अध्यायः 150
शौनकेन जनमेजयप्रार्थनया तदीयब्रह्महत्यापनोदनाङ्गीकरणम् ॥ 1 ॥
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजयः ।
गर्ह्यं भवान्गर्हयते निन्द्यं निन्दति मां पुनः ॥
धिक्कार्यं मां धिक्कुरुते तस्मात्त्वाऽहं प्रसादये ।
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितम् ॥
स्वकर्माण्यभिसंधाय नाभिनन्दति मे मनः ।
प्राप्तं घोरं भयं नूनं मया वैवस्वतादपि ॥
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् ।
सर्वं मन्युं विनीय त्वमभि मां वद शौनक ॥
[महानासं ब्राह्मणानां भूयो वक्ष्यामि सांप्रतम् ।]
`गन्ता गतिं ब्राह्मणानां भविष्याम्यर्थवान्पुनः ।'
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ॥
न हि नो ब्रह्मशप्तानां शेषं भवितुमर्हति ।
स्तुतीरलभमानानां संविदं वेद निश्चयात् ॥
निन्दमानः स्वमात्मानं भूयो वक्ष्यामि सांप्रतम् ।
भूयश्चैवाभिमज्जन्ति निर्धर्मा निर्जला इव ॥
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथंचन ।
अवाक्च प्रपतिष्यन्ति पुलिन्दशवरा इव ॥
अविज्ञायैव मे प्रज्ञां बालस्येव स पण्डितः ।
ब्रह्मन्पितेव पुत्रस्य प्रीतिमान्भव शौनक ॥
शौनक उवाच ।
किमाश्चर्यं यतः प्राज्ञो बहुकुर्यादसांप्रतम् ।
इति वै पण्डितो भूत्वा भूतानां को नु तप्यते ॥
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् ।
जगतीस्थानिवाद्रिस्थः प्रज्ञया प्रतिपत्स्यति ॥
न चोपलभते कश्चिन्न चाश्चर्याणि पश्यति ।
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ॥
विदित्वा भवतो वीर्यं माहात्म्यं चैव चागमे ।
कुरुष्वेह यथाशान्ति ब्रह्मा शरणमस्तु ते ॥
तद्वै वारित्रकं तात ब्राह्मणानामकुप्यताम् ।
अथवा तप्यसे पापे धर्मं चेदनुपश्यसि ॥
जनमेजय उवाच ।
अनुतप्ये च पापेन न चाधर्मं चराम्यहम् ।
बुभूषेद्भजमानं च प्रीतिमान्भव शौनक ॥
शौनक उवाच ।
छित्त्वा दम्भं च मानं च प्रीतिमिच्छामि ते नृप ।
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मरन् ॥
न भयान्न च कार्पण्यान्न लोभात्त्वामुपाह्वये ।
तां मे दैवीं गिरं सत्यां शृणु त्वं ब्राह्मणैः सह ॥
सोऽहं न केनचिच्चार्थी त्वां च धर्मादुपाह्वये ।
क्रोशतां सर्वभूतानां हाहाधिगिति जल्पताम् ॥
वक्ष्यन्ति मामधर्मज्ञं त्यक्ष्यन्ति सुहृदो जनाः ।
ता वाचः सुहृदः श्रुत्वा संज्वरिष्यन्ति मे भृशं ॥
केचिदेव महाप्राज्ञाः प्रतिज्ञास्यन्ति कार्यताम् ।
जानीहि मत्कृतं तात ब्राह्मणान्प्रति भारत ॥
यथा ते सत्कृताः क्षेमं लभेरंस्त्वं तथा कुरु ।
प्रतिजानीहि चाद्रोहं ब्राह्मणानां नराधिप ॥
जनमेजय उवाच ।
नैव वाचा न मनसा पुनर्जातु न कर्मणा ।
द्रोग्धाऽस्मि ब्राह्मणान्विप्र चरणावेव ते स्पृशे ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥
12-150-2 त्वा त्वाम् ॥ 12-150-5 ब्राह्मणानां भक्त इति
शेषः ॥ 12-150-8 पुलिन्दाः शबराः म्लेच्छभेदाः ॥ 12-150-9 ब्रह्मन्ब्राह्मण ॥ 12-150-10 साधुषु निर्विण्णात्मा विरक्तः परोक्षस्तद्दृष्टिपथादपेतः तैश्च
धेक्कृतः सः प्रज्ञानं चोपलभते । तत्सङ्गं विना प्रज्ञा दुर्लभैवेत्यर्थः ॥ 12-150-13 ब्रह्मा ब्राह्मणः शरणं रक्षिता । यथाशान्ति शान्तिमनतिक्रम्य ॥ 12-150-17 उपाह्वये शिष्यं करोमीत्यर्थः ॥ 12-150-18 शैनकं पापिष्ठसंग्रहीतारं
धिगिति जल्पतां ताननादृत्य उपाह्वये इत्यर्थः ॥