अध्यायः 113
भीष्मेण युधिष्ठिरंप्रति बलवच्छत्रुवशीकरणे विनयस्योपायतायां दृष्टान्ततया सरित्सागरसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच ।
राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ ।
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सरितां चैव संवादं सागरस्य च भारत ॥
सुरारिनिलयः शश्वत्सागरः सरितां पतिः ।
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ॥
सागर उवाच ।
समूलशाखान्पश्यामि निहतान्क्वापि नो द्रुमान् ।
युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसान् ॥
अ-पकायश्चाल्पसारो वेतसः कूलजश्च यः ।
अज्ञया वा नानीतः किं च वा तेन वः कृतम् ॥
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् ।
यथा चेमानि कूलानि हित्वा नायाति वेतसः ॥
तत्र प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत् ।
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम् ॥
गङ्गोवाच ।
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः ।
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यान्न वेतसः ॥
वेतसो वेगमायान्तं दृष्ट्वा नमति नापरे ।
स च वेगे ह्यतिक्रान्ते स्थानमापद्यते पुनः ॥
कालज्ञः समयज्ञश्च सदावश्यश्च नो द्रुमः ।
अनुलोमवृत्तितस्तब्धस्तेन त्वां नैति वेतसः ॥
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥
भीष्म उवाच ।
यो हि शत्रोर्विवृद्धस्य प्रभोर्बन्धविनाशने ।
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति ॥
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।
जानन्विचरति प्राज्ञो न स याति पराभवम् ॥
एवमेव यदा विद्वान्मन्यते विपुलं बलम् ।
संश्रयेद्वैतसीं वृत्तिमेतत्प्रज्ञानलक्षणम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥
12-113-4 निहतानुन्मूलितान् । कायिन इति पाठे महाशरीरान् । अन्यानल्पशरीरान्वेतसान् न हतान्पश्यामि ॥ 12-113-5 अवज्ञाय न शक्यो वा इति द. पाठः ॥ 12-113-8 एकनिकेतनाः स्तब्धा इत्यर्थः । प्रातिलोम्यादस्माकं प्रातिकूल्यात् ॥ 12-113-14 वैतसीं वृत्तिमस्तब्धत्वम् ॥