अध्यायः 145
पत्नीचोदितेन कपोतेन शुष्कपर्णैः पावकसंदीपनेन व्याधस्य शैत्यापनोदनपूर्वकं पुनः स्वेन तदभीष्टकरणप्रतिज्ञा ॥ 1 ॥ तेन तस्य क्षुन्निवृत्तिप्रार्थने फलादिकं किमप्यलभमानेन कपोतेन स्वमांसेन तदीयक्षुत्परिजिहीर्षयाऽग्नौ प्रवेशनम् ॥ 2 ॥
भीष्म उवाच ।
सपत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः ॥
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा ।
स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम् ॥
उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते ।
सतांपश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि ।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥
शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः ।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।
तस्य नायं न च परो लोको भवति धर्मतः ॥
तद्ब्रूहि मां सुविस्रब्धो यत्त्वं वाचा वदिष्यसि ।
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।
बाधते खलु मां शीतं संत्राणं हि विधीयताम् ॥
एवमुक्तस्तनः पक्षी पर्णान्यास्तीर्य भूतले ।
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥
स---वाऽङ्गारकर्मान्तं गृहीत्वाऽग्निमथागमत् ।
तथा शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत् ॥
स--प्तं महत्कृत्वा तमाह शरणागतम् ।
----- सुविस्रब्धः स्वगात्राण्यकुतोभयः ॥
-- तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् ॥
हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः ।
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा ॥
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहंगमः ॥
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव ।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥
संचयो नास्ति चास्माकं मुनीनामिव कानने ।
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत् ॥
कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा ।
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥
मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम् ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥
इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम् ।
हर्षेण महताऽऽविष्टः कपोतः पुनरब्रबीत् ॥
ऋषीणां देवतानां च पितृणां च महात्मनाम् ।
युतः पूर्वं मया धर्मो महानतिथिपूजने ॥
कुरुष्वानुग्रहं सौम्य सत्यमेतद्ब्रबीमि ते ।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥
ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव ।
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः ॥
अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा च पक्षिणम् ।
चिन्तयामास मनसा किमिदं वै मया कृतम् ॥
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा ।
अधर्मः सुमहान्धोरो भविष्यति न संशयः ॥
एवं बहुविधं भूरि विललाप स लुब्धकः ।
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथाऽऽगतम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥
12-145-3 संकोचश्च न कर्तव्य इति थ. पाठः ॥ 12-145-11 अङ्गारकर्मान्तं कर्मारगृहसमीपम् ॥