अध्यायः 141

भीष्मेण युधिष्ठिरंप्रति आपदि अभक्ष्यभक्षणेनाप्यात्मरक्षणकरणे दृष्टान्ततया विश्वामित्रश्वपचसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
हीने परमके धर्मे सर्वलोकविलङ्घिते ।
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥
मर्यादासु प्रभिन्नासु क्षुभिते लोकिश्चये ।
राजभिः पीडिते लोके चोरैर्वाऽपि विशांपते ॥
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च ।
कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत ॥
अविश्वस्तेषु सर्वेषु नित्यं भीतेषु भारत ।
नित्यं च हन्यमानेषु वञ्चयत्सु परस्परम् ॥
प्रदीप्तेषु च देशेषु ब्राह्मण्ये चातिपीडिते ।
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ।
केनस्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥
अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप ।
कतमापदि वर्तेत तन्मे ब्रूहि पितामह ॥
कथं च राजा वर्तेत लोके कलुषतां गते ।
कथमर्थाच्च धर्माच्च न हीयेत परंतप ॥
भीष्म उवाच ।
राजमूला महाबाहो योगक्षेमसुवृष्टयः ।
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥
कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ ।
राजमूला इति मतिर्मम नास्त्यत्र संशयः ॥
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके ।
विज्ञानबलमास्थाय जीवितव्यं भवेत्तदा ॥
अधाप्युदाहरन्तीममितिहासं पुरातनम् ।
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥
त्रेताद्वापरयोः संधौ पुरा दैवव्यतिक्रमात् ।
अनावृष्टिरभूद्धोरा लोके द्वादशवार्षिकी ॥
प्रजानामतिवृद्धानां युगान्ते समुपस्थिते ।
त्रेतायां मोक्षसमये द्वापरप्रतिपादने ॥
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः ।
जगाम दक्षिणं मार्गं सोमो व्यावृत्तमण्डलः ॥
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः ।
नद्यः संक्षिप्ततोयौघाः किंचिदन्तर्गताऽभवन् ॥
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च ।
हतत्विषो न लक्ष्यन्ते निसर्गात्पूर्वकारितात् ॥
भूमिः शुष्कजलस्थाना विनिवृत्तसभाप्रपा ।
निवृत्तयज्ञस्वाध्याया निर्वषट््कारमङ्गला ॥
उत्सन्नकृषिगोरक्षा निवृत्तविपणापणा ।
निवृत्तपूर्वसमया संप्रनष्टमहोत्सवा ॥
अस्थिकङ्कालसंकीर्णा हाहाभूतनराकुला ।
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥
क्वचिच्चोरैः क्वचिच्छूरैः क्वचिद्राजभिरातुरैः ।
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥
गतदैवतसंस्थाना वृद्धबालविनाकृता ।
गोजाविमहिषीहीना परस्परपराहता ॥
हतविप्रा हतारक्षा प्रनष्टोत्सवसंचया ।
शवभूतनरप्राया बभूव वसुधा तदा ॥
तस्मिन्प्रतिभये काले क्षीणधर्मे युधिष्ठिर ।
बभूवुः क्षुधिता मर्त्याः खादमानाः परस्परम् ॥
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदेवताः ।
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ॥
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः ।
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत् ॥
त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्च जनसंसदि ।
भक्ष्याभक्ष्यसमो भ्रूत्वा निरग्निरनिकेतनः ॥
स कदाचित्परिपतञ्श्वपचानां निकेतनम् ।
हिंस्राणां प्राणिघातानामाससाद वने क्वचित् ॥
विभिन्नकलशाकीर्णं श्रमांसेन च भूषितम् ।
वराहखरभग्नास्थिकपालघटसंकुलम् ॥
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् ।
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमुखम् ॥
कुक्कुटाराबहुलं गर्दभध्वनिनादितम् ।
उद्धोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् ॥
उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम् ।
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥
तत्प्रविश्य क्षुधाविष्टो गाधिपुत्रो महानृपिः ।
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः ।
मांसमन्नं फलं मूलमन्यद्वा तत्र किंचन ॥
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः ।
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥
स चिन्तयामास मुनिः किंनु मे सुकृतं भवेत् ।
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥
स ददर्श श्वमांसस्य कुतन्त्रीं पतितां मुनिः ।
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य वै ॥
स चिन्तयामास तदा स्तेयं कार्यमितो मया ।
न--दानीमुपायो मे विद्यते प्राणधारणे ॥
---सु विहितं स्तेयं विशिष्टसमहीनतः । परस्परं भवेत्पूर्वमास्थेयमिति निश्चयः ।
हीनादादेयमादौ स्यात्समानात्तदनन्तरम् ।
असंभवे त्वाददीत विशिष्टादपि धार्मिकात् ॥
सोऽहमन्तावसायीनां हराम्येनां प्रतिग्रहात् ।
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः ।
तस्मिन्देशे सुसुष्वाप पतितो यत्र भारत ॥
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे ।
शनैरुत्थाय भगवान्प्रविवेश कुटीमुखम् ॥
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः ।
परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः ॥
कः कुतन्त्रीं घट्टयति सुप्ते चण्डालपक्कणे ।
जागर्मि नैव सुप्तोऽस्मि हतोऽसीति च दारुणः ॥
विश्वामित्रोऽहमित्येव सहसा तमुवाच ह ।
सहसाऽभ्यागतं भूयः सोद्वेगस्तेन कर्मणा ॥
विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः ।
मा वधीर्मम सद्बुद्धे यदि सम्यक्प्रपश्यसि ॥
चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः ।
शयनादुपसंभ्रान्त उद्ययौ प्रति तं ततः ॥
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः ।
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् ।
क्षुधितोऽन्तर्गतप्राणो हरिष्यामि श्वजाघनीम् ॥
क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः ।
क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥
अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा । दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्यविवर्जितः ।
सोधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥
यदा भैक्षं न विन्दामि युष्माकमहमालये ।
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥
अग्निर्मुखं पुरोधाश्च देवानां शुचिषाङ्विभुः ।
यथा च सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥
तमुवाच स चण्डालो महर्षे शृणु मे वचः ।
श्रुत्वा तथा तमातिष्ठ यथा धर्मो न हीयते ॥
धर्मं तवापि विप्रर्षे शृणु यत्ते ब्रवीम्यहम् ॥
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः ।
तस्याप्यधम उद्देशः शरीरस्य तु जाघी ॥
नेदं सम्यग्व्यवसितं महर्षे कर्म गर्हितम् ।
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे ।
श्वमांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥
जानता विहितो मार्गो न कार्यो धर्मसंकरः ।
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ ।
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥
निराहारस्य सुमहान्मम कालोऽभिधावतः ।
न विद्यतेऽप्युपायश्च कश्चिन्मे प्राणधारणे ॥
येनकेन विशेषेण कर्मणा येनकेनचित् ।
उज्जिहीर्षे सीदमानः समर्थो धर्ममाचरेत् ॥
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः ।
ब्रह्मवह्निर्मम बलं भोक्ष्यामि शमयन्क्षुधाम् ॥
यथायथैव जीवेद्धि तत्कर्तव्यमहेलया ।
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥
सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम् ।
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि तु ।
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥
श्वपच उवाच ।
नैतत्खादन्प्राप्स्यसे प्राणमद्य नायुर्दीर्घं नामृतस्येव तृप्तिम् ।
भिक्षामन्यां भिक्ष मा ते मनोस्तु श्वभक्षणे श्वा ह्यभक्ष्यो द्विजानाम् ॥
विश्वामित्र उवाच ।
न दुर्भिक्षे सुलभं मांसमन्य च्छ्वपाकमन्ये न च मेऽस्ति वित्तम ।
क्षुघार्तश्चाहमगतिर्निराशः श्वजाघनीं ष़ड््सात्साधु मन्ये ॥
श्वपच उवाच ।
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै विशः । `शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ।'
यदि शास्त्रं प्रमाणं ते माऽभक्ष्ये वै मनः कृथाः ॥
विश्वामित्र उवाच ।
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥
श्वपच उवाच ।
भिक्षामन्यामाहरेति न च कर्तुमिहार्हसि ।
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥
विश्वामित्र उवाच ।
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।
परां मेध्याशनादेनां भक्ष्यां मन्ये श्वजाघनीम् ॥
श्वपच उवाच ।
असद्भिर्यः समाचीर्णो न स धर्मः सनातनः ।
अकार्यमिह कार्यं वा मा छलेनाशुभं कृथाः ॥
विश्वामित्र उवाच ।
न पातकं नावमतमृषिः सन्कर्तुमर्हति ।
समौ च श्वमृगौ मन्ये तस्माद्भोक्ष्ये श्वजाघनीम् ॥
श्वपच उवाच ।
यद्ब्राह्मणार्थे कृतमर्थिनेन तेनर्षिणा तदभक्ष्यं न कामात् ।
स वै धर्मो यत्र न पापमस्ति सर्वैरुपायैर्गुरवो हि रक्ष्याः ॥
विश्वामित्र उवाच ।
मित्रं च मे ब्राह्मणस्यायमात्मा प्रियश्च मे पूज्यतमश्च लोके ।
तद्भोक्तुकामोऽहमिमां जिहीर्षे नृशंसानामीदृशानां न विभ्ये ॥
श्वपच उवाच ।
कामं नरा जीवितं संत्यजन्ति न चाभक्ष्ये क्वचित्कुर्वन्ति बुद्धिम् ।
सर्वांश्च कामान्प्राप्नुवन्तीति विद्धि स्वर्गे निवासात्सहते क्षुधां वै ॥
विश्वामित्र उवाच ।
स्थाने भवेत्स यशः प्रेत्यभावे निःसंशयः कर्मणां वै विनाशः ।
अहं पुनर्व्रतनित्यः शमात्मा मूलं रक्ष्यं भक्षयिष्याम्यभक्ष्यम् ॥
बुद्ध्यात्मके व्यक्तमस्तीति सृष्टो मोक्षात्मके त्वं यथा शिष्टचक्षुः ।
यद्यप्येतत्संशयाच्च त्रपामि नाहं भविष्यामि यथा न माया ॥
श्वपच उवाच ।
गोपनीयमिदं दुःखमिति मे निश्चिता मतिः ।
दुष्कृतं ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥
विश्वामित्र उवाच ।
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।
न तेऽधिकारो धर्मेऽस्ति वा भूरात्मप्रशंसकः ॥
श्वपच उवाच ।
सुहृद्भूत्वाऽनुशोचे त्वां कृपा हि त्वयि मे द्विज ।
तदिदं श्रेय आधत्स्व मा लोभे चेत आदधाः ॥
विश्वामित्र उवाच ।
सृहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।
जामऽहं धर्मतोऽऽत्मानमुत्सृजेमां श्वजाघनीम् ॥
श्वपच उवाच ।
नैवोत्सहे भवतो दातुमेतां नोपेक्षितुं ह्रियमाणं स्वमन्नम् ।
उभौ स्यावः श्वमलेनानुलिप्तौ दाता चाहं ब्राह्मणस्त्वं प्रतीच्छम् ॥
विश्वामित्र उवाच ।
अद्याहमेतद्वॄजिनं कर्म कृत्वा जीवंश्चरिष्यामि महापवित्रम् ।
संपूतात्मा धर्ममेवाभिपत्स्ये यदेतयोर्गुरु तद्वै ब्रवीहि ॥
श्वपच उवाच ।
आत्मैव साक्षी किल धर्मकृत्ये त्वमेव जानासि यदत्र दुष्कृतम् ।
यो ह्याद्रियाद्भक्ष्यमिति श्वमांसं मन्ये न तस्यास्ति विवर्जनीयम् ॥
विश्वामित्र उवाच ।
उपधानैः साधते नापि दोषः कार्ये सिद्धे मित्र नात्रापवादः ।
अस्मिन्नहिंसा नानृते वाक्यलेशो भक्ष्यक्रिया यत्र न तद्गरीयः ॥
श्वपच उवाच ।
यद्येष हेतुस्तव खादने स्या न्न ते वेदः कारणं नार्यधर्मः ।
तस्माद्भक्ष्ये भक्षणे वा द्विजेन्द्र दोषं न पश्यामि यथेदमत्र ॥
विश्वामित्र उवाच ।
न पातकं भक्षमाणस्य दृष्टं सुरां तु पीत्वा पततीति शब्दः ।
अन्योन्यकार्याणि यथा तथैव न लेपमात्रेण कृतं हिनस्ति ॥
श्वपच उवाच ।
`पादौ मूलं समभवद्वृन्ताकं शिर उच्यते ।
शेफात्तु गृञ्जरं जातं पलाण्डुस्त्वण्डसंभवः ॥
श्वरोमजः शैव्यशाको लशुनं द्विजसंभवम् । चुक्किनामा पर्णशाकः कर्णादजनि भूसुर ॥'
अस्थानतो हीनतः कुत्सिताद्वा तद्विद्वांसं बाधते साधु वृत्तम् ।
श्वानं पुनर्यो लभतेऽभिषङ्गा त्तेनापि दण्डः सहितव्य एव ॥
भीष्म उवाच ।
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा ।
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥
ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः ।
सदारस्तामुपाहृत्य वने भोक्तुमियेप सः ॥
अथास्य बुद्धिरभवद्विधिनाऽहं श्वजाघनीम् ।
भक्षयामि यथाकालं पूर्वं संतर्प्य देवताः ॥
ततोऽग्निमुपसंहृत्य ब्राह्मेण विधिना मुनिः ।
ऐन्द्राग्नेयेन विधिना चरुं श्रपयत स्वयम् ॥
ततः समारभत्कर्म दैवं पित्र्यं च भारत ।
आहूय देवानिन्द्रादीन्भागंभागं विधिक्रमात् ॥
एतस्मिन्नेव काले तु प्रववर्ष स वासवः ।
संजीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्चिषः ।
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥
स संहृत्य च तत्कर्म अनास्वाद्य च तद्धविः ।
तोषयामास देवांश्च पितॄंश्च द्विजसत्तमः ॥
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः ।
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् ।
जीवन्पुण्यमवाप्नोति पुरुषो भद्रमश्नुते ॥
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये ।
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं कृतात्मना ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥

12-141-7 अतितिक्षुः युक्तुमनिच्छुः । अनुक्रोशात् दयातः ॥ 12-141-9 अप्राप्तप्रापणं योगः । प्राप्तसंरक्षणं क्षेमः ॥ 12-141-12 पक्कणे चण्डालागारे ॥ 12-141-15 प्रतिलोमो वक्रः । व्यावृत्तं अन्यथाभूतं मण्डलं यस्य ॥ 12-141-16 अवश्यायो धूमिका ॥ 12-141-19 विषणो विक्रयादिः । आपणो हट्टः ॥ 12-141-23 हता आरक्षा रक्षाकर्तारो यस्यां सा ॥ 12-141-36 वृथा अन्नं विना ॥ 12-141-37 कुतन्त्रीं दण्डिकाम् ॥ 12-141-39 विप्रेण प्राणरक्षार्थं कर्तव्यमिति निश्चयः इति झ. पाठः ॥ 12-141-41 प्रतिग्रहात्तज्जदोषात् स्तैन्यदोषमधिकं न पश्यामीत्यर्थः ॥ 12-141-45 घट्टयति चालयति ॥ 12-141-47 मम माम् ॥ 12-141-51 कलुषं यातः पापं कर्मानुसृतः ॥ 12-141-54 अग्निर्देवानां मुखं च पुरोधाश्च सः । शुचिषाट् शुचि मेध्यमेव सहते नामेध्यम् तथाहं ब्रह्मा ब्राह्मणोऽपि तत्तुल्यत्वात्सर्वभुग्भविष्यामीत्यर्थः ॥ 12-141-64 ऐन्द्रः पालात्मकः । आग्निकः सर्वभुक्त्वरूपः । ब्रह्म वेदः स एव वह्निः ॥ 12-141-72 इति कर्तुं नार्हसीति योजना ॥ 12-141-73 शिष्टाः अगस्त्यादयः ॥ 12-141-75 समौ पशुत्वादिति भावः नृशंसमपि भक्षित्वा तेन वातापिना भक्ष्यमाणा ब्राह्मणा रक्षिता इति धर्म एवेत्यर्थः ॥ 12-141-77 तर्हि अयमात्मा देहो मम मित्रं एतस्य रक्षणार्थं मयाप्येतद्भुक्तं चेन्न कश्चिद्दोषोऽस्तीत्याह मित्रं चेति ॥ 12-141-79 स कामः प्रेत्यभावे मरणे सति यशः यशस्करो भवेदिति स्थाने युक्तम् । अनशनेन मरणं श्रेय इति सत्यमित्यर्थः । जीवतस्त्वनश्नतो धर्मलोपः प्रत्यक्षः । मूलं धर्मस्य शरीरं रक्ष्यं तस्य वैकल्येन धर्मविरोधो भवतीत्यर्थः ॥ 12-141-80 बुद्ध्यात्मके व्यक्तमस्तीति पुण्यं मोहात्मके यत्र यथा श्वभक्ष्ये । यद्यप्येत त्संशयात्मा चरामि नाहं भविष्यामि यथा त्वमेवेति झ. पाठः । तत्र बुद्ध्यात्मके प्रमातरि विचारिते श्वजाघनीभक्षणेऽपि पुण्यमस्तीति जाने । ज्ञानोत्पत्तियोग्यं शरीरमपथेन्नापि रक्ष्यमेवेति भावः । तथापि श्वभक्षणमात्रेण स्वादृशः श्वपचोऽहं न भविष्यामि । तपसा दोषं दूरीकर्तुं शक्तोऽस्मीति भावः ॥ 12-141-81 इदं श्वजाघनीभक्षणजं दुःखं पापं गोपनीयं गूहनीयं त्वया क्रियमाणं निरसनीयमिति मे बुद्धिर्निश्चितास्ति ॥ 12-141-82 धर्मे धर्मानुशासने ॥ 12-141-85 प्रतीच्छन् प्रतिगृह्णन् ॥ 12-141-89 हेतुः प्राणपोषणेच्छास्ति । कारणं प्रमाणम् । भक्ष्ये भक्षणे । अभक्षणे इति च्छेदः ॥ 12-141-90 पततीति शब्दः शब्दशास्त्रस्याज्ञामात्रम् । परंतु पापहेतुर्मुख्यो हिंसाख्योऽत्र न दृश्यत इति भवः । अन्योन्यकार्याणि मैथुनानि । लेपमात्रेण कृतं पुण्यं हिनस्ति नाशयति । तेन ईषत्पापोत्पत्तिरस्तु नतु ब्राह्मण्यादि धर्महानिरस्तीति भावः ॥ 12-141-93 अस्थानतश्चाण्डालगृहात् । हीनतश्चौर्यतः । कुत्सिताददित्सतः कदर्यात् । अभिषङ्गादत्याग्रहात् । श्वानं लभते तेनापि तेनैव दण्डः सहितव्यः सोढव्यएव । ननु दातुर्मम दोषोऽस्तीति भावः । अस्थानतो हीनतः कुत्सिताद्वा यो वै द्विजं बाधते साधुवृत्तम् । स्थानं पुनर्यो लभतेतिभङ्गात्तेनापि दण्डः प्रहितः स एवेति ध. पाठः ॥ 12-141-96 यथाकाममिति झ. पाठः ॥ 12-141-100 सिद्धिमियेषेति ट. ड. द. पाठः ॥