अध्यायः 127
वदरिकाश्रमं गतस्य ऋषभस्य तनुनामकेन महर्षिणा सह संवादः ॥ 1 ॥ वने
नष्टपुत्रान्वेषणवशात्तत्रोपागतेन वा द्युम्नेन राज्ञा तनुंप्रति आशाया ज्यायः
किमिति प्रश्नः ॥ 2 ॥
ततस्तेषां समेतानामृषीणामृषिसत्तमः ।
ऋषभो नाम विप्रर्षिर्विस्मयन्निदमब्रवीत् ॥
पुराऽहं राजशार्दूल तीर्थान्यनुचरन्प्रभो ।
समासादितवान्दिव्यं नरनारायणाश्रमम् ॥
यत्र सा बदरी रम्या सरो वैहायसं तथा ।
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥
तस्मिन्सरसि कृत्वाऽहं विधिवत्तर्पणं पुरा ।
पितृणां देवतानां च ततोश्रममियां तदा ॥
रमाते यत्र तौ नित्यं नरनारायणावृषी ।
अदूरादाश्रमात्किंचिद्वासार्थमगमं तदा ॥
अत्र चीराजिनधरं कृशमुच्चमतीव च ।
अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ॥
अन्यैर्नरैर्महाबाहो वपुषाऽप्रतिमं तदा ।
कृशता चापि राजर्षे न दृष्टा तादृशी मया ॥
शरीरमपि राजेन्द्र तनु कानिष्ठिकासमम् ।
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च ।
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥
दृष्ट्वाऽहं तं कृशं विप्रं भीतः परमदुर्मनाः ।
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥
निवेद्य नामगोत्रे च तथा कार्यं नरर्षभ ।
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥
ततः स कथयामास धर्मार्थसहिताः कथाः ।
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥
त--स्तु कथयत्येव राजा राजीवलोचनः ।
उपयाज्जवनैरश्वैः सबलः सावरोधनः ॥
स्मरम्पुत्रमरण्ये वै नष्टं परमदुर्मनाः ।
भूविद्युम्नपिता श्रीमान्वीरद्युम्नो महायशाः ॥
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति भारत ।
एवमाशाकृशो राजा चरन्वनमिदं पुरा ॥
दुर्लभः स मया द्रष्टुं भूय एव च धार्मिक ।
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥
न स शक्यो मया द्रष्टुमाशा च महती मम ।
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥
एतच्छ्रुत्वा तु भगवांस्तनुर्मुनिवरोत्तमः ।
अवाक््शिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः ।
उवाच वाक्यं दीनात्मा मन्दमन्दमिवासकृत् ॥
दुर्लभं किंनु देवर्षे आशायाश्चैव किं महत् ।
ब्रवीतु भगवानेतद्यदि गुह्यं न चेत्तदा ॥
तनुरुवाच ।
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः ।
बालिशां बुद्धिमास्थाय मन्दभाग्यतयाऽऽत्मनः ।
अर्थयन्कुशलं राजन्काञ्चनं वल्कलानि च ॥
[अवज्ञापूर्वकेनापि न संपादितवांस्ततः ।]
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥
एवमुक्तोऽभिवाद्याथ तमृषिं लोकपूजितम् ।
श्रान्तोऽवसीदद्धर्मात्मा यथा त्वं नरसत्तम ॥
अर्ध्यं ततः समानीय पाद्यं चैव महायशाः ।
आरण्येनैव विधिना राज्ञे सर्वं न्यवेदयत् ॥
ततस्तमृषयः सर्वे परिवार्य नरर्षभम् ।
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥
अपृच्छंश्चैव तत्रैनं राजानमपराजितम् ।
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशने ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥
12-127-3 वैहायसं विहायसा गच्छन्त्या मन्दाकिन्या वैहायस्या
इदं वैहायसम् ॥ 12-127-4 ततोश्रमं तत आश्रमं मण्डपं इयां गतवामह ॥ 12-127-5
रेमाते रजसा यत्रेति थ. द. पाठः ॥ 12-127-7 वपुयाऽष्टगुणान्वितमिति झ. पाठः ॥ 12-127-21 तेन तव पुत्रेण भूरिद्युम्रेन ॥ 12-127-23 एवं मुनिना उक्तः
वीरद्युम्नः अवसीदत् नष्टप्रायोऽभूदित्यर्थः ॥ 12-127-26 एवं मुनिना
राजपूजानन्तरं आगताः किमर्थं आश्रमे त्वं प्रविष्ट ोऽसीत्य पृच्छन् ॥