अध्यायः 152

वैदिशनाम्नि नगरे केषुचिद्ब्राह्मणेषु मृतबालं श्मशानमुपनीय गृध्रजम्बुकवचनैर्ढौलायमानमानसतथा चिन्तयत्सु तत्र यदृच्छासमागतपरमेश्वरेण पार्वतीचोदनया मृतबालकोज्जीवनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
कच्चित्पितामहेनासीच्छ्रुवं वा दृष्टमेव च ।
कच्चिन्मर्त्यो मृतो राजन्पुनरुज्जीवितोऽभवत् ॥
भीष्म उवाच ।
शृणु पार्थ यथावृत्तमितिहासं पुरातनम् ।
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरे ॥
कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः ।
बाल एव विशालाक्षो बालग्रहनिपीडितः ॥
दुःखिताः केचिदादाय बालमप्राप्तयोवनम् ।
कुलसर्वस्वभूतं वै रुदन्तः शोककर्शिताः ॥
बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः ।
अङ्गेनाङ्गं समाक्रस्य रुरुदुर्भृशदुःखिताः ॥
शोचन्तस्तस्य पूर्वोक्तान्भाषितांश्चासकृत्पुनः ।
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः ॥
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ।
प्रेतात्मकमिमंकाले त्यक्त्वा गच्छत माचिरम् ॥
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह ।
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः ॥
संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् ।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥
गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् ।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता ।
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति ॥
दिशान्तोपचितो यावदस्तं गच्छति भास्करः ।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप ।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥
विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः । [मृत इत्येव गच्छन्तो निराशास्तस्य दर्शने ॥]
निश्चितार्थाश्च ते सर्वे संत्यजन्तः स्वमात्मजम् ।
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः ॥
ध्वाङ्क्षपक्षसवर्णस्तु बिलान्निःसृत्य जम्बुकः ।
गच्छमानान्स्म तानाह निर्घृणाः खलु मानुषाः ॥
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
बहुरूपो मुहूर्ताच्च जीवेदपि च बालकः ॥
दर्भान्भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः ।
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः ॥
न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि ।
यस्य भाषितमात्रेण प्रसादमधिगच्छत ॥
न पश्यध्वं सुतस्नेहो यादृशः पशुपक्षिणाम् ।
न तेषां धारयित्वा तान्कश्चिदस्ति फलागमः ॥
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् ।
परलोकगतिस्थानां मुनियज्ञक्रियामिव ॥
तेषां पुत्राभिरामाणामिह लोके परत्र च ।
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च ॥
अपश्यतां प्रियान्पुत्रान्येषां शोको न तिष्ठति ।
न ते पोषणसंप्रीता मातापितर एव हि ॥
मानुषाणां कुतः स्नेहो येषां शोको न विद्यते ।
इमं कुलकरं पुत्रं त्यक्त्वा क्व नु गमिष्यथ ॥
चिरं मुञ्चत बाष्पं च चिरं स्नेहेनन पश्यत ।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥
क्षीणस्याथामिशस्तस्य श्मशानाभिमुखस्य च ।
बान्धवा यत्र तिष्ठति तत्रान्यो नाधितिष्ठति ॥
सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति ।
तिर्यग्योनिष्वपि संतां स्नेहं पश्यत यादृशम् ॥
त्यक्त्वा कथं गच्छथेमं पद्मलोलायतेक्षणम् । यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ।
जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः ।
न्यवर्तन्त तदा सर्वे बालार्थं ते स्म मानुषाः ॥
गृध्र उवाच ।
अहो बत नृशंसेन जम्बुकेनाल्पमेधसा ।
क्षुद्रेणोक्ता हीनसत्वा मानुषाः किं निवर्तथ ॥
पञ्चभूतपरित्यक्तं शुष्कं काष्ठत्वमागतम् ।
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ॥
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् ।
तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥
अनिष्टानि न भाग्यानि जानीत स्वंस्वमात्मना ।
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम् ॥
धनं गावः सुवर्णं च मणिरत्नमथापि च ।
अपत्यं च तपोमूलं तपो योगाच्च लभ्यते ॥
यथा कृता च भूतेषु प्राप्यते सुखदुःखिता ।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥
न कर्मणा पितुः पुत्रः पिता व्रा पुत्रकर्मणा ।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः ॥
धर्मं चरत यत्नेन तथाऽधर्मान्निवर्तत ।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत ।
त्यज्यतामयमाक्रोशस्ततः शीघ्रं निवर्तत ॥
यत्करोति शुभं कर्म तथा कर्म सुदारुणम् ।
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह ॥
इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् ।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ ।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥
यौवनस्थांश्च बालांश्च बृद्धान्गर्भगतानपि ।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ॥
जम्बुक उवाच ।
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना ।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥
समैः सम्यक्प्रयुक्तैश्च वचनैर्हेतुदर्शनैः । `सर्वमेतत्प्रपद्याशु कुरुध्वं वा विचारणां ।'
यद्गच्छथ जलस्थानं स्नेहमुत्सृज्य दुस्त्यजम् ॥
अहो पुत्रवियोगेन मृतशून्योपसेवनात् ।
क्रोशतां वा भृशं दुःखं विवत्सानां गवामिव ॥
अद्य शोकं विजानामि मानुषाणां महीतले ।
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन् ॥
यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति ।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् ।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम् ॥
आत्ममांसोपवृत्तं च शरीरार्धमर्यी तनुम् ।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥
अथवाऽस्तं गते सूर्ये संध्याकाल उपस्थिते ।
ततो नेष्यश्च वा पुत्रमिहस्था वा भविष्यथ ॥
गृध्र उवाच ।
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः ।
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ॥
मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च ।
चंक्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे ॥
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि ।
जङ्गमाजङ्गमानां च ह्यायुरग्रेऽवतिष्ठते ॥
इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा ।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः ॥
अनिष्टानां सहस्राणि तथेष्टानां शतानि च ।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः ।
अन्यदेहविषक्तं हि शिशुं काष्ठमुपासथ ॥
त्यक्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छत ।
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः ॥
न च क्षुर्भ्यां न कर्णाभ्यां च शृणोति स पश्यति ।
कस्मादेनं सप्नुत्सृज्य न गृहान्गच्छताशु वै ॥
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः ।
भयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥
प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना ।
वच्चं श्राविता नूनं मानुषाः संनिवर्तथ ॥
[शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् । इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः ।
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः ॥]
जम्बुक उवाच ।
इमं कनकवर्णाभं भूषणैः समलंकृतम् ।
गृध्रवाक्यात्कथं पुत्रं त्यक्ष्यध्वं पितृपिण्डदम् ॥
न स्नेहस्य च विच्छेदो विलापरुदितस्य च ।
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ॥
श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः ।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥
तथा श्वैत्यस्य राजर्षेर्बालो दिष्टान्तमागतः ।
मुनिना धर्मनिष्ठेन मृतः संजीवितः पुनः ॥
तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा ।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥
इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः । अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् ।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ॥
अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः ।
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः ॥
`तपसाऽपि हि संयुक्तो जनः कालेन हन्यते । सर्वस्नेहावसक्तानामिदं हि स्नेहवर्तनम् ॥'
बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः ।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥
अलं निर्बन्धमागत्य शोकस्य परिवारणम् ।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥
`नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् ।' मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ॥
नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि ।
न स जीवयितुं शक्यो बालो वर्षशतैरपि ॥
अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च ।
वरमस्मै प्रयच्छन्ति ततो जीवेदयं शिशुः ॥
नैव बाष्पविमोक्षेण न वा श्वासकृतेन च ।
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति ॥
अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः ।
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ॥
अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ।
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत् ॥
धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम् ।
अजिह्नत्वमशाठ्यं च यत्नतः परिमार्गत ॥
मातरं पितरं वाऽपि बान्धवान्सुहृदस्तथा ।
जीवतो ये न पश्यति तेषां धर्मविपर्ययः ॥
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन ।
तस्य निष्ठावसानान्ते रुदन्ताः किं करिष्यथ ॥
इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः ।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम् ॥
जम्बुक उवाच ।
दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः ।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम् ॥
बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम् । इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम् ।
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ॥
अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा ।
कथं गच्छथ निःस्नेहाः सुतस्नेहं विसृज्य च ॥
प्रदीप्ताः पुत्रशोकेन सन्निवर्तथ मानुषाः ।
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
सुखदुःखावृते लोके नास्ति सौख्यमनन्तकम् ॥
इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम् ।
कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ॥
रूपयौवनसंपन्नं द्योतमानमिव श्रिया ।
जीवन्तमेव पश्यामि मनसा नात्र संशयः ॥
विनाशेनास्य न हि वै सुखं प्राप्स्यथ मानुषाः ।
पुत्रशोकाभितप्तानां मृतमप्यद्य वः क्षमम् ॥
दुःखसंभावनं कृत्वा धारयित्वा सुखं स्वयम् ।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥
भीष्म उवाच ।
तथा धर्मविरोधेन प्रियमिथ्याभिधायिनाम् ।
श्मशानवासिना नित्यं रात्रिं मृगयता नृप ॥
ततो मध्यस्थतां नीता वचनैरमृतोपमैः ।
जम्बुकेन स्वकार्यार्थं बान्धवास्तत्र वारिताः ॥
गृध्र उवाच ।
अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः ।
दारुणः काननोद्देशः कौशिकैरभिनादितः ॥
भीमः सुघोरश्च तथा नीलमेघसमप्रभः ।
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ॥
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः ।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम् ।
मृगेन्द्राः प्रतिनर्दन्ति रविरस्तं च गच्छति ॥
चिता धूमेन नीलेन संरज्यन्ते च पादपाः ।
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः ॥
सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे ।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः ॥
क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति ।
त्यज्यतां काष्ठभूतोऽयं मुच्यतां जाम्बुकं वचः ॥
यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च ।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ॥
जम्बुक उवाच ।
स्थीयतां वो न भेतव्यं यावत्तपति भास्करः ।
तावदस्मिन्सुते स्नेहादनिर्वेदेन वर्तत ॥
स्वैरं रुदन्तो विस्रब्धाश्चिरं स्नेहेन पश्यत ।
`दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति ॥
अयं सौम्यो वनोद्देशः पितृणां निधनाकरः ।' स्थीयतां यावदादित्यः किंवः क्रव्यादभाषितैः ॥
यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च ।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥
भीष्म उवाच ।
गृध्रो नास्तमितेऽभ्येति तिष्ठेन्नक्तं च जम्बुकः ।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥
स्वकार्यबद्धकक्षौ तौ राजन्गृध्रोऽथ जम्बुकः ।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥
तयोर्विज्ञानविदुषोर्द्वयोर्मृगपतत्रिणोः ।
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ते व्रजन्ति च ॥
शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा ।
स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् ॥
तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः ।
बान्धवानां स्थितानां चाप्युपातिष्ठत शंकरः ॥
देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः ।
ततस्तानाह मनुजान्वरदोऽस्मीति शंकरः ॥
ते प्रत्यूचुरिदं वाक्य दुःखिताः प्रणताः स्थिताः । एकपुत्रविहीनानां सर्वेष्नां जीवितार्थिनाम् ।
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ॥
एवमुक्तः स भगवान्वारिपूर्णेन पाणिना ।
जीवं तस्मै कुमाराय प्रादाद्वर्षशतानि वै ॥
तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम् ।
वरं पिनाकी भगवान्सर्वभूतहिते रतः ॥
ततः प्रणम्य ते देवं श्रेयोहर्षसमन्विताः ।
कृतकृत्याः सुसंहृष्टाः प्रातिष्ठन्त तदा विभो ॥
अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च ।
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥
पश्य दैवस्य संयोगं बान्धवाना च निश्चयम् ।
कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम् ॥
पश्य चाल्पेन कालेन निश्चयाध्वेषणेन च ।
प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन् ॥
ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः ।
बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै ॥
ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम् ।
विविशुः पुत्रमादाय नगरं हृष्टमानसाः ॥
एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता ॥
धर्मार्थमोक्षसंयुक्तमितिहासं पुरातनम् ।
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विपञ्चाशदधिकशततमोऽध्यायः ॥ 152 ॥

12-152-2 यो वृत्तो नैमिषे पुरेति झ. पाठः ॥ 12-152-5 अङ्केनाङ्कं समाक्रम्येति ड. थ. पाठः ॥ 12-152-7 एकात्मकमिदं लोके इति थ. ध. पाठः ॥ 12-152-8 किं तैर्वैयातबान्धवा इति थ. ध. पाठः ॥ 12-152-12 न पुनर्जीवते कश्चिदिति ड. थ. द. पाठः ॥ 12-152-13 जीवलोके प्रसूयतेति थ. द. पाठः ॥ 12-152-14 दिशान्तोपरते काले चास्तं गच्छति भास्कर इति ध. पाठः ॥ 12-152-22 न मे संधारयित्वा तु इति ध. पाठः ॥ 12-152-47 यद्रच्छति जनश्चायमिति झ. पाठः ॥ 12-152-69 कश्चिल्लभेत्सिद्ध इति झ. पाठः ॥ 12-152-72 तपसा पि हि संयुक्ता धनवन्तो महाधियः । सर्वे मृत्युवशं यान्ति तदिदं प्रेतपत्तनमिति झ. पाठः ॥ 12-152-77 वरमस्मै प्रयच्छेयुस्तत इति झ. पाठः ॥ 12-152-95 बान्धवास्तस्य धारिता इति थ. पाठः ॥ 12-152-104 वः युष्माभिः ॥ 12-152-108 गृध्रोऽस्तमिस्याह गतो गतो नेचि च जम्बुकः इति झ. पाठः ॥ 12-152-119 बान्धवानां च सत्यतामिति द. पाठः ॥