अध्यायः 168

कदाचन धनार्जनाय प्रस्थितवता गौतमेन समुद्रंप्रति गच्छता वणिक्सार्थेन सह गमनम् ॥ 1 ॥ वनगजोपद्रुतवणिक्सार्थपरिभ्रष्टेन गौतमेन किंचिक्यग्रोधमूले विश्रान्त्यै प्रस्वापः ॥ 2 ॥ तत्र सायमागतेन राजधर्मनाम्ना वकराजेन तस्य सत्कारः ॥ 3 ॥

भीष्म उवाच ।
तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे ।
निष्क्रम्य गौतमोऽगच्छद्धनार्थी विचचार ह ॥
सामुद्रिकान्सवणिजस्ततोऽपश्यत्स्थितान्पथि ।
स तेन सह सार्थेन प्रययौ सागरं प्रति ॥
स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे ।
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥
स कथंचिद्भयात्तस्माद्विमुक्तो प्रायशोऽभवत् ।
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥
ततस्तु स परिभ्रष्टः सार्थाद्देशात्तथाऽर्थतः ।
एकाकी व्यभ्रमत्तत्र वने कापुरुषो यथा ॥
स पन्थानमथासाद्य समुद्राभिसरं तदा ।
आससाद वनं रम्यं महत्पुष्पितपादपम् ॥
सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम् ।
नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम् ॥
सालतालघवाश्वत्थप्लक्षागुरुवनैस्तथा । चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् ।
गिरिप्रस्थेषु रम्येषु सुखेषु सुखगन्धिषु ॥
समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै ।
मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः ॥
स तान्यतिमनोज्ञानि विहगानां रुतानि वै ।
शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ॥
ततोऽपश्यत्सुरम्येषु सुवर्णसिकताचिते । देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे ।
श्रिया जुष्टं ददर्शाथ न्यग्रोधं च सुमण्डलम् ॥
शाखाभिरनुरूपाभिः संवृतं छत्रसन्निभम् ।
तस्य मूलं च संसिक्तं वरचन्दनवारिणा ॥
दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् ।
तं दृष्ट्वा गौतमः प्रीतो मनःकान्तमनुत्तमम् ॥
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ।
तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥
तत्रासीनस्य कौन्तेय गौतमस्य नराधिप । पुष्पाणि समुपस्पृश्य प्रववावनिलः शुभः ।
ह्लादयंस्तस्य गात्राणि गौतमस्य तदा नृप ॥
स तु विप्रः परिश्रान्तिः स्पृष्टः पुण्येन वायुना ।
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात् ॥
ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते ।
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा ।
बकराजो महाप्राज्ञः काश्यपस्यात्मसंभवः ॥
राजधर्मेति विख्यातो बभूवाप्रतिभो भुवि ।
देवकन्यासुतः श्रीमान्विद्वान्देवसमप्रभः ॥
मृष्टहाटकसंछन्नो भूषणैरर्कसन्निभैः ।
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥
तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत् ।
क्षुत्पिपासापरीतात्मा हिंसार्थं चैनमैक्षत ॥
राजधर्मोवाच ।
स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहान् ।
अस्तं च सविता यातः संध्येयं समुपस्थिता ॥
मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः ।
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥

12-168-2 सामुद्रिकान् समुद्रोपान्ते गतान् ॥ 12-168-4 कां दिशं प्रयामीत्याकुलः कांदिग्भूतः ॥ 12-168-11 रम्येषु प्रदेशेषु मध्ये एकत्र ॥ 12-168-13 सभोपममिति झ. पाठः ॥