अध्यायः 115

भीष्मेण युधिष्ठिरंप्रति राज्ञां सहायसंपादनस्यावश्यकतादिप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ संशयो मे महानयम् ।
संछेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः ॥
पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् ।
कथितो वाक्यसंचारस्ततो विज्ञापयामि ते ॥
यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् ।
अयत्यां च तदात्वे च क्षेमवृद्धिकरं च तत् ॥
पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् ।
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे ॥
अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत ।
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः ॥
यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः ।
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः ॥
तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः ।
न च भृत्यबलैरर्थैः स राजा संप्रयुज्यते ॥
एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम् ।
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति ॥
शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः ।
क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा ॥
त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् ।
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम् ॥
कीदृशाः सन्निकर्षस्था भृत्याः सर्वगुणान्विताः ।
कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते ॥
न ह्येको भृत्यरहितो राजा भवति रक्षिता ।
राज्यं चेदं जनः सर्वस्तत्कुलीनः प्रशासति ॥
भीष्म उवाच ।
न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत ॥
असहायवता तात नैवार्थाः केचिदप्युत ।
लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ ॥
यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः ।
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते ॥
मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः ।
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः ॥
अनागतविधातारः कालज्ञानविशारदाः ।
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते ॥
समदुःखसुखा यस्य सहायाः प्रियकारिणः ।
अर्थचिन्तापराः सभ्याः स राज्यफलमश्नुते ॥
यस्य नार्तो जनपदः सन्निकर्षगतः सदा ।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत् ॥
कोशोऽक्षपटलं यस्य कोशवृद्धिकरैर्नरैः ।
आप्तैस्तुष्टैश्च पृष्टैश्च धार्यते स नृपोत्तमः ॥
कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः ।
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत् ॥
व्यवहारश्च नगरे यस्य धर्मफलोदयः ।
दृश्यते शङ्खलिखितः स धर्मफलभाङ् नृपः ॥
संगृहीतमनुष्यश्च यो राजा राजधर्मवित् ।
षङ््भागं परिगृह्णाति स धर्मफलमश्नुते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥

12-115-2 अयं निन्दारूपः ॥ 12-115-3 हिनं अनिन्द्यम् । आयत्यां उत्तरकाले । तदात्वे वर्तमानाकले ॥ 12-115-5 मित्रसुहृदौ प्रत्युपकारमपेक्ष्यानपेक्ष्य चोपकर्तारौ तद्वान् । समुपेतः शौर्यादिनेति शेषः ॥ 12-115-7 भृत्यबलप्राप्यैरर्थैर्धनादिभिः ॥ 12-115-14 लब्धुं लब्धाश्च रक्षितुं शक्या इतिं शेषः ॥ 12-115-16 असंहार्याः उत्कोचादिना अभेद्याः ॥ 12-115-21 कोष्ठागारं धान्यादिसामग्रीगृहम् । गुणीभवेत् बहुगुणिभावं गच्छेत् ॥ 12-115-22 व्यवहारः अर्थिप्रत्यर्थिनोर्विवादे निर्णयः । शङ्खलिखित इति । यथा फलमात्रस्तेने शङ्खेन लिखितस्य हस्तच्छेदो राजानं प्रतिषेधयित्वा कारितस्तद्वदित्यर्थः ॥