अध्यायः 154

नारदेन शाल्मलिप्रति पर्वतादिभञ्जकेनापि वायुना तदीयशाखाया अप्यभञ्जने कारणप्रश्ने तेन साधिक्षेपमात्मशाखाभञ्जने वायोरशक्तिकथनम् ॥ 1 ॥

नारद उवाच ।
बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः ।
कस्मात्त्वां रक्षते नित्यं भीमः सर्वत्रगोऽनिलः ॥
तद्भावं परमं वायोः शाल्मके त्वमुपागतः ।
तवाहमस्मीति सदा येन रक्षति मारुतः ॥
न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम् ।
यं न वायुबलाद्भग्नं पृथिव्यामिति मे मतिः ॥
त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा ।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥
शाल्मलिरुवाच ।
न मे वायुः सखा ब्रह्मन्न बन्धुर्मम नारद ।
चिरं मे प्रीयते नैव येन मां रक्षतेऽनिलः ॥
मम तेजोबलं भीमं वायोरपि हि नारद ।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥
आगच्छन्परुषो वायुर्मया विष्टम्भितो बलात् ।
भञ्जन्द्रुमान्पर्वतांश्च यच्चान्यत्स्थाणुजङ्गमम् ॥
स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः ।
तस्मान्न विभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥
नारद उवाच ।
शाल्मले विपरीतं ते दर्शनं नात्र संशयः ।
न हि वायोर्बले नास्ति भूतं तुल्यबलं क्वचित् ॥
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः ।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥
यश्च कश्चिदपि प्राणी चेष्टते शाल्मले भुवि ।
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ॥
एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः ।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु ॥
स त्वमेवंविधं वायुं सर्वसत्वभृतां वरम् ।
न पूजयसि पूज्यन्तं किमन्यद्वुद्धिलाघवात् ॥
असारश्चापि दुर्मेधाः केवलं बहु भाषसे ।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले ॥
मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति ।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥
चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः । वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः ।
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः ॥
तेऽपि जानन्ति वायोश्च बलमात्मन एव च ।
तस्मात्ते नावमन्यन्ते श्वसनं तरुसत्तमाः ॥
त्वं तु मोहान्न जानीपे वायोर्बलमनन्तकम् ।
एवं तस्माद्गमिष्यामि सकाशं मातरिश्वनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥

12-154-2 न्यग्भावं परमं वायोरिति झ. पाठः ॥ 12-154-5 परमेष्ठी तथा नैव येन रक्षति वानिल इति झ. पाठः ॥