अध्यायः 125

आशानिरूपणं प्रार्थितेन भीष्मेण तदुपोद्धाततया ऋषभसुमित्रचरित्रकीर्तनारम्भः ॥ 1 ॥ मृगयासक्तेन सुमित्रेण निजशरानुवेधे शरेण सह वनं प्रविष्टं मृगं प्रत्यनुधावनम् ॥ 2 ॥

युधिष्ठिर उवाच ।
शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना का च सा तद्वदस्व मे ॥
संशयो मे महानेष समुत्पन्नः पितामह ।
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय ॥
पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु तद्युक्तं तत्कर्ताऽयमिति प्रभो ॥
सर्वस्याशा सुमहती पुरुषस्योपजायते ।
स्यां विहन्यमानायां दुःखो मृत्युर्न संशयः ॥
ऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
र्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥
आशां बृहत्तरीं मन्ये पर्वतादपि सद्रुमात् ।
आकाशादपि वा राजन्नप्रमेयाऽथवा पुनः ॥
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध मे ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।
ससार च मृगं विद्ध्वा बाणेनानतपर्वणा ॥
स मृगो बाणमादाय ययावतिपराक्रमः ।
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥
ततो निम्नं स्थलं चैव समृगोऽद्रवदाशुगः ।
मुहूर्तमिव राजेन्द्र समेन स पथाऽगमत् ॥
ततः स राजा तारुण्यादौरसन बलेन च ।
चचार बाणासनभृत्सखङ्गो हंसवत्तदा ॥
ततो नदान्नदीश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः ॥
स तु तावन्मृगो राजन्नासाद्यासाद्य पार्थिवम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥
पुनश्च जवमास्थाय जवनो मृगयूथपः । [अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥]
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।
समादाय शरं श्रेष्ठं कार्मुकान्निरवासयत् ॥
[ततो गव्यूतिमात्रेण मृगयूथपयूथपः ।] तस्य बाणपथं मुक्त्वा तस्थिवान्प्रहसन्निव ॥
तस्मिन्निपतिते बाणे भूमौ ज्वलिततेजसि ।
प्रविवेश मृगोऽरण्यं मृगं राजाऽप्यभिद्रवत् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

12-125-3 युक्तं युद्धं विनैव राज्यार्धदानम् । कर्ता करिष्यति ॥ 12-125-7 दुर्लभा दुर्जया ॥ 12-125-12 बाणासनभृद्धनुर्धरः ॥ 12-125-15 समभ्यस्तो बिद्धः ॥