अध्यायः 010

युधिष्ठिरंप्रति भीमसेनवचनम् ॥ 1 ॥

भीम उवाच ।
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः ।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥
आलस्ये कृतचित्तस्य राजधर्मानसूयतः ।
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ॥
क्षमाऽनुकम्पा कारुण्यमानृशंस्यं न विद्यते ।
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ॥
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् ।
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन ॥
भैक्षमेवाचरिष्याम शरीरस्याविमोक्षणात् ।
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ॥
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः ।
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः ।
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ॥
ते सदोषा हताऽस्माभिरन्नस्य परिपन्थिनः ।
तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ॥
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् ।
पङ्कदिग्धो निवर्तेत् कर्मेदं नस्तथोपमम् ॥
यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु ।
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ॥
यथा महान्तमध्वानमाशया पुरुषः पतन् ।
स निराशो निवर्तेत कर्मैतन्नस्तथोपमम् ॥
यथा शत्रून्घातयित्वा पुरुषः कुरुनन्दन ।
आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथोपमम् ॥
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीयाद्यदृच्छया ।
कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथोपमम् ॥
वयमेवात्र गर्ह्या हि यद्वयं मन्दचेतसम् ।
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ॥
वयं हि बाहुबलिनः कृतविद्या मनस्विनः ।
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ॥
अगतीकगतीनस्मान्नष्टार्थनर्थसिद्धये ।
कथं वै नानुपश्येयुर्जनाः पश्यत यादृशम् ॥
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते ।
जरयाऽभिपरीतेन शत्रुभिर्व्यंसितेन वा ॥
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते ।
धर्मव्यतिक्रमं चैव मन्यन्ते सूक्ष्मदर्शिनः ॥
कथं तस्मात्समुत्पन्नास्तन्निष्ठास्तदुपाश्रयाः ।
तदेव निन्दां भाषेयुर्धाता तत्र न गर्ह्यते ॥
श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम् ।
वेदवादस्य विज्ञानं सत्याभासमिवानृत् ॥
शक्यं तु मौनमास्थाय बिभ्रताऽऽत्मानमात्मना । धर्मच्छझ समास्थाय च्यवितुं न तु जीवितुम् ।
शक्यं पुनररण्येषु सुखमेकेन जीवितुम् ।
अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ॥
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः ।
अथान्येन प्रकारेण पुण्यमाहुर्न ते जनाः ॥
यदि संन्यासतः सिद्धिं राजा कश्चिदवाप्नुयात् ।
पर्वताश्च दुमाश्चैव क्षिप्तं सिद्धिमवाप्नुयुः ॥
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः ।
अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः ॥
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्र्नुते ।
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः ।
तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ॥
अवेक्षस्व यथा स्वैः कर्मभिर्व्यापृतं जगत् ।
तस्मात्कर्मैव कर्तव्यं न्प्रस्ति सिद्धिरकर्मणः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि दशमोऽध्यायः ॥ 10 ॥

12-10-1 श्रोत्रियस्य वेदपाठकस्य मन्दत्वादेवाविपश्चितोऽर्थज्ञाशून्यस्य । अनुवाकेन नित्यपाठेन हता नष्टा ॥ 12-10-3 त्वदन्तरे त्वत्तोऽन्यत्र ॥ 12-10-6 प्राणस्य प्राणवतो बलिष्ठस्येदं सर्वमन्नमिवान्नं भोग्यम् । भोजनं भुज्यते पाल्यते इति व्युत्पत्त्या पालनीयम् ॥ 12-10-8 हतास्माभिरिति संधिरार्षः । हत्वा निघ्नन् त्वं । हन्तेरन्येभ्योऽपि दृश्यत इति क्वनिप् अनुनासिकलोपो ह्रस्वस्येति तुक् । राज्यस्य परिपन्थिन इति झ. पाठः ॥ 12-10-9 तथा तेन प्रकारेणोपमीयत इति तथोपमम् ॥ 12-10-11 पतन् गच्छन् 12-10-15 अशक्तयः शक्तिहीनाः ॥ 12-10-16 अगतीकगतीननाथरक्षकान् । दैर्ध्यमार्षम् । एतत् यादृशं मम वचनं तादृशं पश्यत ।युक्तमयुक्तं वेति परीक्षयतेत्यर्थः ॥ 12-10-17 व्यंसितेन दुर्गतिंप्रापितेन ॥ 12-10-18 त्यागं संन्यासम् । क्षत्रियस्य मौण्ड्यादिकं निषिद्धं तस्याचरणे धर्मव्यतिक्रमोऽस्त्येवेति भावः ॥ 12-10-19 हिंसार्थमुत्पन्ना हिंस्नयोनौ जाताः । हिंसैकजीवनास्तदेव तस्यैव हिंस्नधर्मस्य निन्दां कथं भाषेयुः । कथं वा तत्र धाता तस्य धर्मस्य स्नष्टा न गर्ह्यते न निन्द्यते । धातृविहितत्वात्सहजत्वाच्च नासौ धर्मो निन्द्य इत्यर्थः । तएव भूषयेयुर्ये ते श्रद्धाह्यत्र गर्ह्यते इति द. पाठः ॥ 12-10-20 श्रिया विहीनैरनयैर्नास्तिकैः संप्रकीर्तितम् । वेदाभासमिवाज्ञानमिति थ. पाठः । श्रिया त्रय्या विद्यया विहीनैः । अधनैर्लक्ष्म्या च हीनैः । इदमनृतं संप्रवर्तितम् । वेदयतीति वेदो विधिस्तस्य वादोऽर्थवादस्तत्संबन्धि विज्ञानं संन्यासविधिस्तुत्यर्थं भरतादिकीर्तनं प्रजापतिवपोत्खननवदर्थवादो नतु तावता मौण्ड्ये क्षत्रियस्याधिकारः सिध्यतीति भावः ॥ 12-10-21 आत्मानं देहमात्मना स्वेनैव बिभ्रता निश्चलं स्थापयता धर्मच्छझ कपटयोगं आस्थाय च्यवितुं मर्तुमेव शक्यं न जीवितुम् । केवलं प्रणिधानेन शरीरनाशो भवेदित्यर्थः ॥ 12-10-26 आत्मभाग्येषु स्वसंपत्सु अन्येषां सिद्धिं परकर्मार्जितं फलम् ॥