अध्यायः 157

भीष्मेण युधिष्ठिरंप्रत्यज्ञानलक्षणादिप्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
अनर्थानामधिष्ठानमुक्तो लोभः पितामह ।
अज्ञानमपि कौरव्य श्रोतुमिच्छामि तत्त्वतः ॥
भीष्म उवाच ।
करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् ।
द्विषते साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥
अज्ञानान्निरयं याति तथा ज्ञानेन दुर्गतिम् ।
अज्ञानात्क्लेशमाप्नोति तथाऽऽपत्सु निमज्जति ॥
युधिष्ठिर उवाच ।
प्रजानामप्रवृत्तिं च ज्ञानवृद्धिक्षयोदयान् ।
मूलं स्थानं गतिं कालं कारणं हेतुमेव च ॥
श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव ।
अज्ञानप्रसवं हीदं यद्दुःखमुपलभ्यते ॥
भीष्म उवाच ।
रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता ।
कामः क्रोधश्च दर्पश्च तन्द्री चालस्यमेव च ॥
इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता ।
अज्ञानमेन्निर्दिष्टं पापानां चैव याः क्रियाः ॥
एतस्य वा प्रवृत्तेश्च वृद्ध्यादीन्यांश्च पृच्छसि ।
विस्तरेण महाराज शृणु तच्च विशेषतः ॥
उभावेतौ समफलौ समदोषौ च भारत ।
अज्ञानं चातिलोभश्चाप्येवं जानीहि पार्थिव ॥
लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ।
स्थाने स्थानं क्षयेत्क्षीणमुपैति विविधां गतिम् ॥
मूलं लोभस्य मोहो वै कालात्मगतिरेव च । [छिन्ने भिन्ने तथा लोभे कारणं काल एव च ॥]
तस्याज्ञानाद्धि लोभो हि कामात्मा गतिरेव च ।
सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ॥
जनको युवनाश्वश्च पृषदश्वः प्रसेनजित् । लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये नराधिपाः ।
`छिन्ने छिन्ने तथा लोभे दिवं प्राप्ता जनाधिपाः ॥'
प्रत्यक्षं तु कुरुश्रेष्ठ त्यज लोभमिहात्मना ।
त्यक्त्वा लोभं सुखी लोके प्रेत्य चेह च मोदते ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥

12-157-2 वाच्यतां निन्द्यताम् ॥ 12-157-4 अज्ञानस्य प्रवृत्तिं चेति झ. पाठः ॥ 12-157-7 कार्ये कारणोपचाराद्रागादय एवाज्ञानम् । पापाना क्रियाः हिंसादयः ॥ 12-157-10 लोभप्रभवं लोभात्तस्य प्रवृत्तिः । लोभवृद्धौ वृद्धिर्लोभस्य स्थाने साम्ये स्थानं समता । लोभभये क्षीणं भवति । उपैति उदेति । लोभभोस्यो उदेतीत्यर्थः । विविधां गतिं दुःखसंतापमोहा रूपां प्रापयितुमिति शेषः ॥ 12-157-11 मूलं लोभस्य महतः करणं लोभ एव च । इति द. पाठः ॥ 12-157-14 त्यक्त्वा लोभ । लोके प्रेत्य चानुचरिष्यसि इति झ. पाठः ॥