अध्यायः 142

भीष्मेण युधिष्ठिरंप्रति राज्ञा ब्राह्मणवर्जं दण्डेन प्रजापालनकरणे शुक्रमतानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् ।
अस्तिस्विद्दस्युमर्यादा यामयं परिवर्जयेत् ॥
संमुह्यामि विपीदामि धर्मो मे शिथिलीकृतः ।
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ॥
भीष्म उवाच ।
नैतच्छ्रुत्वागमादेव तव धर्मानुशासनम् ।
प्रज्ञासमभिहारोऽयं कविभिः संभृतं मधु ॥
बाह्याः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः ।
बहुशाखेन धर्मेण यत्रैषा संप्रसिध्यते ॥
बुद्धिं संजनयेद्राज्ञां धर्ममाचरतां सदा ।
जयो भवति कौरव्य सदा तद्वृद्धिरेव च ॥
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः ।
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ॥
नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते ।
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता ॥
अद्वैधज्ञः प्रतिद्वैधे संशयं प्राप्नुमर्हति ।
बुद्धिद्वैधं विधातव्यं पुरस्तादेव भारत ॥
पार्श्वतः कारणं राज्ञो विषूच्यस्त्वापगा इव ।
जनास्तूच्चरितं धर्मं विजान्त्यन्यथाऽन्यथा ॥
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे ।
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम् ॥
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः ।
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते ॥
आजिजीविषवो विद्यां यशः कामौ समन्तनः ।
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः ॥
अपक्वमतयो मन्दा न जानन्ति यथातथम् ।
तथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः ॥
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः ।
विज्ञानमथ विद्यानां न सम्यगिति मे मतिः ॥
निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च ।
वागास्तिक्यानुनीताश्च दुग्धविद्याफला इव ॥
तान्विद्यावणिजो विद्धि राक्षसानिव भारत ।
व्याजेन कृत्स्नो विहितो धर्मस्ते परिहास्यते ॥
न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम् ।
इति बार्हस्पत्यविज्ञानं प्रोवाच मघवा स्वयम् ॥
न त्यव वचनं किंचिदनिमित्तादिहोच्यते ।
स्वविनीतेन शास्त्रेण ह्यविद्यः स्यादथापरः ॥
लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः ।
समुद्दिष्टं सतां धर्मं स्वयमूहेत् पण्डितः ॥
अमर्षाच्छास्त्रसंमोहादनिमित्तादिहोच्यते ।
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् ॥
आगमागतया बुद्ध्या वचनेन प्रशस्यते ।
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते ॥
अनुपागतमेवेदं शास्त्रमेवमपार्थकम् ।
दैतेयानुशना प्राह संशयच्छेदनं पुरा ॥
ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत् ।
तेन संच्छिन्नमूलेन कस्तोषयितुमिच्छति ॥
पुनर्व्यवसितं यो वा नेदं वाक्यमुपाश्नुते ।
उग्रायैव हि सृष्टोऽसि कर्मणे तत्त्वमीक्षसे ॥
अग्रे मामन्ववेक्षस्व राजन्योऽयं बुभूषते ।
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते ॥
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् ।
तस्मान्नतैक्ष्ण्याद्भूतानां यात्रा काचित्प्रसिद्ध्यति ॥
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः ।
एषा ह्येव तु मर्यादा यामयं परिवर्जयेत् ॥
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयत्युत ।
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव ।
विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् ।
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् ॥
विहीनजन्मकर्माणि यः प्रगृह्णाति भूमिपः ।
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् ॥
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते ।
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम् ।
उग्रकर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥
`अरुष्टः कस्यचिद्राजन्नेवमेव समाचर ।' अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम् ।
एवं शुक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥
युधिष्ठिर उवाच ।
अस्ति चेदिह मर्यादा यामन्यो नातिलङ्घयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
ब्राह्मणानेव सेवेत विद्याबृद्धांस्तपस्विनः ।
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥
शुश्रूषा तु महाराज सान्त्वं विप्रेषु नित्यदा ।
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥
तेषां प्रीत्या यशो मुख्यमप्रीत्या परमं भयम् ।
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथोरगाः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥

12-142-1 अस्तिस्विदस्य मर्यादा इति ध. पाठः ॥ 12-142-3 एतदागमादेव श्रुत्वा तव धर्मानुशासनं मया कृतमिति नास्ति किंतु प्रज्ञायाः समभिहारो निष्ठा कल्पितेयमित्यर्थः । एतदग्रिहोत्रादिवद्विधेयं न अपितु कविभिरकरणे महान्तं दोषं पश्यद्भिः कल्पितमिति भावः । नैतद्वुध्वाऽऽगमादेवेति ध. पाठः ॥ 12-142-4 ततस्ततः कोकिलवराहवूकसिंहादिभ्यः शिक्षित्वा प्रज्ञाः प्रतिविधातव्याः ॥ 12-142-6 प्रतिविधातव्यश्चिकित्सनीयः ॥ 12-142-7 द्वैधमेकस्यैव कर्मणः क्वचित्काले धर्मत्वं क्वचिदधर्मत्वमिति द्विप्रकारत्वम् । तस्मिन्प्राप्ते तदनभिज्ञः संशयं संकटं प्राप्नोति । अहिंसाया धर्मत्वेऽपि चोररक्षया पापं भवति तद्वदिहं ज्ञेयम् ॥ 12-142-8 सतां मतमिति शेषः ॥ 12-142-11 मुष्णन्ति धर्मशास्त्रविरुद्धमर्थशास्त्रां नादर्तव्यमिति वदन्ति । वैषम्यमप्रामाण्यमधर्मत्वं वा ॥ 12-142-12 शास्त्रचोरनिन्दाप्रसङ्गात्तदुपजीविनोऽपि निन्दति । आजिजीविषव इति सार्धैस्चतुर्भिः ॥ 12-142-14 न सम्यगिति वर्तत इति ट. ड.द. पाठः ॥ 12-142-15 निवर्तनैरविद्यानामिति थ. पाठः । वागस्त्रा वाक्छरीभूता इति झ. ट. पाठः ॥ 12-142-17 वाचा केवलया बुद्ध्या वा केवलेन धर्मवचनं धर्मिश्चयो नास्त्यपितु समुच्चिताभ्यामुभाभ्यां धर्मनिर्णय इत्यर्थः ॥ 12-142-18 अध्यवस्यन्ति चापर इति ट. ड. द. पाठः ॥ 12-142-19 इहलोके तु एके आचार्याः लोकयात्रां तन्निर्वाहमेव धर्मं प्राहुः । साच चोरादीनां वधमन्तरेण न संभवतीत्यवश्यं हिंसापि कर्तव्येति तेषामाशयः । एवंसत्यपि मतभेदे युक्त्यैव धर्मं ऊहेतेत्याह समिति ॥ 12-142-20 तस्मादमर्षादींस्त्यक्त्वा समूहे सभायां शास्त्रं वदेदित्याशयेनाह अमर्षादिति । समूहे यत्प्रदर्शनमिति ध. पाठः ॥ 12-142-21 आगमागतया बुद्ध्या श्रुत्युपगृहीतेन तर्केण सहितं यद्वचनं तेन प्रशस्यते शास्त्रं नान्यतरेण । अन्यस्तु ज्ञानहेतुत्वात् अज्ञातज्ञापकतया वचनं तर्केण हीनं शब्दमेव साधु मन्यते । कुतः अज्ञानात् ॥ 12-142-22 अन्यः पुनः युक्त्या इदं शास्त्रं दूषितं इति हेतोरपार्थकं व्यर्थमिति मन्यते तदप्यज्ञानादेव । तस्मात्तर्केण शास्त्रस्य शास्त्रेण तर्कस्य वा बाधमकृत्वा यदुभयसंमतं तदेवानुष्ठेयमित्युशनसो मतं पूर्वोक्तेन बार्हस्पत्येन ज्ञानेनैक्यं गतमिति दर्शितम् ॥ 12-142-23 अपदिश्यं दिशोर्मध्ये स्थितं कोटिद्वयस्पर्शि ज्ञानं संशयरूपं तद्यथा नास्ति तथैव व्यर्थमित्यर्थः ॥ 12-142-26 अज इति । यथाऽजो यज्ञार्थं नीयते तद्धिताय एवं अश्वक्षत्रियावपि संग्रामार्थं नीयेते तद्धितायैव ॥ 12-142-35 वृत्तिश्चैषा महाबाहो इति ट. ड. थ. पाठः ॥ 12-142-36 ब्राह्मणादर्वागेव दण्डस्य मर्यादा ब्राह्मणस्तु नैव दण्ड्योऽपि तु पूज्य एवेत्याह ब्राह्मणानेवेति ॥