अध्यायः 079

भीष्मेण युधिष्ठिरंप्रति ऋत्विग्लक्षणादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह ।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥
भीष्म उवाच ।
प्रतिकर्मपरा राजन्वृत्तिरस्य विधीयते ।
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेवच ॥
ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः ।
परस्परस्य सुहृदः समन्तात्समदर्शिनः ॥
आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥
`यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते ।' धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः ।
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति ।
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः ॥
युधिष्ठिर उवाच ।
यदिदं वेदवचनं दक्षिणासु विधीयते ।
इदं देयमिदं देयं न क्वचिव्द्यवतिष्ठते ॥
देयं प्रतिधनं शास्त्रमापद्धर्मा न शास्त्रतः ।
आज्ञा शास्त्रस्य घोरे यं न शक्तिं समवेक्षते ॥
श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः ।
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ॥
भीष्म उवाच ।
न वेदानां परिभवान्न शाठ्येन न मायया ।
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥
यज्ञाङ्गं दक्षिणा तात मन्त्राणां परिबृंहणम् ।
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन ॥
शक्तिस्तु पूर्णपात्रेण संमिता नावमा भवेत् ।
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्थथाबलम् ॥
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः ।
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते ॥
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ।
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः ॥
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत् ।
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः ।
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ॥
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः ।
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ।
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥
निबोध दशहोतॄणां विधानं पार्थ यादृशम् । चित्तिः स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ।
`न शाठ्यं न च जिह्यत्वं कालो देशश्च ते दश ॥'
सर्वं दिह्नं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥

12-79-2 राज्ञां शान्तिकपौष्टिकादिकर्मप्रयोगशुद्ध्याख्यं प्रतिकर्म ऋत्विग्भिः कर्तव्यमित्यर्थः ॥ 12-79-5 त्रिभिः श्रुतवृत्तवशैः । शुक्लैनिंर्दोषैः ॥ 12-79-7 इदं देयमिदं देयमिति यदिदं वेदवचनमिति इति शब्दाध्याहारेण योज्यम् । व्यवतिष्ठते व्यवस्थां प्राप्नोति । अल्पेऽप्यपच्छेदनिमित्ते सर्वस्वदक्षिणाबिधानादुत्तरक्रतुकलापलोपप्राप्तेः ॥ 12-79-9 गोःस्थाने चरुमात्रदानरूपोऽनुकल्पोमिथ्याचारस्तदुपेतो यज्ञः श्रद्धयापिनि संपूर्यत इत्यर्थः ॥ 12-79-21 जिह्नं शाठ्यम् । आर्जवं अवक्रत्वम् ॥