अध्यायः 155

नारदसूचितेन वायुना शाल्मलिमेत्य परेद्युस्तद्भञ्जनप्रतिज्ञानम् ॥ 1 ॥ वायुबलज्ञेन शाल्मलिना तदागमनात्प्रागेव स्वेनैव स्वीयशाखावशातनपूर्वकमवस्थानम् ॥ 2 ॥ परेद्युरागतेन वायुना तंप्रति तत्कृतशाखावशातनस्यापि स्वबलप्रयोज्यत्वोक्तिः ॥ 3 ॥

भीष्म उवाच ।
एवमुक्त्वा तु राजेन्द्र शाल्मलिं ब्रह्मवित्तमः ।
नारदः पवने सर्वं शाल्मलेर्वाक्यमब्रवीत् ॥
नारद उवाच ।
हिमवत्पृष्ठजः कश्चिच्छाल्मलिः परिवारवान् ।
बृहन्मूलो बृहच्छायः स त्वां वायोऽवमन्यते ॥
बहुव्याक्षेपयुक्तानि त्वामाह वचनानि सः ।
न युक्तानि मया वायो तानि वक्तुं तवाग्रतः ॥
जानामि त्वामहं वायो सर्वप्राणभृतां वरम् ।
वरिष्ठं च गरिष्ठं च सर्वलोकेश्वरं प्रभुम् ॥
भीष्म उवाच ।
एतत्तु वचनं श्रुत्वा नारदस्य समीरणः ।
शाल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥
वायुरुवाच ।
शाल्मले नारदो गच्छंस्त्वयोक्तो मद्विगर्हणम् ।
अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥
नाहं त्वां नाभिजानामि विदितश्चासि मे द्रुम् ।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥
तस्य विश्रमणादेव प्रसादौ मत्कृतस्तव ।
अभूत्तस्य प्रसादात्त्वां न भज्यामि द्रुमाधम् ॥
यन्मां त्वमवजानीषे यथाऽन्यं प्राकृतं तथा ।
दर्शयाम्येष चात्मानं यथा मां नावमन्यसे ॥
भीष्म उवाच ।
एवमुक्तस्ततः प्राह शाल्मलिः प्रहसन्निव ।
पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ॥
मयि वै मुच्यतां क्रोधः किं मे क्रुद्धः करिष्यसि । न ते बिभेमि पवन यद्यपि त्वं स्वयं प्रभुः ।
बलाधिकोऽहं त्वत्तश्च न भीः कार्या मया तव ॥
ये तु बुद्ध्या हि बलिनस्ते भवन्ति बलीयसः ।
प्राणमात्रबला ये वै नैव ते बलिनो मताः ॥
इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः ।
दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ॥
अथ निश्चित्य मनसा शाल्मलिर्वैरधारणम् ।
पश्यमानस्तदात्मानमसमं मातरिश्वना ॥
नारदे यन्मया प्रोक्तं वचनं प्रति तन्मृषा ।
असमर्थो ह्यहं वायोर्बलेन बलवान्हि सः ॥
मारुतो बल्यान्नित्यं यथा वै नारदोऽब्रवीत् ।
अहं तु दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ॥
किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः ।
तदहं बुद्धिमास्थाय भयं त्यक्ष्ये समीरणात् ॥
यदि तां बुद्धिमास्थाय तिष्ठेयुः पर्णिनो वने ।
अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ॥
ते तु बाला न जानन्ति यथा नैतान्समीरणः ।
समीरयेत संक्रुद्धो यथा जानाम्यहं तथा ॥
भीष्म उवाच ।
ततो निश्चित्य मनसा शाल्मलिः क्षुभितस्तदा ।
शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥
स परित्यज्य शाखाश्च पत्राणि कुसुमानि च ।
प्रभाते वायुमायान्तं प्रेक्षते स्म वनस्पतिः ॥
ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् ।
आजगामाथ तं देशमास्ते यत्र स शाल्मलिः ॥
तं हीनपर्णं पतिताग्रशाखं निशीर्णपुष्पं प्रसमीक्ष्य वायुः ।
उवाच वाक्यं स्ययमान एवं मुदायुतः शाल्मलिं रुग्णशाखम् ॥
वायुरुवाच ।
अहमप्येवमेव त्वां कुर्यां वै शाल्मले रुपा ।
आत्मना यत्कृतं कृच्छ्रं शाखानामपकर्पणम् ॥
हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशकः ।
आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगः कृतः ॥
भीष्म उवाच ।
एतच्छ्रुत्वा वचो वायोः शाल्मलिर्व्रीडितस्तदा ।
अतप्यत वचः स्मृत्वा नारदो यत्तदाऽब्रवीत् ॥
एवं हि राजशार्दूल दुर्बलः सन्वलीयसा ।
वैरमासञ्जते बालस्तप्यते शाल्मलिर्यथा ॥
तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः ।
शोचेद्धि वैरं कुर्वाणो यथा वै शाल्मलिस्तथा ॥
न हि वैरं महात्मानो विवृण्वन्त्यपकारिषु ।
शनैः शनैर्महाराज दर्शयन्ति स्म ते बलम् ॥
वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना ।
बुद्धिर्वुद्धिमतो याति तूलष्विव हुताशनः ॥
न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप ।
तथा बलेन राजेन्द्र न समोऽस्तीह कश्चन ॥
तस्मात्क्षमेत बालाय जडान्धवधिराय च ।
बलाधिकाय राजेन्द्र तद्दृष्टं त्वयि शत्रुहन् ॥
अक्षौहिण्यो दशैका च सप्त चैव महाद्युते ।
बलेन न समा राजन्नर्जुनस्य महात्मनः ॥
निहताश्चैव भग्नाश्च पाण्डवेन यशस्विना ।
चरता बलमास्थाय पाकशासनिना मृधे ॥
उक्ताश्च ते राजधर्मा आपद्धर्माश्च भारत ।
विस्तरेण महाराज किं भूयः प्रव्रवीमि ते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चषच्चाशदधिकशततमोऽध्यायः ॥ 155 ॥

12-155-8 रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधमेति झ. पाठः ॥ 12-155-27 वैरमारभते इति झ. पाठः ॥ 12-155-30 तृणेष्विव हुताशनः इति झ. पाठः ॥