अध्यायः 110
भीष्मेण युधिष्ठिरंप्रति दुर्गातितरणोपायकथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
क्लिश्यमानेषु भूतेषु तैस्तैर्भावैः पृथक्पृथक् ।
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः ।
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥
ये दम्भान्नाचरन्ति स्म येषां वृत्तिश्च संयता ।
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते ॥
प्रत्याहुर्नोच्यमाना ये न हिंसन्ति च हिंसिताः ।
प्रयच्छन्ति न याचन्ते दुर्गाण्यतितरन्ति ते ॥
वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः ।
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥
मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ।
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते ॥
ये वा पापं न कुर्वन्ति कर्मणा मनसा गिरा ।
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते ॥
ये न लोभान्नयन्त्यर्थान्राजानो रजसाऽन्विताः ।
विषयान्परिरक्षन्ति दुर्गाण्यतितरन्ति ते ॥
स्वेषु दारेषु वर्तन्ते न्यायलब्धेष्वृतावृतौ ।
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते ॥
आहवेषु च ये शूरास्त्यक्त्वा मृत्युकृतं भयम् ।
धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ॥
ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते ।
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते ॥
कर्माण्यकुत्सनार्थानि येषां वाचश्च सूनृताः ।
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते ।
अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते ।
तपोनिष्ठाः सुतपसो दुर्गाण्यतितरन्ति ते ॥
ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ।
विद्या वेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥
ये च संशान्तरजसः संशान्ततमसश्च ये ।
सत्वे स्थिता महाभागा दुर्गाण्यतितरन्ति ते ॥
येषां न कश्चित्रसति न त्रसन्ति हि कस्यचित् ।
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते ॥
परश्रिया न तप्यन्ति ये सन्तः पुरुषर्षभाः ।
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते ॥
सर्वान्देवान्नमस्यन्ति सर्वधर्मांश्च शृण्वते ।
ये श्रद्दधानाः शान्ताश्च दुर्गाण्यतितरन्ति ते ॥
ये न मानित्वमिच्छन्ति मानयन्ति च ये परान् ।
मान्यमानान्नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥
ये च श्राद्धानि कुर्वन्ति तिथ्यांतिथ्यां प्रजार्थिनः ।
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते ॥
ये क्रोधं संनियच्छन्ति क्रुद्धान्संशमयन्ति च ।
न च रुष्यन्ति भृत्यानां दुर्गाण्यतितरन्ति ते ॥
मधु मांसं स्त्रियो नित्यं वर्जयन्तीह मानवाः ।
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते ॥
यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम् ।
वाक् सत्यवचनार्थं च दुर्गाण्यतितरन्ति ते ॥
ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम् ।
भक्ता नारायणं देवं दुर्गाण्यतितरन्ति ते ॥
य एष पझरक्ताक्षः पीतवासा महाभुजः ।
सुहृद्धाता च मित्रं च संबन्धी च तवाच्युत ॥
य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत् ।
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः ॥
स्थितः प्रियहिते नित्यं स एष पुरुषोत्तमः ।
राजंस्तव यदुश्रेष्ठो वैकुण्ठः पुरुषर्षभः ॥
य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् ।
ते तरन्तीह दुर्गाणि न चात्रास्ति विचारणा ॥
` अस्मिन्नर्पितकर्माणः सर्वभावेन भारत ।
कृष्णे कमलपत्राक्षे दुर्गाण्यतितरन्ति ते ।
लोकरक्षार्थमुत्पन्नमदित्यां कश्यपात्मजम् ।
देवमिन्द्रं नमस्यन्ति दुर्गाण्यतितरन्ति ते ॥
ब्रह्माणं लोककर्तारं ये नमस्यन्ति सत्पतिम् ।
यष्टव्यं क्रतुभिर्देवं दुर्गाण्यतितरन्ति ते ॥
यं विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः ।
स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् ।
समर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते ॥'
दुर्गातितरणं ये च पठन्ति श्रावयन्ति च ।
कथयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते ॥
इति कृत्यसमुद्देशः कीर्तितस्ते मयाऽनघ ।
तरते येन दुर्गाणि परत्रेह च मानवः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥
12-110-1 भूतेषु --- । दुर्गाणि दुस्तराणि ॥ 12-110-3 विषयान्विषयार्थानि --॥ 12-110-4 उच्यमानाः निन्द्यमानाः ॥ 12-110-8 रजसान्विताः सन्तोऽर्थान्न नयन्ति न हरस्ति ॥ 12-110-23 यात्रार्थ जीवनार्थम् ॥ 12-110-34 कृत्यसमुद्देशः कर्तव्यलेशः ॥