अध्यायः 158
					 भीष्मेण दमप्रशंसनम् ॥ 1 ॥ 
					
					
						स्वाध्यायकृतयत्नस्य ब्राह्मणस्य विशेषतः ।
						धर्मकामस्य धर्मात्मन्किंनु श्रेय इहोच्यते ॥
					 
					
						बहुधा दर्शने लोके श्रेयो यदिह मन्यसे ।
						अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ॥
					 
					
						महानयं धर्मपथो बहुशाखश्च भारत ।
						किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥
					 
					
						धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः ।
						यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ॥
						भीष्म उवाच । 
					 
					
						हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि ।
						पीत्वाऽमृतमिव प्राज्ञो येन तृप्तो भविष्यसि ॥
					 
					
						धर्मस्य विधयो नैके तेते प्रोक्ता महर्षिभिः ।
						स्वंस्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥
					 
					
						दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
						ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥
					 
					
						नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते ।
						दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥
					 
					
						दमस्तेजो वर्धयति पवित्रं च दमः परम् ।
						विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥
					 
					
						दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम् ।
						दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥
					 
					
						प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम् ।
						दमेन हि सदा युक्तो महान्तं धर्ममश्नुते ॥
					 
					
						सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
						सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥
					 
					
						अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते ।
						अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् ॥
					 
					
						आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।
						दमलिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥
					 
					
						क्षमा धृतिरार्हेसा च समता सत्यमार्जवम् ।
						इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥
					 
					
						अकार्पण्यमसंरम्भः संतोषः प्रियवादिता ।
						अविहसाऽनसूया चाप्येषां समुदयो दमः ॥
					 
					
						गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् ।
						जनवादमृषावादस्तुतिनिन्दाविसर्जनम् ॥
					 
					
						कामं क्राधं च लोभं च दर्पं स्तम्भं विकत्थनम् ।
						रोषमीर्ष्यावमानं च नैव दान्तो निषेवते ॥
					 
					
						अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः ।
						समुद्रकल्पः स नरो न कथंचन पूर्यते ॥
					 
					
						अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् ।
						पूर्वसंबन्धिसंयोगं नैतद्दान्तो निषेवते ॥
					 
					
						सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः ।
						निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥
					 
					
						मैत्रोऽथ शीलसंपन्नः प्रसन्नात्मात्मविच्च यः ।
						मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत् ॥
					 
					
						सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽऽत्मविद्वुधः ।
						प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥
					 
					
						कर्म यच्छुभमेवेह सद्भिराचरितं च यत् ।
						तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते ॥
					 
					
						निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः ।
						कालाकाङ्गी चरन्नेवं ब्रह्मभूयाय कल्पते ॥
					 
					
						अभयं यस्य भूतेभ्यो भूतानामभयं यतः ।
						तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥
					 
					
						अवाचिनोति कर्माणि न च संप्रचिनोति ह ।
						समः सर्वेषु भूतेषु मैत्रायणगतिं चरेत् ॥
					 
					
						शकुनीनामिवाकाशे मत्स्यानांमिव चोदके ।
						यथा गतिर्न दृश्येत तथा तस्य स संशयः ॥
					 
					
						गृहानुत्सृज्य यो राज्मोक्षमेवाभिपद्यते ।
						लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥
					 
					
						संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः ।
						संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥
					 
					
						कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः ।
						प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ॥
					 
					
						यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् ।
						गुहायां निहितं नित्यं तद्दमेनाभिगम्यते ॥
					 
					
						ज्ञानारामस्य बुद्धस्य सर्वभूतानुरोधिनः ।
						नावृत्तिभयमस्तीह परलोकभयं कुतः ॥
					 
					
						एक एव दमे दोषो द्वितीयो नोपपद्यते ।
						यदेनं दमसंयुक्तमशक्तं मन्यते जनः ॥
					 
					
						एकोऽस्य सुमहाप्राज्ञ दोषः स्यात्सुमहान्गुणः ।
						क्षमया विपुला लोका दुर्लभा हि सहिष्णुता ॥
					 
					
						दान्तस्य किमरण्येन तथाऽदान्तस्य भारत ।
						यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥
						वैशंपायन उवाच । 
					 
					
						एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः ।
						अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत ॥
					 
					
						पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् ।
						ततः प्रीतः स चोवाच तस्मै सर्वं कुरूद्वहः ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥ 
					 12-158-6 परायणं पराकाष्ठा । अत्रैव सर्वे धर्मा अन्तर्भूता
						इत्यर्थः ॥ 12-158-18 दर्पं गर्वं । स्तम्भं अविनम् ॥ 12-158-19 अल्पेषु
						अनित्यसुखेषु । कथंचन ब्रह्मलोकलाभेऽपि न पूर्यते न तृप्तो भवति ॥ 12-158-25
						निष्कम्य गृहादिति शेषः ॥ 12-158-27 अवाचिनोति भोगेन व्ययीकरोति । नच संचिनोति
						संगृह्णाति तत्त्वज्ञस्य कर्मास्लोषस्मरणात् । मैत्रायणं सर्वभूतेभ्योऽभयदानम् ॥ 12-158-31 कामे शुचिः सत्यकामइत्यर्थः । अनावृतः सर्वत्र कामचारभाक् । तस्य
						सर्वेषु लोकेषु कामचारो भवतीति श्रुतेः ॥ 12-158-32 गुहायां हृत्पुण्डरीके ।
						पैतामहं ब्रह्मलोकाख्यम् ॥