अध्यायः 121

भीष्मेण युधिष्ठिरंप्रति दण्डस्वरूपादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
अयं पितामहेनोक्तो राजधर्मः सनातनः ।
कीदृशश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ॥
देवतानामृषीणां च पितॄणां च महात्मनाम् ।
यक्षरक्षः पिशाचानां मर्त्यानां च विशेषतः ॥
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् ।
सर्वस्यापि महातेजा दण्डः श्रेयानिति प्रभो ॥
इत्येतदुक्तं भवता दण्डे वै सचराचरम् । पश्यतां लोक आयत्तं ससुरासुरमानुषम् ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥
को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः ।
किमात्मकः कथंभूतः कतिमूर्तिः कथं प्रभुः ॥
जागर्ति च कथं दण्डः प्रजासु विहितात्मकः ।
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन् ॥
कश्च विज्ञायते पूर्वः को वरो दण्डसंज्ञितः ।
किंसंस्थश्चाभवद्दण्डः का चास्य गतिरिष्यते ॥
भीष्म उवाच ।
शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः ।
यस्मिन्हि सर्वमायत्तं स धर्म इति केवलः ॥
धर्मस्यार्थे महाराज व्यवहार इतीष्यते ।
तस्य लोपः कथं न स्याल्लोकेष्विह महात्मनः ॥
इत्यर्थं व्यवाहरस्य व्यवहारत्वमिष्यते ।
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः ॥
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ।
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥
यथोक्तमेतद्वचनं प्रागेव मनुना पुरा ।
यन्मयोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ॥
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः ।
व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ॥
दण्डान्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते ।
दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः ॥
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ।
अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ॥
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः ।
एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरासदः ॥
असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः ।
मुसलं परशुश्चक्रं प्रासदण्डर्ष्टितोमराः ॥
सर्वप्रहरणीयानि यानि यानीह कानिचित् ।
दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान् ॥
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा ।
घातयन्नभिधावंश्च दण्ड एव चरत्युत ॥
असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुरासदः ।
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ॥
शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्रवचनं परम् ।
धर्मपालोऽक्षरो गोपः सत्यगो नित्यगो गृहः ॥
असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवंकरः ।
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ॥
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः ।
शश्वद्रुपं महद्बिभ्रन्महात्पुरुष उच्यते ॥
तथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती ।
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ॥
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले ।
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः ।
अप्रमादः प्रमादश्च हर्षशोकौ शमो दमः ॥
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये ।
हिंसाहिंसे तपो यज्ञः संयमोऽथ विषामृते ॥
अन्तश्चादिश्च मध्यं च कृतानां च प्रपञ्चनम् ।
मदः प्रमोदो दर्पश्च दम्भो धैर्यं नयानयौ ॥
अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ ।
विनयश्च विसर्गश्च कालाकालौ च कौरव ॥
अनृतं चाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च ।
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ॥
तीक्ष्णता मृदुतात्युग्रमागमानागमौ तथा ।
विरोधश्चाविरोधश्च कार्याकार्ये बलाबले ॥
असूया चानसूया च धर्माधर्मौ तथैव च ।
अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह ॥
तेजः कर्माणि पाण्डित्यं वाक्शक्तिर्बुद्धितत्वता ।
एवं दण्डस्य लोकेऽस्मिञ्जागर्ति बहुरूपता ॥
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् ।
भयाद्दण्डस्य नान्योन्यं घ्नन्ति चैव युधिष्ठिर ॥
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः ।
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ॥
व्यवस्थापयते नित्यमिमं लोकं नरेश्वर ।
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ॥
धर्मयुक्ता द्विजश्रेष्ठा देवयुक्ता भवन्ति च ।
बभूव यज्ञो देवेभ्यो यज्ञः प्रीणाति देवताः ॥
प्रीताश्च देवता लोकमिन्द्रे प्रतिददत्युत ।
अत्रं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ॥
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः ।
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ॥
एवंप्नयोजनश्चैव दण्डः क्षत्रियतां गतः ।
रक्षप्रजाः स जागर्ति नित्यं स्ववहितोक्षरः ॥
ईश्वरः पुरुषः प्राणः सत्वं वृत्तं प्रजापतिः ।
भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः ॥
अददद्दण्डमेवास्मै धृतमैश्वर्यमेव च ।
बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ॥
कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु ।
आहार्यमष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ॥
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च ।
देशिकाश्चादिकाश्चैव तदष्टाङ्गं बलं स्मृतम् ॥
अथ चाङ्गस्य युक्तस्य रथिनो हस्तियायिनः ।
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ॥
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः ।
कोशो मित्राणि धान्यं च सर्वोपकरणानि च ॥
सप्तप्रकृति चाष्टाङ्गं शरीरमिह तं विदुः ।
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च ॥
ईश्वरेण प्रसन्नेन कारणात्क्षत्रियस्य च ।
दण्डो दत्तः सदा गोप्ता दण्डो हीदं सनातनम् ॥
राजा पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः ।
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च ॥
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाविधः ।
तस्याद्य सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते ।
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथाऽपरः ॥
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः ।
ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव च ॥
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः ।
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः ।
धर्मप्रत्यय उद्दिष्टो यश्च धर्मः कृतात्मभिः ॥
व्यवहारः प्रजागोप्ता ब्रह्मदृष्टो युधिष्ठिर ।
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ॥
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः ।
व्यवहारश्च दृष्टो यः स वेद इति नः श्रुतिः ॥
यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ।
ब्रह्मा पितामहः पूर्वं भगवांश्च प्रजापतिः ॥
लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ।
स मनुष्योरगवतां कर्ता चैव स भूतकृत् ॥
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः ।
तस्मादिदमवोचाम व्यवहारनिदर्शनम् ॥
माता पिता च भ्राता च भार्या चैव पुरोहितः ।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥

12-121-11 प्रजारक्षकत्वाद्व्यवहार एव धर्मपदवाच्योऽपीत्याह सुप्रणीतेनेति ॥ 12-121-12 ब्रह्मणएव वचनं मनुमुखाच्छ्रुतमित्यर्थः ॥ 12-121-13 दण्डएव उक्तवचनाद्धर्मशब्देन व्यवहारशब्देन चोच्यत इत्यर्थः । प्राग्वचनं धर्मवचनम् ॥ 12-121-16 एवं व्यवहाररूपिणो दण्डस्य रूपमुक्त्वा धर्माख्यदण्डरूपमाह । ताम्रास्यो मृगराजतनुच्छद इति । ताम्रो वह्निरेवाहनवनीयादिरास्यं यस्य स तथा । मृगराजः कृष्णमृगस्तत्संबन्धिचर्म तनुच्छदः शरीराच्छादकं प्रावरणमस्य । एतेन दीक्षाप्रधानो यज्ञ उक्तः । एतच्च सर्वेषां दानोपवासहोमादीनामुपलक्षणम् ॥ 12-121-23 मुख्यं दण्डस्य रूपमाह दण्डो हीति ॥ 12-121-24 तत्पत्न्या रूपमाह तथेति । दण्डेन सहिता नीतिर्दण्डनीतिः ॥ 12-121-25 किंपरायणमित्यस्योत्तरं अर्थानर्थावित्यादि ॥ 12-121-36 किमात्मकः कथंभूतः कथंमूर्तिरितिप्रश्नत्रयस्योत्तरमाह व्यवस्थापयतइति । लोकपालनात्मकः सत्यपक्षपाती ब्राह्मणमूर्तिस्वरूप इत्यर्थः ॥ 12-121-37 दण्डस्य ब्राह्मणभूर्तित्वं विवृण्वन् कथं जागर्ति इत्यस्योत्तरमाह धर्मयुक्ता इत्यादिना । ब्राह्मणमूर्तिर्दण्डो यज्ञादिद्वारान्नसृष्टिहेतुतया भूतानि पालयन् जागर्तीति श्लोकत्रयार्थः ॥ 12-121-42 अदददीश्वर इति शेषः । अस्मै राज्ञे । दण्डं दण्डनीतिम् । अतएवायं बलेन संयुक्तः पञ्चविध आत्मा यस्य स तथा । धर्मव्यवहारदण्डेश्वरजीवरूपेण पञ्चप्रकारात्मको राजा । बलं नथैश्च संयुक्तं सदा पञ्चविधात्मकमिति थ. द. पाठः ॥ 12-121-43 बहुधनसहिता अमात्या बहुधनामात्याः । बलानि तु तेजओजः सह आख्यानि देहेन्द्रियबुद्धिसमार्थ्यानि । अष्टकैरष्टसंख्याकैरनन्तरश्लोके वक्ष्यमाणैर्हस्त्यादिभिराहार्यमार्जनीयम् । अन्यद्वलं कोशवृद्धिरूपम् ॥ 12-121-45 अङ्गस्य सैन्यस्य युक्तस्य सन्नद्धस्य रथादिकं शरीरं विदुरिति तृतीयेनान्वयः । रसदाः वैद्याः । 12-121-46 प्राड्विवाकाः विवदमानयोर्द्वयोः प्रवृत्तिनिमित्तवेत्तारः ॥ 12-121-47 दण्डं सैन्यम् । दण्डः प्रसिद्धः ॥ 12-121-48 दण्डो दण्डादीनम् ॥ 12-121-50 भर्तृप्रत्ययः भर्तारौ द्वौ विवदमानौ प्रत्ययः कारणं यस्य स तथा वादिप्रतिवादिभ्यां प्रवर्तितो व्यवहारः । तयोरन्यतरस्य प्रत्ययोऽभ्युपगमो लक्षणं यस्य स भर्तृप्रत्ययलक्षणः । अन्यतरपराजयादित्यर्थः । सहितो हितमिष्टं तेन युक्तः सहितः । अन्यतरजयावह इत्यर्थः ॥ 12-121-51 वेदात्मा वेदोक्तो दोषः पारदार्यादिस्तन्निवृत्त्यर्थं परिषदं प्रतिगतश्चेत्तत्र प्रायश्चित्तात्मको वेदहेतुक एव दण्डः । मौलः कुलाचारप्रयुक्तो यो व्यवहारस्तत्रापि शास्त्रोक्तो दण्डः । तथाच शास्त्रविदामनुक्रमणं धर्मज्ञानां समयः प्रमाणं वेदाश्चेति ॥ 12-121-52 तेषां त्रयाणां दण्डानां मध्ये आद्यः क्षत्रियाधीन इत्याह । उक्त इति । नः अस्माभिः क्षत्रियैर्दण्डोऽपि ज्ञेयः तत्र प्रत्ययोऽपि ज्ञेयः ॥ 12-121-53 अस्यापि वेदमूलत्वमाह दण्ड इति । विविधोऽवहारः अन्योन्यं परपक्षक्षेपेण स्वपक्षसाधनं व्यवहारस्तदात्मको न्यायः स यद्यपि दण्डः प्रत्ययदृष्टस्तथापि स व्यवहारपदार्थो मन्वादिभिः स्मृतोऽस्ति । अतः सोऽपि वैदिकप्रणीतत्वाद्वेदविषयात्मको वेदार्थगोचरोऽस्तीत्यर्थः ॥ 12-121-54 उद्दिष्टो मम पारदार्यजेनाधर्मेण धर्मलोपो माभूदिति पश्चात्तापवत्युद्दिष्टः प्रायश्चित्तरूपो दण्डो धर्म एवेत्यर्थः ॥ 12-121-60 यो राजा स्वधर्मेण तिष्ठति तस्य राज्ञ इति संबन्धः ॥