अध्यायः 131

भीष्मेण युधिष्ठिरंप्रति आपदि राज्ञा सर्वस्वत्यागेनाप्यात्मनो रक्षणीयत्वकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु ।
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत ॥
विरक्तराज्यपौरस्य निर्द्रव्यनिचयस्य च ।
असंभावितमित्रस्य भिन्नामात्यस्य सर्वतः ॥
परचक्राभियातस्य दुर्बलस्य बलीयसा ।
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते ॥
भीष्म उवाच ।
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।
जवेन सन्धिं कुर्वीत पूर्वं पूर्वं विमोक्षयेत् ॥
[योऽधर्मविजिगीषुः स्याद्बलवान्पापनिश्चयः ।] आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥
अपास्य राजधानीं वा तरेदन्येन वाऽऽपदम् ।
तद्भावभावो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥
यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः ।
कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित् ॥
अपराधाज्जुगुप्सेत का सपत्नधने दया ।
न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन ॥
युधिष्ठिर उवाच ।
आभ्यन्तरे च कुपिते बाह्ये चोपनिपीडिते ।
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते ॥
भीष्म उवाच ।
क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रम ।
यदाऽपनयनं क्षिप्रमेतद्वै सांपरायिकम् ॥
अनुरक्तेन पुष्टेन हृष्टेन जगतीपतिः ।
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ॥
हतो वा दिवमारोहेद्धत्वा च सुखमावहेत् ।
युद्धे हि संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥
सर्वलोकागसं कृत्वा मृदुत्वं गन्तुमेव च ।
विश्वासाद्विनयं कुर्यात्संजह्याद्वाऽप्युपानहौ ॥
अपचिक्रमिषुः क्षिप्रं सेनां स्वां परिसान्त्वयन् ।
विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥

12-131-1 सानुक्रोशस्य बन्धुक्षयभयात् योद्धुमनिच्छतः । परिशङ्कितमुख्यस्य अमात्येषु शङ्कावतः ॥ 12-131-2 द्रव्याभावादेव न संभावितानि आवर्जितानि मित्राणि येन तस्य भिन्नाः शत्रुभिर्ददी कृता अमात्या यस्य ॥ 12-131-3 बलीयसा शत्रुणा आपन्नं वाक्रु लीकृतं चेतो यस्य ॥ 12-131-4 मोक्षयेत् साम्नैवेत्यर्थः ॥ 12-131-5 अधर्मप्रधानो विजिगीषुरधर्मविजिगीषुः ॥ 12-131-7 दुष्टतमे तु राज्यधनं त्यक्त्वा आत्मानं रक्षेदित्याह यास्त्विति । यास्तु स्युः केवलत्यागादिति ड. थ. पाठः ॥ 12-131-9 आभ्यन्तरेऽमात्यादौ बाह्योदुर्गराष्ट्रादौ ॥ 12-131-10 धर्मिष्ठे बाह्ये क्षिप्रं संधिः । अधर्मि तु --- कर्तव्यः । यदा त्वेवं तदा अपनयनं शत्रो---- । अथवा सांपरायिकं धर्मयुद्धेन मरणे पर-- कहितं भवति ॥ 12-131-13 विश्वासात् विश्वासं प्रापय्य विक्यं कुर्यात् मृदुर्भवेत् । नतु युद्धमेव हठेन श्रयेत् ॥