अध्यायः 116
केनचिन्मुनिवरेण द्वीपिभये सति द्वीपित्वं प्रापितस्य
स्वीयशुनःपुनर्व्याघ्नाङ्भये सति व्याघ्रीकरणम् ॥ 1 ॥
न सन्ति कुलजा यत्र सहायाः पार्थिवस्य तु ।
अकुलीनाश्च कर्तव्या न वा भरतसत्तम् ॥'
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निदर्शनं परं लोके सज्जनाचरितं सदा ॥
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने ।
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ॥
वने महति कस्मिंश्चिदमनुष्यनिषेविते ।
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ॥
दीक्षादमपरिश्रान्तः स्वाध्यायपरमः शुचिः ।
उपवासविशुद्धात्मा सततं सत्पथे स्थितः ॥
तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः ।
सर्वे सत्वाः समीपस्था भवन्ति वनचारिणः ॥
सिंहा व्याघ्राः सशरभा मत्ताश्चैव महागजाः ।
द्वीपिनः खङ्गभल्लूका ये चान्ये भीमदर्शनाः ॥
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः ।
तस्यर्षेः शिष्यवच्चैव चित्तज्ञाः प्रियकारिणः ॥
उक्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथासुखम् ।
ग्राम्यस्त्वेकः पशुस्तत्र नाजहात्स महामुनिम् ॥
भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः ।
फलमूलोत्तराहारः शान्तः शिष्टाकृतिर्यथा ॥
तस्यर्षेरुपविष्टस्य पादमूले महामतेः ।
मनुष्यवद्गतो भावं स्नेहबद्धोऽभवद्भृशम् ॥
ततोऽभ्ययान्महारौद्रो द्वीपी क्षतजभोजनः ।
श्वार्थमत्यर्थमुद्धुष्टः क्रूरः कालइवान्तकः ॥
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः ।
व्यादितास्यः क्षुधाः भुग्नः प्रार्थयानस्तदामिषम् ॥
दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप ।
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशांपते ॥
श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति ।
त्वत्प्रसादाद्भयं न स्यादस्मान्मम महामुने ।
[तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः ॥
स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम् ।
रुतज्ञः सर्वसत्वानां तमैश्वर्यसमन्वितः ॥]
मुनिरुवाच ।
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन ।
एष श्वरूपरहितो द्वीपी भवसि पुत्रक ॥
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृति ।
चित्राङ्गो विस्फुरद्दंष्ट्रो वने वसति निर्भयः ॥
तं दृष्ट्वा संमुखे द्वीपी आत्मनः सदृशं पशुम् ।
अविरुद्धस्ततस्तस्य क्षणेन समपद्यत ॥
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्विः ।
द्वीपिनं लेलिहन्वक्रं व्याघ्रो रुधिरलालसः ॥
व्याघ्रं दृष्ट्वा क्षुधा भुग्नं दंष्ट्रिणं वनचारिणम् ।
द्वीपि जीवितरक्षार्थमृषिं शरणमेयिवान् ॥
ततः संवासजं स्नेहमृषिणा कुर्वता तदा ।
स द्वीपी व्याघ्रतां नीतो रिपुभ्यो बलवत्तरः ॥
ततोऽदृष्ट्वा स शार्दूलो नाभ्यघ्नत्तं विशांपते ।
स तु श्चा व्याघ्रतां प्राप्य बलवान्पिशिताशनः ॥
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा ।
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः ।
तथैव स महाराज व्याघ्रः समभवत्तदा ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥
12-116-2 अत्र उत्तमाधममध्यमस्थानेषु क्रमात् तएव योज्या नतु
उच्चस्थाने नीचो नियोज्य इत्यस्मित्रर्थे ॥ 12-116-3 अस्यैव वक्ष्यमाणस्य ॥ 12-116-6 सत्वाः प्राणिनः ॥ 12-116-8 सुखप्रश्नदाः सुखिनः स्थ इति
प्रश्नस्योत्तरं सुखिनः स्मः इति तत्प्रदा इत्यर्थः ॥ 12-116-11 भावं चित्तम् ॥ 12-116-13 सुधामत्तः इति ड.थ. पाठः ॥ 12-116-17 द्वीपिनो
द्वीपिरूपान्मृत्युतः ॥ 12-116-21 क्षुधाभुग्नं पीडितम् ॥