अध्यायः 008
युधिष्ठिरंप्रत्यर्जुनवचनम् ॥ 1 ॥
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी ।
अभिनीततरं वाक्यं दृढवादपराक्रमः ॥
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः ।
स्मयमानो महातेजाः सृक्किणी परिसंलिहन् ॥
अर्जुन उवाच ।
अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम् ।
यत्कृत्वाऽमानुषं कर्म त्यजेथाः श्रियमुत्तमाम् ॥
शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम् ।
हतामित्रः कथं स त्वं त्यजेथा बुद्धिलाघवात् ॥
क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः ।
किमर्थं च महीपालानवधीः क्रोधमूर्च्छितः ॥
यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव कस्य चित् ।
समारम्भान्बुभूषेत हतस्वस्तिरकिञ्चनः ।
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः ॥
कापालीं नृप पापिष्ठां वृत्तिमासाद्य जीवतः ।
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति ॥
सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिञ्चनः ।
कस्मादाशंससे भैक्षं चर्तुं प्राकृतवत्प्रभो ॥
कस्माद्राजकुले जातो जित्वा कृत्स्नां वसुंधराम् ।
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे ॥
यदीमानि हवींषीह विमथिष्यन्त्यसाधवः ।
भवता विप्रहीणत्वात्प्राप्तं त्वामेव किल्विषम् ॥
आकिञ्चन्यं मुनीनां च इति वै नहुषोऽब्रवीत् ।
कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह ॥
आश्वस्तन्यमृषीणां हि विद्यते वेद तद्भवान् ।
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते ॥
धर्मं स हरते तस्य धनं हरति यस्य यः ।
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि ॥
अभिशस्तं प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् ।
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥
पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते ।
विशेषं नाधिगच्छामि पतितस्याधनस्य च ॥
अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥
अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
प्राणयात्राऽपि लोकस्य विना ह्यर्थं न सिध्द्यति ॥
अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥
अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम् ।
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥
धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः ।
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥
धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्धते ।
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम ॥
नाधनो धर्मकृत्यानि यथावदनुतिष्ठति ।
धनाद्धि धर्मः स्रवति शैलादभिनदी यथा ॥
यः कृशार्थः कृशगवः कृशभृत्यः कृशांतिथिः ।
स वै राजन्कृशो नाम न शरीरकृशः कृशः ॥
अवेक्षस्व यथान्यायं पश्य देवासुरं यथा ।
राजन्किमन्यज्ज्ञातीनां वधाद्गृध्यन्ति देवताः ॥
न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत् ।
एतावानेव वेदेषु निश्चयः कविभिः कृतः ॥
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ।
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः ॥
द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः ।
द्रोहात्किमन्यज्ज्ञातीनां गृध्यन्ते येन देवताः ॥
इति देवा व्यवसिता वेदवादाश्च शाश्वताः ।
अधीयन्तेऽध्यापयन्ते यजन्ते याजयन्ति च ॥
कृत्स्नं तदेव तच्छ्रेयो यदप्याददतेऽन्यतः ।
न पश्यामोऽनपकृतं धनं किंचित्क्वचिद्वयम् ॥
एवमेव हि राजानो यजन्ति पृथिवीमिमाम् ।
जित्वा ममेयं ब्रुवते पुत्रा इव पितृर्धनम् ॥
राजर्षयोऽपि ते स्वर्ग्या धर्मो ह्येषां निरुच्यते ॥
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश ।
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति ॥
आसीदियं दिलीपस्य नृगस्य नहुषस्य च ।
अंबरीपस्य मान्धातुः पृथिवी सा त्वयि स्थिता ॥
स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः ।
तं चेन्न यजसे राजन्प्राप्तस्त्वं राज्यकिल्बिषम् ॥
येषां राजाऽश्वमेधेन यजते दक्षिणावता ।
उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते ॥
विश्वरूपो महादेवः सर्वमेधे महामखे ।
जुहाव सर्वभूतानि तथैवात्मानमात्मना ॥
शाश्वतोऽयं भूतिपथो नास्त्यन्तमनुशुश्रुम ।
महाजनपथं गन्ता मा राजन्कुपथं गमः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
12-8-1 दृढौ युक्तिशक्त्युपेतौ वादपराक्रमावुक्तिविक्रमौ यस्य
स तथा ॥ 12-8-2 दर्शयन्नैन्द्रमात्मनिमिति ड.थ.द. पाठः ॥ 12-8-5 क्लीबस्य
स्वीयवधे कातरस्य । दीर्घसूत्रस्य परवधे अलसस्य ॥ 12-8-6 यः
पुमान्हतस्वस्तिर्नष्टकल्याणः । अकिञ्चनो दरिद्रः । अतएव कमात्सर्वलोकेषु न
विख्यातः । पुत्रपशुसंहितः पुत्रादिभिराश्लिष्टश्च न भवति । स भैक्षं
आजिजीविषेदुपजीवितुमिच्छेत् । स कर्मणा पौरुषेण कस्यचिदपि परस्य । समारभ्यन्त इति
समारम्भा अर्थास्तान्नैव बुभूषेत नैव प्राप्तुमिच्छेत् । त्वं तु प्राप्तकल्याणः
संपन्नः ख्यातः पुत्राद्याश्लिष्टश्च पौरुषेणार्थांल्लब्ध्वा
नाजिजीविषेद्भैक्षं कर्मणा येन केनचित् । समारम्भाद्वुभूषेत हतस्वस्तिरकिञ्चनः ।
इति ट. ड. पाठः । यो ह्याजिजीविषेद्भैक्षं कर्मणा नैव केनचित् । इति थ. पाठः ।
सर्वलोकेन विख्यातो न पुत्रपशुसंहितः । कापालीं नृप पापिष्ठां वृत्तिमास्थाय
जीवतीति ट. ड. थ. द. पाठः ॥ 12-8-7 कापालीं भिक्षापात्रवतीम् ।
संत्यज्यराज्यमृद्धिं त्वां लोकोऽयं प्रवदिष्यतीति ट. ड. पाठः ॥ 12-8-8
सर्वारम्भान्सर्वार्थान्धर्मादीन् प्राकृतवन्मूढवत् ॥ 12-8-11 आकिञ्चन्यं
मुनीनां च राज्यादप्यधिकं मतमिति यद्वाक्यं तदुद्दिश्य नहुषो राजा अधनतामिह
धिगस्त्वित्यब्रवीत् । अधने धनाभावे निमित्ते सति पुरुषो नृशंसं कर्म कृत्वा
जीवतीति दारिद्र्यं पापहेतुत्वान्निन्दितवानित्यर्थः । आकिञ्चन्यमहीनस्य मृत्यवे
इति ट. ड. थ. पाठः ॥ 12-8-25 यत्तूक्तं ज्ञातीनां परस्परं युद्धे हतानां
हन्तॄणां च श्रेयो नास्तीति तच्छिष्टाचारदर्शनेन दूषयति । अवेक्षस्वेत्यादिना ॥ 12-8-26 अन्यस्य परस्य धनं चेन्न हर्तव्यं तत्तर्हि राजा कथं धर्ममाचरेत् । तस्य
वृत्त्यन्तराभावान्न कथंचिदित्यर्थः ॥ 12-8-32 निरुच्यते उत्कृष्टत्वेन
कीर्त्यते ॥ 12-8-33 स्यन्दन्ति प्रस्रवन्ति ॥