अध्यायः 114
भीष्मेण युधिष्ठिरंप्रति सभायां दुष्टदुर्भाषणे तत्तितिक्षाया
गुणत्वप्रतिपादनम् ॥ 1 ॥
विद्वान्मूढप्रगल्भेन मृदुस्तीक्ष्णेन भारत ।
आक्रुश्यमानः सदसि कथं कुर्यादरिंदम् ॥
भीष्म उवाच ।
श्रूयतां पृथिवीपाल यथैऽषोर्थोऽवगम्यते ।
सदा सचेताः सहते नरस्येहाल्पचेतसः ॥
आक्रुश्य दूष्यमाणश्च सुकृतं तस्य विन्दति ।
दुष्कृतं चात्मनो मर्षी तस्मिन्नेव प्रमार्जति ॥
गर्हितं तमुपेक्षेत वाश्यमानमिवातुरम् ।
लोके विद्वेषमापन्नो निष्फलं प्रतिपद्यते ॥
इति संश्लाघते नित्यं तेन पापेन कर्मणा ।
इदमुक्तो मया कश्चित्सर्वतो जनसंसदि ।
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठते ॥
श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः ।
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः ॥
यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्तदा ॥
प्रकृत्या हि प्रशंसन्वा निन्दन्वा किं करिष्यति ।
वने काक इवाबुद्धिर्वाश्यमानो निरर्थकम् ॥
यदि वाग्भिः प्रयोगः स्यात्प्रयोज्यः पापकर्मणा ।
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः ॥
निषेकं वै परस्यासावाचष्टे वृत्तचेष्टया ।
मयूर इव कौपीनं नृत्यं संदर्शयन्निव ॥
यस्यावाच्यं न लोकेऽस्मिन्नाकार्यं चापि किंचन ।
वाचं तेन न संदध्याच्छुचिः संश्लिष्टकर्मणा ॥
प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः ।
स मानवः श्ववल्लोके नष्टलोकपरायणः ॥
तादृग्दिनशतं चापि यद्ददाति जुहोति च ।
परोक्षेणापवादेन तं नाशयति तत्क्षणात् ॥
तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम् ।
वर्जयेन्मतिमान्वर्ज्यं सारमेयामिषं यथा ॥
परिवादं ब्रुवाणो हि दुरात्मा वै महाजने ।
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोन्नतम् ॥
तं स्वकर्मणि कुर्वाणं प्रतिकर्तुं य इच्छति ।
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति ॥
मनुष्यसालावृकमप्रशान्तं
जनापवादे सततं निविष्टम् ।
मातङ्गमुन्मत्तमिवोन्नदन्तं
त्यजेत तं श्वानमिवातिरौद्रम् ॥
अनार्यजुष्टे पथि वर्तमानं
दमादपेतं विनयाच्च पापम् ।
अरिव्रतं नित्यमभूतिकामं
धिगस्तु तं पापमतिं मनुष्यम् ॥
प्रत्युच्यमानस्त्वथ भूय एव
निशाम्य माभूस्त्वमथार्तरूपः ।
उच्चस्य नीचेन हि संप्रयोगं
विगर्हयन्ति स्थिरबुद्धयो ये ॥
क्रुद्धो दशेद्वाऽपि च ताडयेद्वा
स पांसुभिर्वा विकिरेत्तुषैर्वा ।
विवृत्य दन्तांश्च विभीषयेद्वा
सिद्धं हि मूढे कुपिते नृशंसे ॥
विगर्हणां नाऽपि दुरात्मना कृतां
सहेत यः संसदि दुर्जनानाम् ।
पठेदिदं चापि निदर्शनं सदा
न वाङ्भयं स लभति किंचिदप्रियम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥
12-114-1 मूढश्चासौ प्रगल्भश्च तेन ॥ 12-114-2 सहते
दुरुक्तम् ॥ 12-114-3 मर्षी तितिक्षुः ॥ 12-114-4 वाश्यमानं रटन्तम् ॥ 12-114-9
यथा वाचा हतो न हन्यते एवं वाचा दूषितो न दुष्यतीत्यर्थः ॥ 12-114-10 स एवं
वदन्वृत्तेन क्रियया चेष्टया वागादिव्यापारेण च लिङ्गेन निषेकं स्वमातरि रेतः
सेकं परस्य परेण पितुरन्येन कृतमित्याचष्टे व्यक्तं कथयति । कौपीनं गुह्यप्रदेशं
संदर्शयन्निव नृत्यं कुर्वन्मयूरो यथा श्लाघते सम्यङ््नृत्यामीति मन्यते नतु मम
गुह्यं लोकाः पश्यन्तीति त्रपते एवं स्वलोपि मया स महानमुकसभायां दुरुक्तमुक्त
इति श्लाघते नत्वनेन मम मातुर्दोषः स्पष्टीक्रियते मयैवेति न त्रपते इत्यर्थः ॥ 12-114-11 मयूर इव कालीनं इति थ. द. पाठः । संश्लिष्टजन्मना इति ट.थ. द. पाठः ॥ 12-114-13 तादृक्पुमान् ॥ 12-114-14 सारमेयामिषं शुनोमांसम् ॥ 12-114-15 दोषान्
जारजत्वादीन् ॥ 12-114-16 भस्मकूटे भस्मराशौ स्वर इवाबुद्धिः रजसि दुःखे
निमज्जति ॥ 12-114-17 सालावृकं श्वानमेव मनुष्यत्वेन लोके गृहीतमित्यर्थः ॥ 12-114-20 कुद्धो दशार्धेन हि ताडयेद्वा इति झ. पाठः । तत्र दशार्धेन
संवृताङ्गुलिपञ्चकेन पाणिनेत्यर्थः । इदं सर्वं कुपितमूढे सिद्धमेव ॥