अध्यायः 082

भीष्मेण युधिष्ठिरंप्रत्यमात्यपरीक्षार्थं कालकवृक्षीयोपाख्यांनकथनम् ॥ 1 ॥

भीष्म उवाच ।
एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत ।
यः कश्चिद्वेदयेदर्थं राज्ञा रक्ष्यः स मानवः ॥
ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः ।
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥
श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत् ।
अमात्या ह्यपहर्तारो भूयिष्ठं घ्नन्ति भारत ॥
राजकोशस्य गोप्तारं राजकोशविलोपकाः ।
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ॥
कोसलानामाधिपत्यं संप्राप्तं क्षेमदर्शिनम् ।
मुनिः कालकवृक्षीय आजगोमेति नः श्रुतम् ॥
स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः ।
सर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥
अधीये वायसीं विद्यां शंसन्ति मम वायसाः ।
अनागतमतीतं च यच्च संप्रति वर्तते ॥
इति राष्ट्रे परिपतन्बहुभिः पुरुषैः सह ।
सर्वेषां राजयुक्तानां दुष्कृतं परिदृष्टवान् ॥
स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः ।
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥
ततः स काकमादाय राजानं द्रष्टुमागमत् ।
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥
स स्म कौसल्यमागम्य राजामात्यमलंकृतम् ।
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥
असौ चासौ च जानीते राजकेशस्त्वया हृतः ।
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥
तथाऽन्यानपि स प्राह राजकोशहरांस्तदा ।
न चास्य वचनं किंचिदनृतं श्रूयते क्वचित् ॥
तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह ।
तमतिक्रम्य सुप्तं तु निशि काकमपोथयन् ॥
वायसं तु विनिर्भिन्नं दृष्ट्वा वाणेन पञ्जरे ।
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥
राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् ।
अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम् ॥
मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मनाऽऽगतः ।
ह्रियन्ते हि महार्थाश्च पुरुषे विक्रमत्यपि ॥
संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः ।
अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात् ॥
तथाविधस्य सुहृदा क्षन्तव्यं संविजानता ।
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ॥
तं राजा प्रत्युवाचेदं यत्किंचिन्मां भवान्वदेत् ।
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥
ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि ।
करिष्यामि हि ते वाक्यं यन्मां विप्र प्रवक्ष्यसि ॥
मुनिरुवाच ।
विद्वान्नयानपायांश्च भयाख्यातॄन्भयानि च ।
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागतः ॥
प्रागेवोक्तं तु दोषोऽयमाचार्यैर्नृपसेवनम् ।
अगतेः कुगतिर्ह्येषा या राज्ञा सहजीविका ॥
आशीविषैश्च तस्याहुः संगमं यस्य राजभिः ।
बहुमित्रांश्च राजानो बह्वभित्रास्तथैव च ॥
तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम् ।
तथाऽस्य राजतो राजन्मुहुर्तादागतं भयम् ॥
नैकान्तेनाप्रमादो हि शक्यः कर्तुं महीपतौ ।
न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता ॥
प्रमादात्स्खलते बुद्धिः स्खलतो नास्ति जीवितम् ।
अग्निं दीप्तमिवासीदेद्राजानप्नुपशिक्षितः ॥
आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् ।
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥
दुर्व्याहृताच्छङ्कमानो दुःस्थिताद्दुरनुष्ठितात् ।
दुरासदाद्दुर्वृजिनादिङ्गिताद्ध्यायितादपि ॥
देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः ।
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ॥
इति राजन्यमः प्राह वर्तते च तथैव तत् ।
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः ॥
ददात्यत्मद्विधोऽऽमात्यो बुद्धिसाहाय्यमापदि ।
वायसस्त्वेष मे राजन्नन्तकायाभिसंहितः ॥
न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ।
हिताहितांस्तु बुद्ध्येथा मापरोक्षमतिर्भव ॥
ये त्वादानपरा एव वसन्ति भवतो गृहे ।
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ॥
यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम् ।
आन्तरैराभेसंधाय राजन्सिद्ध्यति नान्यथा ॥
तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् ।
तैर्हि मे संधितो बाणः काके निपतितः प्रभो ॥
छझना मम काकश्च गमितो यमसादनम् ।
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेन चक्षुषा ॥
बहुनक्रझषग्राहां तिमिंगिलगणैर्युताम् ।
काकेन वालिशेनेमामतार्षमहमापगाम् ॥
स्थाण्वश्मकण्टकवर्तीं सिंह व्याघ्रसमाकुलाम् । दुरासदां दुष्प्रसहां गुहां हैमवतीमिव ।
अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते ।
राजदुर्गावतरणे नोपायं पण्डिता विदुः ॥
गहनं भवतो राज्यमन्धकारं तमोन्वितम् ।
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया ॥
अतो नायं शुभो वासस्तुल्ये सदसती इह ।
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥
न्यायतो दुष्कृते घातः सुकृते न कथनम् ।
नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद्वुधः ॥
सीता नाम नदी राजन्प्लवो यस्यां निमज्जति ।
तयोपमामिमां मन्ये वागुरां सर्वधातिनीम् ॥
मधुप्रपातो हि भवान्भोजनं विषसंयुतम् ।
असतामिव ते भावो वर्तते न सतामिव ॥
आशीविषैः परिवृतः कूपस्त्वमसि पार्थिव ॥
दुर्गतीर्था बृहत्कूला कावेरी चोरसंयुता । नदी मधुरपानीया यथा राजंस्तथा भवान् ।
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥
यथाऽऽश्रित्य महावृक्षं कक्षः संवर्धते महान् ।
ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥
तेनैवोग्रेन्धनेनैनं दावो दहति दारुणः ।
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥
त्वया चैव कृता राजन्भवता परिपालिताः ।
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ॥
उषितं शङ्कमानेन प्रमादं परिरक्षता । अन्तः सर्प इवागारे वीरपत्न्या इवालये ।
शीलं जिज्ञासमानेन राज्ञः साहसजीविनः ॥
कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः ।
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥
विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम ।
तस्य मे रोचते राजन्क्षुधितस्येव भोजनम् ॥
अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् । भवतोऽर्थकृदित्येवं मयि ते दोषमादधन् ।
विद्यते कारणं नान्यदिति मे नात्र संशयः ॥
न हि तेषामहं द्रोग्धा तत्तेषां द्रोहवद्गतम् ।
अरेर्हि दुर्हृदाद्भेयं भग्नपृष्ठादिवोरगात् ॥
राजोवाच ।
भूयसा परिहारेण सत्कारेण च भूयसा ।
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥
ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे ।
भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम् ॥
यथा स्यात्सुधृतो दण्डो यथा च सुकृतं कृतम् ।
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥
मुनिरुवाच ।
अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु । ततः कारणमाज्ञाय पुरुषंपुरुषं जहि ।
एकदोषा हि बहवो मृद्गीयुरपि कण्टकान् ॥
`अर्थे सर्वं जगद्वद्धमर्थेनैव निबध्यते ।
अर्थे दर्पो मनुष्याणां तस्मादर्थं विरोचय ॥
एकेनैकस्य दोषेण तद्विरुद्धं प्रचोदय ।
स तस्य दोषानुद्भाव्य तस्यार्थं ग्राहयिष्यति ॥
सामपूर्वं च केषांचिद्भेदेन च परस्परम् ।
वैरं कारय भूपाल पश्चाद्दण्डं प्रचोदय ॥
बिल्वेन च यथा बिल्वमाकारं छाद्य बुद्धिमान् । अशुद्धं सचिवं राजन्नशुद्धेनैव नाशय ॥'
मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥
वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः ।
स्वस्ति चेच्छाम भवतः परेषां च यथाऽऽत्मनः ॥
राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम् । मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः ।
पितुः सखा च भवतः संमतः सत्यसंगरः ॥
व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ।
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया ॥
स्नेहात्त्वां तु ब्रवीम्येतन्मा भूयो विभ्रो दिति ॥
उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया ।
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥
भीष्म उवाच ।
ततो राजकुले नान्दी संजज्ञे भूयसा पुनः ।
पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे ॥
एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने ।
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥
हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम् ।
तथा च कृतवान्राजा यथोक्तं तेन भारत ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

12-82-7 प्रवृत्त्यर्था अमात्यदोषदर्शने राजानं प्रवर्तयितुकामः ॥ 12-82-9 परिपतन्परितो भ्रमन् । राजयुक्तानां राज्ञा तेषु तेषु कार्येषु नियुक्तानाम् । दुष्कृतं स्वामिद्रव्यापहाररूपं वापम् ॥ 12-82-12 राजानमागम्य तत्समक्षमेवामात्यं प्राह । अमुत्रस्थाने त्वया इदं धनचौर्यं कृतमिति ॥ 12-82-13 अनुगम्यतां आलोच्यताम् ॥ 12-82-18,19 ह्रियन्त इति मित्रं त्वां संबुबोधयिपुरागत इति श्लोकद्वयभेकान्वयम् ॥ 12-82-23 ज्ञात्वा पापानपापाभृत्यतस्ते भयानि चेति झ. पाठः ॥ 12-82-29 नाहमस्मीति मत्वा जीवनाशं त्यक्त्वेत्यर्थः ॥ 12-82-35 आदानपराः कोशलोप्तारः । मे मयि । तादृशैरभिसंहितमभिसंधिर्वैरं कृतम् । मदीयकाकहननादिति भावः ॥ 12-82-36 आन्तरैः सूदादिभिः अभिसंधायाऽन्नदौ विषं प्रक्षेप्तव्यमिति स्नेहं कृत्वा । तेषामभीप्सितो भवद्विनाशः सिध्यति चाऽन्यथा न सिध्यति व । आयुःशेषे सतीति भावः ॥ 12-82-37 तेषां त्वद्वैरिणाम् ॥ 12-82-39 इमां राजनीतिनदीम् । नक्रादितुल्यैरधिकारिपुरुषैर्व्याप्ताम् । बालिशेन स्वमृत्युं संपादयता विरुद्धलक्षणया तन्मरणान्मृतोऽस्मीति भावः ॥ 12-82-41 अग्निना दीपेन आप्यं जलरूपम् ॥ 12-82-42 गहनं कपटम् । अन्धकारमिव तमोन्वितं धर्माधर्मदर्शनशून्यम् ॥ 12-82-52 उषितं मयेति शेषः ॥ 12-82-53 जिज्ञासामेवाह कच्चिदिति ॥ 12-82-54 रोचते भवानिति शेषः ॥ 12-82-56 भेयं भेतव्यम् । भग्नपृष्ठात् पृष्ठभङ्गेन कोपितात् ॥ 12-82-60 तेषामकस्मात् युगपच्च वधे दोषमाह एकेति । संहताः कण्टकानपि मृद्रीयुः किमुत मादृशान्मृदूनित्यर्थः ॥ 12-82-68 पितरि त्वदीये संस्थिते मृते ॥ 12-82-69 विभ्रमेत् अनाप्तेष्वाप्तबुद्धिं भवान्माकार्षीत् ॥ 12-82-71 नान्दी मङ्गलपाठः । ततस्तस्मिन्मन्त्रिणि वृते सति ॥ 12-82-72 कौसल्याय कौसल्यार्थे ॥