अध्यायः 151

शौनके जनमेजयस्याश्वमेधयाजनेन तदीयब्रह्महत्यापनोदनपूर्वकं राज्ये प्रतिष्ठापनम् ॥ 1 ॥

शौनक उवाच ।
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे ।
श्रीमन्महाबलस्तुष्टः स्वयं धर्ममवेक्षसे ॥
पुरस्ताद्दारुणे भूत्वा सुचित्रतरमेव तत् ।
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः ॥
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति । यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि ।
दर्पं हित्वा पुनश्चापि भोगांश्च तप आस्थितः ।
इत्येतदभिभूतानामद्भुतं जनमेजय ॥
योऽदुर्बलो भवेद्दाता कृपणो वा तपोधनः ।
अनाश्चर्यं तदित्याहुर्नातिदूरेण वर्तते ॥
तप एव हि कार्पण्यं समग्रमसमीक्षितम् ।
तच्चेत्समीक्षयैव स्याद्भवेत्तस्मिंस्तपो गुणः ॥
यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते ।
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥
तदेव राज्ञां परमं पवित्रं जनमेजय ।
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् ।
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना ॥
यो मर्त्यः प्रतिपद्येत आयुर्जीवेन वा पुनः ।
यज्ञमेकं ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥
पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥
यत्रावगाह्य स्थित्वा च नैनं श्वोमरणं तपेत् ।
महासरः पुष्कराणि प्रभासोत्तरमानसे ॥
कालोदकं च गन्तासि लब्धायुर्जीविते पुनः । सरस्वतीदृषद्वत्योः सेवमानोऽनुसंज्वरेत् ।
स्वाध्यायशील एतेषु सर्वेष्वेवमुपस्पृशेत् ॥
त्यागधर्मं पवित्राणां संन्यासं मनुरब्रवीत् ॥
अत्राप्युदाहरन्तीमाः गाथाः सत्यवता कृताः । यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत ।
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥
एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् । त्यजतां जीवितं प्रायो निवृत्ते पुण्यपापके ।
यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते ॥
बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ।
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः ॥
ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ।
यथैवैतान्पुरा क्षेप्सीस्तथैवैतान्प्रसादय ॥
अपि धिक््क्रियमाणोऽपि तर्ज्यमानोऽप्यनेकधा । आत्मनो दर्शनं विद्वान्नाहर्ताऽस्मीति मा क्रुधः ।
घटमानः स्वकार्येषु कुरु निःश्रेयसं परम् ॥
हिमाग्निघोरसदृशो राजा भवति कश्चन ।
लाङ्गलाशिकल्पो वा भवेदन्यः परंतपः ॥
न विशेषेण गन्तव्यमचिकित्सेन वा पुनः ।
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ॥
विकर्मणा तप्यमानः पापात्पापः प्रमुच्यते ।
नैतत्कुर्या पुनरिति द्वितीयात्परिमुच्यते ॥
चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ।
शुचिस्तीर्थान्यनुचरन्बहुत्वात्परिमुच्यते ॥
कल्याणमनुकर्तव्यं पुरुषेण बुभूषता ।
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ये ।
तपश्चर्यापरः सत्यं पापाद्विपरिमुच्यते ॥
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ।
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥
महासरः पुष्कराणि प्रभासोत्तरमानसे ।
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते ॥
यावतः प्राणिनो हन्यात्तज्जातीयांस्तु तावतः ।
प्रमीयमाणानुन्मोच्य प्राणिहा विप्रमुच्यते ॥
अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम् ।
यथाऽश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा ।
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥
बृहस्पतिं देवगुरुं सुरासुराः समेत्य सर्वे नृपते त्वयुज्जत ।
धर्मे फलं हेतुकृते महर्षे तथेतरस्मिन्नरके पापलोक्ये ॥
उभे तु यस्य सुकृते भवेतां किं तत्तयोस्तत्र जयोत्तरं स्यात् ।
आचक्ष्व तत्कर्मफलं महर्षे कथं पापं नुदते धर्मशीलः ॥
बृहस्पतिरुवाच ।
कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि चेत्कुरुते बुद्धिपूर्वम् ।
स तत्पापं नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्त्या ॥
पापं कृत्वा हि मन्येत नाहमस्तीति पुरुषः ।
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥
छिद्राणि वसनस्येव साधुना संवृणोति सः ।
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥
आदित्यः पुनरुद्यन्वा तमः सर्वं व्यपोहति ।
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति ॥
भीष्म उवाच ।
एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम् ।
याजयामास विधिवद्वाजिमेधेन शौनकः ॥
ततः स राजा व्यपनीतकल्मषः श्रिया युतः प्रज्वलितोऽनुरूपया ।
विवेश राज्यं स्वममित्रकर्शनो यथा दिवं पूर्णवपुर्निशाकरः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

12-151-4 अभिभूतानामधर्मेणेति शेषः ॥ 12-151-12 अत्रावगाह्य पीत्वा चेति झ. थ. पाठः ॥ 12-151-14 पवित्राणां पावनानां मध्ये त्यागधर्मं दानात्मकं धर्मं पवित्रतरं संन्यासं तु परं धर्मं ततोऽप्यधिकं मनुरब्रवीत् ॥ 12-151-15 कुमारो बालः सत्यो रागद्वेषशून्यत्वात् । तथा तिष्ठेदित्यर्थः ॥ 12-151-18 बलेन धैर्येण । संविभागैर्दानैः । ओज इन्द्रियपाटवम् ॥ 12-151-21 हिमवच्छीतलः । अग्निवत््क्रूरः । घोरो यमस्तद्वद्गुणदोषविचारकः । लाङ्गवद्दुष्टमूलोन्मूलनपरः । अशनिवदाकस्मिकपातो दुष्टेषु हिमाग्निघोषसदृश इति द. पाठः ॥ 12-151-23 सकृत्कृतात्पापात्पश्चात्तापमात्रेण मुच्यते । द्विरावृत्तात्पुनर्न करिष्यामीति नियमग्रहणमात्रेण । त्रिरावृत्ताद्यत्किंचिद्धर्मस्वीकारमात्रेण । बहुकृत्वेति तदभ्यस्तात्तु तीर्थादिना मुच्यत इति श्लोकद्वयार्थः । पादात्पापस्य मुच्यत इति ट. पाठः ॥ 12-151-30 अघमर्षणमृतं च सत्यं चेति ऋक्त्रयम् ॥ 12-151-32 फलं दुःखम् ॥ 12-151-33 यस्य योगिन उभे अपि सुखदुःखे ॥ 12-151-35 कर्तृत्वाभिमानशून्यः पापं कुर्वन्नपि न करोत्येवेत्यर्धस्यार्थः ॥ 12-151-36 संवृणोति विधत्ते ॥