अध्यायः 122

भीष्मेण युधिष्ठिरंप्रति वसुहोममान्धातृसंवादानुवादपूर्वकं दण्डोत्पत्त्यादिकथनम् ॥ 1 ॥

भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अङ्गेषु राजा द्युतिमान्वसुहोम इति श्रुतः ॥
स राजा धर्मविन्नित्यं सह पत्न्या महातपाः । मुञ्जपृष्ठं जगामाथ देवर्षिगणसेवितम् ।
तत्र शृङ्गे हिमवतो वसतिं समुपागमत् ।
यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥
तदादि च महाप्राज्ञः ऋषिभिः संशितव्रतैः ।
मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥
स तत्र बहुभिर्युक्तस्तदा श्रुतिमयैर्गुणैः ।
ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥
तं कदाचिददीनात्मा सखा शक्रस्य मानितः ।
अभ्यगच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥
सोपसृत्य तु मान्धाता वसुहोमं नराधिपम् ।
दृष्ट्वा प्रकृष्टतपसं विनयेनोपतिष्ठते ॥
वसुहोमोऽपि राज्ञो वै गामर्ध्यं च न्यवेदयत् ।
सप्ताङ्गस्य तु राज्यस्य पप्रच्छ कुशलाव्ययौ ॥
सद्भिराचरितं पूर्वं यथावदनुयायिनम् ।
अब्रवीद्वसुहोमस्तं राजन्किं करवाणि ते ॥
सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमः ।
वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥
बृहस्पतेर्मतं राजन्नघीतं सकलं त्वया ।
तथैवौशनसं शास्त्रं विज्ञातं ते नरोत्तम ॥
तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् ।
किं वाऽस्य पूर्वं जागर्ति किं वा परममुच्यते ॥
कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः ।
ब्रूहि मे तद्यथातत्वं ददाम्याचार्यवेतनम् ॥
वसुहोम उवाच ।
शृणु राजन्यथा दण्डः संभूतो लोकसंग्रहः ।
प्रजाविनयरक्षार्थं धर्मस्यात्मा सनातनः ॥
ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः ।
ऋत्विजं नात्मनस्तुल्यं ददर्शेति हि नः श्रुतम् ॥
स गर्भं भगवान्देवो बहुवर्षाण्यधारयत् ।
अथ पूर्णे सहस्रे तु स गर्भः क्षुवतोऽपतत् ॥
स क्षुपो नाम संभूतः प्रजापतिररिंदम् ।
ऋत्विगासीन्महाराज यज्ञे तस्य महात्मनः ॥
तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ ।
इष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥
तस्मिन्नन्तर्हिते चापि प्रजानां संकरोऽभवत् ।
नैव कार्यं न वा कार्यं भोज्याभोज्यं न विद्यते ॥
पेयापेये कुतः सिद्धिर्हिसन्ति च परस्परम् ।
गम्यागम्यं तदा नासीत्स्वं परस्वं च वै समम् ॥
परस्परं विलुम्पन्ति सारमेया यथाऽऽमिषम् ।
अबलान्बलिनो जघ्नुर्निर्मर्यादं प्रवर्तते ॥
ततः पितामहो विष्णुं भगवन्तं सनातनम् ।
संपूज्य वरदं देवं महादेवमथाब्रवीत् ॥
अत्र त्वमनुकम्पां वै कर्तुमर्हसि शङ्कर ।
अयं विष्णुः सखा तुभ्यं धर्मस्य परिरक्षणे ॥
`त्वं हि सर्वविधानज्ञः सत्वानां त्वं गतिः परा ।' संकरो न भवेदत्र यथा तद्वै विधीयताम् ॥
ततः स भगवान्ध्यात्वा तदा शूलवरायुधः ।
` देवदेवो महादेवः कारणं जगतः परम् ॥
ब्रह्मविष्ण्विन्द्रसहितः सर्वैश्च ससुरासुरैः । लोकसन्धारणार्थं च लोकसंकरनाशनम् ।'
आत्मानमात्माना दण्डं ससृजे देवसत्तमः ॥
तस्माच्च धर्मचरणान्नीतिं देवीं सरस्वतीम् ।
असृजद्दण्डनीतिं वै त्रिषु लोकेषु विश्रुताम् ॥
`यथाऽसौ नीयते दण्डः सततं पापकारिषु । दण्डस्य नयनात्सा हि दण्डनीतिरिहोच्यते ॥'
भूयः स भगवान्ध्यात्वा चिरं शूलघरः प्रभुः ।
`असृजत्सर्वशास्त्राणि महादेवो महेश्वरः ॥
दण्डनीतेः प्रयोगार्थं प्रमाणानि च सर्वशः ।
विद्याश्चतस्रः कूटस्थास्तासां भेदविकल्पनाः ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव तु ॥
दश चाष्टौ च विख्याता एता धर्मस्य संहिताः ।
एतासामेव विद्यानां व्यासमाह महेश्वरः ॥
शतानि त्रीणि शास्त्राणां महातन्त्राणि सप्ततिम् ।
व्यास एव तु विद्यानां महादेवेन कीर्तितः ॥
तन्त्रं पाशुपतं नाम पञ्चरात्रं च विश्रुतम् ।
योगशास्त्रं च साङ्ख्यं च तन्त्रं लोकायतं तथा ॥
तन्त्रं ब्रह्मतुला नाम तर्कविद्या दिवौकसाम् ।
सुखदुःखार्थजिज्ञासा कारणं चेति विश्रुतम् ॥
तर्कविद्यास्तथा चाष्टौ स चोक्तो न्यायविस्तरः ।
दश चाष्टौ च विज्ञेयाः पौराणा यज्ञसंहिताः ॥
पुराणाश्च प्रणीताश्च तावदेवेह संहिताः ।
धर्मशास्त्राणि तद्वच्च एकार्थानि च नान्यथा ॥
एकार्थानि पुराणानि वेदाश्चैकार्यसंहिताः ।
नानार्थानि च सर्वाणि ततः शास्त्राणि शंकरः ॥
प्रोवाच भगवान्देवः कालज्ञानानि यानि च ।
चतुःषष्टिप्रमाणानि आयुर्वेदं च सोत्तरम् ॥
अष्टादशविकल्पां तां दण्डनीतिं च शाश्वतीम् ।
गान्धर्वमितिहासं च नानाविस्तरमुक्तवान् ॥
इत्येताः शंकरप्रोक्ता विद्याः शब्दार्थसंहिताः ।
पुनर्भेदसहस्रं तु तासामेव तु विस्तरः ॥
ऋषिभिर्देवगन्धर्वैः सविकल्पः सविस्तरः ।
शश्वदभ्यस्यते लोके वेद एव तु सर्वशः ॥
वेदाश्चतस्रः संक्षिप्ता वेदवादाश्च ते स्मृताः ।
एतासां पारगो यश्च स चोक्तो वेदपारगः ॥
वेदानां पारगो रुद्रो विष्णुरिन्द्रो बृहस्पतिः ।
शक्रः स्वायंभुवश्चैव मनुः परमधर्मवित् ॥
ब्रह्मा च परमो देवः सदा सर्वैः सुरासुरैः ।
सर्वस्यानुग्रहाच्चैव व्यासो वै वेदपारगः ॥
भीष्म उवाच ।
अहं शान्तनवो भीष्मः प्रसादान्माधवस्य च । शंकरस्य प्रसादाच्च ब्रह्मणश्च कुरूद्वह ।
वेदपारग इत्युक्तो याज्ञवल्क्यश्च सर्वशः ॥
कल्पेकल्पे महाभागैर्ऋषिभिस्तत्त्वदर्शिभिः ।
ऋषिपुत्रैर्ऋषिगणैर्भिद्यन्ते मिश्रकैरपि ॥
शिवेन ब्रह्मणा चैव विष्णुना च विकल्पिताः ।
आदिकल्पे पुनश्चैव भिद्यन्ते साधुभिः पुनः ॥
इदानीमपि विद्वद्भिर्भिद्यन्ते च विकल्पकैः ।
पूर्वजन्मानुसारेण बहुधेयं सरस्वती ॥
भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः ।' तस्यतस्य निकायस्य चकारैकैकमीश्वरम् ॥
देवानामीश्वरं चक्रे दैवं दशशतेक्षणम् ।
यमं वैवस्वतं चापि पितॄणामकरोत्पतिम् ॥
अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् ।
धनानां राक्षसानां च कुवेरमपि चेश्वरम् ॥
पर्वतानां पतिं मेरुं सरितां च महोदधिम् ।
मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥
रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः ।
महात्मानं महादेवं विशालाक्षं सनातनम् ॥
`दश चैकश्च ये रुद्रास्तस्यैते मूर्तिसंभवाः । नानारूपधरो देवः स एव भगवाञ्शिवः ॥'
वसिष्ठमीशं विप्राणां वसूनां जातवेदसम् ।
तेजसां भास्करं चक्रे नक्षत्राणां निशाकरम् ॥
वीरुधां वसुमन्तं च भूतानां च प्रभुं वरम् ।
कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥
कालं सर्वेशमकरोत्संहारविनयात्मकम् ।
मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥
ईश्वरो देवदेवस्तु राजराजो नराधिपः ।
सर्वेषामेव रुद्राणां शूलपाणिरिति श्रुतिः ॥
`ईश्वरश्चेतनः कर्ता पुरुषः कारणं शिवः ।
विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः ॥
सृजते ग्रसते चैतत्तमोभूतमिदं यथा । अप्रज्ञातं जगत्सर्वं यदा ह्येको महेश्वरः ॥ '
तमेनं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ ।
प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥
महादेवस्ततस्तस्मिन्वृत्ते यज्ञे समाहितः ।
दण़्डं धर्मस्य गोप्तारं विष्णवे सत्कृतं ददौ ॥
विष्णुरङ्गिरसे प्रादादङ्गिरा मुनिसत्तमः ।
प्रादादिन्द्रमरीचिभ्या मरीचिर्भृगवे ददौ ॥
भृगुर्ददावृषिभ्यस्तु दण्डं धर्मसमाहितम् ।
ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥
क्षुपस्तु मनवे प्रादादादित्यतनयाय च ।
पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ॥
विभज्य दण़्डः कर्तव्यो दण्डे तु नयमिच्छता ।
दुर्वाचा निग्रहो दण्डो हिरण्यं बाह्यतः क्रिया ॥
व्यङ्गत्वं च शरीरस्य वधो वाऽनल्पकारणात् ।
शरीरपीडा कार्या तु स्वदेशाच्च विवासनम् ॥
तं ददौ सूर्यपुत्राय मनवे रक्षणात्मकम् ।
आनुपूर्व्याच्च दण्डोऽयं प्रजा जागर्ति पालयन् ॥
इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ।
अग्नेर्जागर्ति वरुणो वरुणाच्च प्रजापतिः ॥
प्रजापतेस्ततो धर्मो जागर्ति विनयात्मकः ।
धर्माच्च ब्रह्मणः पुत्रो व्यवसायः सनातनः ॥
व्यवसायात्ततस्तेजो जागर्ति परिपालयत् ।
ओषध्यस्तेजसस्तस्मादोषधीभ्यश्च पर्वताः ॥
पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ।
जागर्ति निर्ऋतिर्देवी ज्योतींषि निर्ऋतीमनु ॥
वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ।
ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः ॥
पितामहान्महादेवो जागर्ति भगवाञ्शिवः ।
विश्वेदेवाः शिवाच्चापि विश्वेभ्य ऋषयस्तथा ॥
ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ।
देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय ॥
ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मताः ।
स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥
प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च ।
सर्वसंक्षेपको दण़्डः पितामहसुतः प्रभुः ॥
जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत ।
ईशः सर्वस्य कालो हि महादेवः प्रजापतिः ॥
देवदेवः शिवः सर्वो जागर्ति सततं प्रभुः ।
कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः ॥
इत्येष दण्डो व्याख्यातस्तथौषध्यस्तथापरे ।
भूमिपालो यथान्यायं वर्तेतानेन धर्मवित् ॥
भीष्म उवाच ।
इतीदं वसुहोमस्य योऽऽत्मवाञ्शृणुयान्मतम् ।
श्रुत्वा सम्यक्प्रवर्तेत स लोकानाप्नुयान्नृपः ॥
इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ ।
नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥
`वसुहोमाच्छ्रुतं राज्ञा मान्धात्रा भूभृता पुरा । मयापि कथितं राजन्नाख्यानं प्रथितं मया ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

12-122-1 अत्र दण्डोत्पत्तौ विषये ॥ 12-122-13 आचार्यवेतनं गुरुदक्षिणाम् ॥ 12-122-15 यियक्षुर्यष्टुमिच्छुः ॥ 12-122-16 सगर्भं शिरसा देवः इति झ. पाठः । क्षुवतः क्षुतवतः ॥ 12-122-18 अष्टं रूपं दीक्षापरिग्रहः प्रजानियन्ता दीक्षां प्रविष्ट इति नियमनरूपो दण्डोऽन्तर्हितोऽभवदित्यर्थः ॥ 12-122-59 कर्तुमर्हसि केशव इति झ. पाठः । विनयो विवृद्धिः । चत्वारो विभागा यस्य तस्य शस्त्रं शत्रुर्यमः कर्म च । रोगोऽपथ्याशनप्रयोजको रागो यमः कर्म चेति वा ॥ 12-122-68 विभज्य न्यायं न्यायाभासं च विविच्य । दुष्टनिग्रह एव दण्डस्य मुख्यं प्रयोजनम् । हिरण्यादिग्रहणं तु लोकानां बिभीषिकार्थं नतु कोश वृद्ध्यर्थमित्यर्थः ॥ 12-122-69 विवासनं स्वदेशाद्दूरीकरणाम् ॥ 12-122-73 ओषधीभ्यश्च पादपाः इति ट. पाठः ॥ 12-122-74 पादपेभ्यश्च जागर्ति इति ट. पाठः ॥