितो नृपाः ॥
भीष्म उवाच ।
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः ।
आशीरेषां भवेद्राजन्राज्ञां सम्यक्प्रवर्तताम् ॥
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः ।
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥
एवं यो वर्तते राजा पौरजानपदेष्विह ।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

12-77-8 मामकान्तरमाविभः इति ट. ड.थ. पाठः । मामकान्तरमाविशः इति झ. पाठः ॥ 12-77-27 न पापकारी न च पापवक्ता इति ट.ड.थ.द. पाठः ॥