अध्यायः 101

भीष्मेण युधिष्ठिरंप्रति योधलक्षणादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
किंशीलाः किंसमुत्थानाः कथंरूपाश्च भारत ।
किंसन्नाहाः कथंशस्त्रा जनाः स्युः संयुगे नृपाः ॥
भीष्म उवाच ।
यथाचरितमेवात्र शस्त्रं पत्रं विधीयते ।
आचाराद्धीह पुरुषस्तथा कर्मसु वर्तते ॥
गान्धाराः सिन्धुसौवीरा नखरप्रासयोधिनः ।
अभीरवः सुबलिनस्तद्वलं सर्वपारगम् ॥
सर्वशस्त्रेषु कुशलाः सत्ववन्तो ह्युशीनराः ।
प्राच्या मातङ्गयुद्धेषु कुशलाः कूटयोधिनः ॥
तथा यवनकाम्भोजा मधुरामभितश्च ये । एतेऽश्वयुद्धकुशला दाक्षिणात्याऽसिचर्मिणः ।
सर्वत्र शूरा जायन्ते महासत्वा महाबलाः ॥
आवन्तिका महाशूराश्चतुरङ्गे च मालवाः ।
एकोऽपि हि सहस्रस्य तिष्ठत्यभिमुखो रणे ॥
प्रायो देशाः समुद्दिष्टा लक्षणानि तु मे शृणु ॥
सिंहशार्दूलवाङ्गेत्राः सिंहशार्दूलगामिनः । पारावतकुलिङ्गाक्षाः सर्वे शूराः प्रमाथिनः ।
मृगस्वरा द्वीपिनेत्रा ऋषभाक्षास्तथा परे ।
प्रमाथिनश्च मन्द्राश्च क्रोधनाः किङ्किणीस्वनाः ॥
मेघस्वनाः क्रूरमुखाः केचिच्च कलनिस्वनाः ।
जिह्मनासाग्रजिह्वाश्च दूरगा दूरपातिनः ॥
बिडालकुब्जाः स्तब्धाक्षास्तनुकेशास्तनुत्वचः ।
शीघ्राश्चपलचित्ताश्च ते भवन्ति दुरासदाः ॥
गौरा निमीलिताः केचिन्मृदुप्रकृतयस्तथा ।
तुरङ्गगतिनिर्घोषास्ते नराः पारयिष्णवः ॥
सुसंहताः प्रतनवो व्यूढोरस्काः सुसंस्थिताः ।
प्रवादितेषु कुप्यन्ति हृष्यन्ति कलद्देषु च ॥
गम्भीराक्षा निसृष्टाक्षाः पिङ्गाक्षा भ्रुकुटीमुखाः ।
नकुलाक्षास्तथा चैव सर्वे शूरास्तनुत्यजः ॥
जिह्नाक्षाः प्रललाटाश्च निर्मांसहनवोऽव्यथाः ।
वक्रबाह्वङ्गुलीसक्थाः कृशा धमनिसंतताः ॥
प्रविशन्ति च वेगेन सांपराये ह्युपस्थिते ।
वारणा इव संमत्तास्ते भवन्ति दुरासदाः ॥
दीप्तस्फुटितकेशान्ताः स्थूलपार्श्वहनूमुखाः ।
उन्नतांसाः पृथुग्रीवा विकटाः स्थूलपिण्डिकाः ॥
उद्बन्धा इव सुग्रीवा विनताविहगा इव ।
पिण्डशीर्षातिवक्राश्च पृषदंशमुखास्तथा ॥
अग्रस्वरा मन्युमन्तो युद्धेष्वारावसारिणः ।
अधर्मज्ञाऽवलिप्ताश्च घोरा रौद्रप्रदर्शनाः ॥
त्यक्तात्मानः सर्व एते उदग्रा ह्यनिवर्तिनः ।
पुरस्कार्याः सदा सैन्ये हन्यन्ते घ्नन्ति चापि ते ॥
अधार्मिका भिन्नवृत्ताः सान्त्वेनैषां पराभवः ।
एवमेव प्रदूष्यन्ते राज्ञोऽप्येते ह्यभीक्ष्णशः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥

12-101-2 आचरितं कुलदेशाचारागतम् । पत्रं वाहनम् ॥ 12-101-5 दाक्षिणात्या असिचर्मिण इति च्छेदः ॥ 12-101-8 कुलिङ्गाक्षाः कुलिङ्गः सर्पः ॥ 12-101-10 जिह्मनाः सानुजङ्घाश्चेति थ. पाठः ॥ 12-101-15 प्रललाटाः उन्नतकपालाः ॥ 12-101-17 दीप्तः पिङ्गलः । पिण्डिकाः जानुनोरधः पश्चाद्भागाः ॥ 12-101-18 सुग्रीवा वासुदेवाश्वाः । विनताविहगाः गण्डाः । पिण़्डशीर्षाः वृत्तशिरसः । अतिवक्राः विस्तीर्णमुखाः । संधिरार्षः समासो वा ॥ 12-101-21 एवमेव प्रकुष्यन्ति इति झ. पाठः ॥