अध्यायः 081

भीष्मेण युधिष्ठिरंप्रति कृष्णनारदसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले ।
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य महर्षेर्नारदस्य च ॥
वासुदेव उवाच ।
नासुहृत्परर्म मन्त्रं नारदार्हति वेदितुम् ।
अपण्डितो वाऽपि सुहृत्पण्डितो वाप्यनात्मवान् ॥
स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद ।
कृत्स्नां बुद्धिं च ते प्रेक्ष्य संपृच्छे त्रिदिवङ्गम ॥
दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् ।
अर्धंभोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे ॥
अरणीमग्निकामो वा मथ्नाति दहृयं मम ।
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा ॥
बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे ।
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद ॥
अन्ये हि सुमहाभागा बलवन्तो दुरासदाः ।
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः ॥
यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत् ।
द्वयोरेनं प्रचरतोर्वृणोम्येकरतं न च ॥
स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः ।
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः ॥
सोऽहं कित्नवमातेव द्वयोरपि महामुने ।
नैकस्य जयमाशंसे द्वितीयस्य पराजयम् ॥
ममैवं क्लिश्यमानस्य नारदोभयदर्शनात् ।
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा ॥
नारद उवाच ।
आपदो द्विविधाः कृष्ण बाह्याश्चाम्यन्तराश्च ह ।
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः ॥
सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा ।
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयः ॥
अर्थहेतोर्हि कामाद्वा वीरबीभत्सयाऽपि वा ।
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम् ॥
कृतमूलमिदानीं तद्राजशब्दसहायवत् ।
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम् ॥
बभ्रूग्रसेनतो राज्यं नाप्नुं शक्यं कथंचन ।
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः ॥
तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् ।
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत् ॥
अनायसेन शस्त्रेण मृदुना हृदयच्छिदा ।
जिह्वामुद्धर सर्वेषां परिमृदज्यानुमृज्य च ॥
वासुदेव उवाच ।
अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् ।
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च ॥
नारद उवाच ।
शक्त्याऽन्नदानं सततं तितिक्षाऽऽर्जवमार्दवम् ।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम् ॥
ज्ञातीनां वक्तुकामानां कटुकानि लधूनि च ।
गिरा त्वं हृदयं वाचं शमयस्य मनांसि च ॥
नामहापुरुषः कश्चिन्नानात्मा नासहायवान् ।
महतीं धुरमादाय समुद्यम्योरसा वहेत् ॥
सर्व एव गुरुं भारमनङ्वान्वहते समे ।
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम् ॥
भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव ।
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु ॥
नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र धनसन्त्यागाद्गुणः प्राज्ञेऽवतिष्ठते ॥
धन्यं यशस्यमायुष्वं स्वपक्षोद्भावनं सदा ।
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु ॥
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ।
षाङ्गुण्यस्य विधानेन यात्रा यानविधौ तथा ॥
यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः ।
त्वय्यायत्ता महाबाहो लोका लोकेश्वराश्च ये ॥
उपासन्ते हि त्वद्बुद्धिमृषयश्चापि माधव ।
त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम् ॥
त्वामासाद्य यदुश्रेष्ठमेधन्ते वादवाः सुखम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

12-81-1 अग्राह्यके वशीकर्तुमशक्ये ॥ 12-81-6 वाशब्द इवार्थः ॥ 12-81-9 ते यस्य पक्षे न स्युः स नस्यान्नश्येदेव । यस्य पक्षे ते स्युस्तत् तस्मात् कृत्स्नं फलं प्राप्नोतीति शेषः ॥ 12-81-11 कितवमातेव कितवयोर्द्यूतकारिणोरेका मातेव ॥ 12-81-13 अन्यतः बाह्याः आपदः स्वकृताः ज्ञातिकृताः अन्तरा आपदः ॥ 12-81-14 एते संकर्षणादयः । तदन्वथा अक्रूरान्वयाः ॥ 12-81-15 तत्र हेतुरर्थेति । तत्स्नेहप्रभवा इयं तव आपदिति सार्धः । स्वकर्मजेत्युक्तं तद्विवृणोति आत्मनेति सार्धेन । अन्यत्र आहुके ॥ 12-81-16 ज्ञातिशब्दं सहायवन् इति झ. पाठः । तत्र तत् ऐश्वर्यं कृतमूलं यतो ज्ञातिशब्दं ज्ञातित्वादनुच्छेदनीयमित्यर्थः ॥ 12-81-18 तच्च राज्यस्य पुनरादानं च ॥