अध्यायः 136

भीष्मेण युधिष्ठिरंप्रति कोशवृद्ध्यर्थमपहार्यानपहार्यधनविवेचनम् ॥ 1 ॥

भीष्म उवाच ।
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः ।
येन मार्गेण राजानः कोशं संजनयन्त्युत ॥
न धनं यज्ञशीलानां हार्यं देवस्वमेव च ।
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति ॥
इमाः प्रजाः क्षत्रियाणां रक्ष्या हन्याश्च भारत ।
थनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते ॥
तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा ।
अभोज्याश्चौषधीश्छित्त्वा भोज्या एव पचन्त्युत ॥
यो वै न देवान्न पितृन्न मर्त्यान्हविषाऽर्चति ।
अनर्थकं धनं तत्र प्राहुर्धमेविदो जनाः ॥
हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीतिः ।
न हि न प्रीणयेल्लोकान्न लोके गर्हते नृपम् ॥
असाधुभ्योऽर्थमादाय साधुभ्यो यः प्रयच्छति ।
आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः ॥
[तथातथा जयेल्लोकाञ्शक्त्या चैव यथायथा ।] औद्भिदा जन्तवो यद्वच्छ्रुत्वा वाजो यथातथा ॥
अनिमित्तात्संभवन्ति तथा यज्ञः प्रजायते ।
यथैव दंशमशकं यथा कीटपिपीलिकम् ॥
सैव वृत्तिर्हि यज्ञेषु यथा धर्मो विधीयते ॥
यथा ह्यकस्माद्भवति भूमौ पांसुस्तृणोलपम् ।
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरः स्मृतः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट््त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥

12-136-4 औषधीश्छित्त्वा ताभिरिन्धनीकृताभिर्भोज्या व्रीह्याद्याः । दुष्टान् हिंसित्वा साधून्पालयेदिति भावः ॥