अध्यायः 162
					 भीष्मेण युधिष्ठिरंप्रति नृशंसलक्षणादिकथनम् ॥ 1 ॥ 
					
					
						आनृशंस्यं विजानामि दर्शनेन सतां सदा ।
						नृशंसान्न विजानामि तेषां कर्म च भारत ॥
					 
					
						कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
						तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥
					 
					
						नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत ।
						तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम् ॥
						भीष्म उवाच । 
					 
					
						स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम्
							आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च ॥
						
					 
					
						दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः ।
						असंभोगी च मानी च तथा सङ्गी विकत्थनः ॥
					 
					
						सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा ।
						वर्गप्रशंसीं सततमाश्रमद्वेपसंकरी ॥
					 
					
						हिंसाविकारी सततमविशेषगुणागुणः ।
						बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥
					 
					
						धर्मशीलं गुणोपेतं पाप इत्यवगच्छति ।
						आत्मशीलोपमानेन न विश्वसिति कस्यचित् ॥
					 
					
						परेषां यत्र दोपः स्यात्तद्गुह्यं संप्रकाशयेत् ।
						समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत् ॥
					 
					
						तथोपकारिणं चैव मन्यते वञ्चितं परम् ।
						दत्त्वाऽपि च धनं काले संतपत्युपकारिणे ॥
					 
					
						भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम् ।
						प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत् ॥
					 
					
						ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते ।
						स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥
					 
					
						एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः ।
						सदा विवर्जनीयो हि पुरुषेण बुभूषता ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥ 
					 12-162-5 दत्तमनुकीर्तयतीति दत्तानुकीर्तिः स्वस्य
						वदान्यत्वप्रकाशकः । विषमः विद्वेषकर्ता । क्षुद्रो नीचकर्मकारी । नैकृतिकः स्नेहं
						प्रदर्श्य वञ्चकः । शठः सत्यपि सामर्थ्ये दारिद्र्यव्यञ्जकः ॥ 12-162-6 बलीशः
						काकइव वञ्चकदृष्टिः । आश्रमद्वेषः संकरश्चास्यास्तीति आश्रमद्वेषसंकरी ॥ 12-162-8 आत्मशीलानुमानेनेति थ. पाठः ॥