अध्यायः 084

भीष्मेण युधिष्ठिरंप्रति इन्द्रबृहस्पतिसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ॥
शक्र उवाच ।
किंस्विदेकपढं ब्रह्मन्पुरुषः सम्यगाचरन् ।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥
बृहस्पति उवाच ।
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन् ।
प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥
एतदेकपदं शक्र सर्वलोकसुखावहम् ।
आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ॥
यो हि नाभाषते किंचित्सर्वदा भुकुटीमुखः ।
द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ॥
यस्तु सर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते ।
स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ॥
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम् ।
न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ॥
आददन्नपि भूतानां मधुरामीरयन्गिरम् ।
सर्वलोकमिमं शक्र सान्त्वेव कुरुते वशे ॥
तस्मात्सान्त्वं प्रयोक्तव्यं दण्डमाधित्सताऽपि हि ।
प्रीतिं च जनयत्येवं न चास्योद्विजते जनः ॥
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।
सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ॥
भीष्म उवाच ।
इत्युक्तः कृतवान्सर्वं यथा शक्रः पुरोधसा ।
तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

12-84-1 अत्र मन्त्रमूलभूते प्रजासंग्रहणे विषये ॥ 12-84-2 एकपदं यत्र सर्वे गुणाः अन्तर्भवन्ति तदेव कर्तव्यं वस्तु । प्रमाणं संमतम् ॥ 12-84-3 सान्त्वं निष्कपटं प्रियवचनम् ॥ 12-84-5 नाभाषते तूष्णीमास्ते । नाचरन् अनाचरन् ॥