अध्यायः 166
भीष्मेण युधिष्ठिरंप्रति संधेयासंधेयपुरुषलक्षणकथनम् ॥ 1 ॥
पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन ।
प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥
कीदृशा मानवाः सेव्याः कै प्रीति परमा भवेत् ।
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥
न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः ।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥
दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः ।
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥
लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च ।
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः ॥
दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्पकः ।
व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥
सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः ।
संप्रकीर्णेन्दियो लोके यः कालनिरतश्चरेत् ॥
असभ्यो लोकविद्विष्टः समये चानवस्थितः ।
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥
दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा ।
मित्रैरपकृतिर्नित्यमटतेऽर्थं धनेप्सया ॥
ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः ।
अधैर्यमपि यो युङ्क्ते सदा मित्रं नराधमः ॥
अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते ।
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिपी ॥
अल्पेऽप्यपकृते मूढे न संस्मरनि यत्कृतम् ।
कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप ।
शत्रुर्मित्रमुखो यश्च जिह्नप्रेक्षी विलोचनः ।
न तुष्यति च कल्याणे यम्त्यजेत्तादृशं नरम् ॥
पानपो द्वेषणः क्रोधी निर्घृणः परुपस्तथा ।
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः ॥
कृतघ्नश्चाधमो लोके न सन्धेयः कथंचन ।
मित्रद्वेषी ह्यसंधेयः सन्धेयानपि मे शृणु ॥
कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः ।
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः ॥
सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः ।
माधुर्यगुणसंपन्नाः सत्यसन्धा जितेन्द्रियाः ॥
व्यायामशीलाः सततं भृत्यपुत्राः कुलोद्वहाः ।
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः ॥
यथाशक्ति समाचाराः संप्रतुष्यन्ति हि प्रभो ।
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ॥
विरक्ताश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः ।
आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः ।
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम् ॥
दोषांश्च लोभमोहादीनर्थेषु युवतीपु च ।
न दर्शयन्ति सुहृदो विश्वस्ता बन्धुवत्सलाः ॥
लोष्टकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः ।
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः ।
संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ॥
ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः ।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥
सत्ववन्तो जितक्रोधा बलवन्तो रणे सदा ।
जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः ।
ये च दोपसमायुक्ता नराः प्रोक्ता मयाऽन ।
तेषामप्यधमा राजन्कृतघ्ना मित्रघातकाः ।
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः ॥ ।
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट््षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
12-166-3 मित्रस्यार्थादिभ्योऽन्तरङ्गत्वमाह नहीति ॥ 12-166-5
सन्धेयान नित्रीकर्तुं योग्यान् ॥ 12-166-7 क्रुष्टो लोकनिन्दितः ॥ 12-166-10
नित्यमिच्छतेऽर्थं परस्य य इति झ. पाठः ॥ 12-166-12 कार्यार्थमेव सेवते न तु
धर्मार्धमिति कार्ययेती ॥ 12-166-14 विमोचनः विपरीतदृष्टिः ॥ 12-166-16
छिद्रान्वेपी ह्यसन्धेयं इति झ. पाठः ॥ 12-166-21 वासो रक्तमिवाधिकं
मेपकम्वलः ॥ 12-166-26 कृतं उपकारं घ्नन्ति वाचाऽपलापेन वाते कृतघ्नाः त एव
उपकर्तुर्नाशकरामिबहुहः ।