अध्यायः 172

विरूपाक्षभटैर्बकशरीरस्य चितारोपणम् ॥ 1 ॥ वाय्वानीतधेनुमुखस्रुतफेनपातेन चितास्थबकोज्जीवनम् ॥ 2 ॥ ततो बकप्रार्थनया इन्द्रेण पुनरुज्जीवितस्य गौतमस्य स्वग्रामगमनम् ॥ 3 ॥

भीष्म उवाच ।
विद्वान्संस्कारयामास पार्थिवो राजधर्मणः ।
गन्धैर्बहुभिरव्यग्रो दाहयामास पूजितम् ॥
तस्य देवस्य वचनादिन्द्रस्य बकराडिह ।
तेनैवामृतसिक्ताश्च पुनः संजीवितो बकः ॥
राजधर्माऽपि तं प्राह सहस्राक्षमरिंदमम् ।
गौतमो ब्राह्मणः क्वाऽसौ मुच्यतां मत्प्रियः सखा ॥
भीष्म उवाच ।
तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः ।
गौतमं ह्यभ्यनुज्ञाप्य प्रीतोऽथ गमनोत्सुकः ॥
प्रतीतः स गतः सौम्यो राजधर्मा स्वमालयम् ।
नृशंसो गौतमो मुक्तो मित्रध्रुक्पुरुषाधमः ॥
सभाण्डोपस्करो यातः स तदा शबरालयम् ।
तत्रासौ शबरी देहे प्रसूतो निरयोपमे ॥
एष शापो महांस्तत्र मुक्तः सुरगणैस्तदा ॥
दग्धे राक्षसराजेन खगराजे प्रतापिना ।
चितायाः पार्श्वतो दोग्ध्री सुरभिर्जीवयच्च तम् ॥
तस्या वक्राच्च्युतः फेनो दुग्धमात्रस्तदाऽनघ ।
समीरणाहृतो यातश्चितां तां राजधर्मणः ॥
देवराजस्ततः प्राप्तो विरूपाक्षपुरं तदा । विरूपाक्षोऽपि तं शक्रमयाचत पुनः पुनः ।
काश्यपश्य सुतो देव भ्राता मे जीवतामिति ॥
विरूपाक्षमुवाचेदमीश्वरः पाकशासनः ।
ब्रह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन ॥
यस्मात्त्वं नागतो द्रष्टुं मम नित्यमिमां सभाम् ।
तस्माद्बको भवान्भावी धर्मशीलः परात्मवित् ॥
आगमिष्यति ते वासं कदाचित्पापकर्मकृत् ।
शबरावासगो विप्रः कृतघ्नो वृषलीपतिः ॥
यदा निहन्ता मोक्षस्ते तदा भावीत्युवाच तम् ।
तस्मादेष गतो लोकं ब्रह्मणः परमेष्ठिनः ॥
भीष्म उवाच ।
स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः ॥
एतच्छ्रुत्वा सभामध्ये तद्वाक्यं नारदेरितम् ।
मयाऽपि तव राजेन्द्र यथावदनुवर्णितम् ॥
ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा ।
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।
मित्रध्रुङ्गिरयं घोरं नरकं प्रतिपद्यते ॥
कृतज्ञमनसा भाव्यं मित्रभावेन चानघ ।
मित्रात्प्रभवते सर्वं मित्रं धन्यतरं स्मृतम् ॥
अर्थाद्वा मित्रलाभाद्वा मित्रलाभो विशिष्यते ।
सुलभा मित्रतोऽर्थास्तु मित्रेण यतितुं क्षमम् ॥
मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम् ।
सत्कारैः स्वजनोपेतः पूजयेत विचक्षणः ॥
परित्याज्यो बुधैः पापः कदर्यः कुलपांसनः ।
मित्रद्रोही कुलाङ्गारः पापकर्मा कुलाधमः ॥
एषा सज्जनसांनिध्ये प्रज्ञा प्रोक्ता मयाऽनघ ।
मित्रदुहि कृतघ्ने च किं भूयः श्रोतुमिच्छसि ॥
वैशंपायन उवाच ।
एतच्छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना ।
युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥