अध्यायः 173

भीष्मेण युधिष्ठिरंप्रति विप्रसेनजित्संवादानुवादः ॥ 1 ॥ विप्रेण सेनजितंप्रति पिङ्गलोपाख्यानकथनम् ॥ 2 ॥

युधिष्ठिर उवाच ।
धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः ।
धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि सत्तम ॥
भीष्म उवाच ।
सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलोदयः ।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ॥
यस्मिन्यस्मिंस्तु विषये योयो याति विनिश्चयम् ।
स तमेवाभिजानाति नान्यं भरतसत्तम् ॥
यथायथा च पर्येति लोकतन्त्रमसारवत् ।
तथातथा विरागोऽत्र जायते नात्र संशयः ॥
एवं व्यवसिते लोके बहुदोषे युधिष्ठिर ।
आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥
युधिष्ठिर उवाच ।
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
यया बुद्ध्या नुदेच्छोक तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहोदुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥
अत्राप्युदाहरन्तीममिहासं पुरातनम् ।
यथा सेनजितं विप्रः कश्चिदेत्याब्रवीत्सुहृत् ॥
पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम् ।
विषण्णमनसं दृष्ट्वा विप्रो वचनमब्रवीत् ॥
किंनु मुह्यसि मूढस्त्वं शोच्यः किमनु शोचसि ।
यदा त्वामपि शोचंतः शोच्या यास्यन्ति तां गातिम् ॥
त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते ।
सर्वे तत्र गमिष्यामो यत एवागता वयम् ॥
सेनजिदुवाच ।
का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन ।
किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि ॥
ब्राह्मण उवाच ।
हृष्यन्तमवसीदन्तं सुखदुःखविपर्यये ।
आत्मानमनुशोचामि यो ममैष हृदि स्थितः ॥
पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः ।
उत्तमाधममध्यानि तेषु तेष्विह कर्मसु ॥
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम । यथा मम तथाऽन्येषामिति मत्वा न मे व्यथा ।
एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥
एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा ।
तेषु स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः ॥
अदर्शनादापतितः पुनश्चादर्शनं गतः ।
न त्वाऽसौ वेद न त्वंतं कस्मात्त्वमनुशोचसि ॥
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम् ।
सुखात्संजायते दुःखं दुःखात्संजायते सुखम् ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
सुखदुःखे मनुष्याणां चक्रवत्परिवर्ततः ॥
सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥
[शरीरमेवायतनं सुखस्य दुःखस्य चाप्यायतनं शरीरम् ।
यद्यच्छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत् ॥
जीवितं च शरीरेण तेनैव सह जायते ।
उभे सह विवर्तेते उभे सह विनश्यतः ॥
स्नेहपाशैर्बहुविधैराविष्टविषया जनाः ।
अकृतार्थाश्च सीदन्ते जलैः सैकतसेतवः ॥
स्नेहेन तैलवत्सर्वं सर्गचक्रे निपीड्यते ।
तिलपीडैरिवाक्रम्य क्लेशैरज्ञानसंभवैः ॥
संचिनोत्यशुभं कर्म कलत्रापेक्षया नरः ।
एकः क्लेशानवाप्नोति परत्रेह च मानवः ॥
पुत्रदारकुटुम्बेषु प्रसक्ताः सर्वमानवाः ।
शोकपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥
पुत्रनाशे वित्तनाशे ज्ञातिसंबन्धिनामपि । प्राप्यते सुमहद्दुःखं दावाग्निप्रतिमं विभो ।
दैवायत्तमिदं सर्वं सुखदुःखे भवाभवौ ॥
असुहृत्ससुहृच्चापि सशत्रुर्मित्रवानपि । सप्रज्ञः प्रज्ञया हीनो दैवेन लभते सुखम् ॥]
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः ।
न च प्रज्ञाऽलमर्थानां न सुखानामलं धनम् ॥
न बुद्धिर्धनलाभाय न मौढ्यमसमृद्ध्ये ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥
बुद्धिमन्तं च शूरं च मूढं भीरुं जडं कविम् ।
दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥
धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च ।
पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः ॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः ॥
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ॥
सुखं स्वपिति दुर्मेधाः स्वानि कर्माण्यचिन्तयन् ।
अविज्ञानेन महता कम्बलेनेव संवृतः ॥
ये च बुद्धिं परां प्राप्ता द्वन्द्वातीता विमत्सराः ।
तान्नैवार्था न चानर्था व्यथयन्ति कदाचन ॥
अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् ।
तेऽतिवेलं प्रहृष्यन्ति संतापमुपयान्ति च ॥
नित्यं प्रमुदिता मूढा दिवि देवगणा इव ।
अवलेपेन महता परितृप्ता विचेतसः ॥
सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् ।
भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे ॥
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥
बुद्धिमन्तं कृतप्रज्ञं शुश्रूषुमनहंकृतम् ।
शान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ॥
एतां बुद्धिं समास्थाय शुद्धचित्तश्चरेद्बुधः । `शुक्लकृष्णगतिज्ञं तं देवासुरविनिर्गमम् ।'
उदयास्तमयज्ञं हि न शोकः स्प्रष्टुमर्हति ॥
यन्निमत्तो भवेच्छोकस्रासो वा क्रोध एव वा ।
आयासो वा यतो मूलं तदेकाङ्गमपि त्यजेत् ॥
यद्यत्त्यजति कामनां तत्सुखस्याभिपूर्यते ।
कामानुसारी पुरुषः कामाननुविनश्यति ॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥
पूर्वदेहकृतं कर्म शुभं वा यदि वाऽशुभम् ।
प्राज्ञं मूढं तथा शूरं भजते तादृशं नरम् ॥
एवमव किलैतानि प्रियाण्येवाप्रियाणि च ।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥
एतां बुद्धिं समास्थाय नावसीदेद्गुणान्वितः ।
सर्वान्कामाञ्जुगुप्सेन कोपं कुर्वीत पृष्ठतः ॥
वृत्त एव हृदि प्रौढो मृत्युरेप मनोभवः ।
क्रोधो नाम शरीरस्थो देहिनां प्रोच्यते बुधैः ॥
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः ।
तदात्मज्योतिरात्मश्रीरात्मन्येव प्रसीदति ॥
किंचिदेव ममत्वेन यदा भवति कल्पितम् ।
तदेव परितापाय नाशे संपद्यते तदा ॥
न बिभेति यदा चायं यदा चास्मान्न विभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥
उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये ।
प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यति ॥
यदा न कुरुते धीरः सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं ॥
अत्र पिङ्गलया गीता गाथा शृणु नराधिप ।
यथा सा कृच्छ्रकालेऽपि लेभे शर्म सनातनम् ॥
संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता ।
अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ॥
पिङ्गलोवाच ।
उन्मत्ताऽहमनुन्मत्तं कान्तमन्ववसं चिरम् ।
अन्तिके रमणं सन्तं नैनमध्यगमं पुरा ॥
एकस्थूणं नवद्वारमपिधास्याम्यगारकम् ।
का ह्यकान्तमिहायान्तं कान्त इत्यभिमंस्यते ॥
अकामाः कामरूपेण धूर्ताश्च नररूपिणः ।
न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धाऽस्मि जागृमि ॥
अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा ।
संबुद्धाऽहं निराकारा नाहमद्याजितेन्द्रिया ॥
सुखं निराशः स्वपिति नैराश्यं परमं सुखम् ।
आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥
भीष्म उवाच ।
एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः ।
पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥

12-173-1 राजनियोगाद्धर्मप्रवृत्तेः राजधर्माश्रिताः । श्रेष्ठः प्रशस्यतमोमोक्षधर्मस्ताम् । आश्रमिणामित्युक्तेर्गृहस्थादीनां सर्वेषामप्यत्राधिकारो दर्शितः ॥ 12-173-2 मोक्षधर्मस्योत्तमत्वं वक्तुमितरधर्मस्य निकृष्टत्वमाह । सर्वत्रेति । सर्वत्राश्रमेषु धर्मो विहितो वेदेनाऽग्निहोत्रं जुहुयास्त्वर्गकाम इत्यादिना । स्वर्ग्यः स्वर्गफलसाधनम् । सत्यफलोदयः अवश्यंभाविफलोदयः । बहुद्वारस्य यज्ञदानाद्यनेकोपायस्य । क्रिया अनुष्ठानम् ॥ 12-173-3 यस्मिन्विषये स्वर्गादिफले विनिश्चयं याति इदं फलं सद्यः प्राप्यमित्यभिसंधत्ते स तत्साधनमुपादत्ते न फलान्तरसाधनमित्यर्थः ॥ 12-173-4 पर्येति जानाति लोकतन्त्रं अनोपकरणं धनदारादिकम् । अत्र लोके असारं तृणादि तद्वत्तच्छम् ॥ 12-173-5 व्यवसिते निश्चिते । लोके स्थावरादिसत्यलोकपर्यन्ते । बहुदोषे ऐश्वर्यतारतम्यक्षयिष्णुत्वादिदोषबहुले । दोषदर्शननिश्चये वैराग्ये सतीत्यर्थः ॥ 12-173-6 तन्मे तां मे ॥ 12-173-7 अपचितिं प्रतीकारम् ॥ 12-173-9 संतापोऽन्तर्बहिर्दाहः । विह्वलत्वं बाह्येन्द्रियचलनशून्यत्वम् । विषण्णं मूढं मनो यस्य । विवर्णवदनं दृष्ट्वेति ट. पाठः ॥ 12-173-10 मूढाः सर्वेऽपि शोच्याः शोकाक्रान्ताश्चेत्यतो निःशोकं पदमन्वेष्टव्यमित्यर्थः ॥ 12-173-12 बुद्धिरुपपत्तिः । तपस्तदालोचनम् । समाधिर्बुद्धेरेकत्र पर्यवसानम् । ज्ञानं साक्षात्कारः । श्रुतमेवेष्वर्थेषु प्रमाणम् ॥ 12-173-14 तत्र बुद्धिमाहं सार्धद्वयेन पश्येति । व्यतिषिक्तानि व्याप्तान्युत्तमाधममध्यानि देवतिर्थङ्भनुष्यादीनि । कर्मसु निमित्तभूतेषु ॥ 12-173-15 एवं कर्मजं दुःखं देवादीनामप्यस्तीति दृश्यमानभूतदृष्टान्तेनोपपाद्य तन्निवृत्तावप्युपपत्तिमाह आत्मेति ॥ 12-173-16 तप आह यथेत्यादिना । भूतैः समागमः आत्मनो देहयोग इत्यर्थः ॥ 12-173-17 तपःफलमाह एवमिति ॥ 12-173-18 कः सन् किमनुशोचसि इति झ. पाठः ॥ 12-173-25 स्नेहेन निमित्तेन तिलपीडैस्तैलिकैः ॥ 12-173-26 अशुभं चौर्यादि । कलत्रापेक्षया भार्यादिपोषणार्थं धनसुखभागिनः सर्वे पापफलभागी त्वेक एवायमित्यर्थः ॥ 12-173-28 भवाभवौ ऐश्वर्यानैश्वर्ये ॥ 12-173-29 सुहृत्प्रत्युपकारमनपेक्ष्योपकारकर्ता । मित्रं प्रत्युपकारमपेक्ष्यो पकारकर्तृ ॥ 12-173-30 सुखाय सुखं दातुं नालं न पर्याप्ताः ॥ 12-173-31 असमृद्धये धनादिनाशाय । लोको भोग्यप्रपञ्चस्तस्य पर्यायो निर्माणं तत्र विषये वृत्तान्तं सिद्धान्तम् । प्राज्ञस्तत्त्ववित् ॥ 12-173-32 मूढं निर्बुद्धिम् । जडमलसम् । कविं दीर्घदर्शिनम् । भागिनं सदैवम् । भजते स्वयमेवोपनमते । नतु तदर्थं यत्नोऽपेक्ष्य इत्यर्थः ॥ 12-173-33 पयःपातुरेव धेनुरितरेषां तु तत्र ममता व्यर्था । तस्मादावश्यकादधिके स्पृहा न कार्येत्यर्थः ॥ 12-173-35 धीराः पण्डिताः अन्तेषु अन्तयोः धर्ममोक्षयोः । व्यत्ययो बहुलमिति च व्यत्ययः । मध्येषु मध्ययोः अर्थकामयोः । अन्तप्राप्तिं धर्ममोक्षप्राप्तिं मोक्षस्य सुखरूपत्वाद्धर्मस्य सुखहेतुत्वात् सुखं प्राहुः । अन्तयोर्धर्ममोक्षयोरन्तरं मध्यं अर्थकामं दुःखं प्राहुरित्यर्थः ॥ 12-173-37 द्वन्द्वातीताः सुखदुःखाद्यतीताः । मत्सरः परोत्कर्षासहिष्णुत्वं तद्वर्जिताः । अर्थाः ख्यादयः । अनर्थास्तद्वियोगाः ॥ 12-173-38 अतिवेलमत्यन्तम् ॥ 12-173-39 परिवृद्धा विचेतस इति ध. पाठः ॥ 12-173-40 आलस्यं ज्ञानसाधनेष्वप्रवृत्तिः । दुःखं दुःखकरम् । भूतिरणिमाद्यैश्वर्यम् । श्रिया विद्यया । सुखं दुःखान्तमालक्ष्येति झ. पाठः ॥ 12-173-41 सुखदुःखसाधने प्रियाप्रिये । हृदयेन हर्षशोकमयेनाऽपराजितोऽवशीकृतः ॥ 12-173-42 शोकमूलानीष्टवियोगादीनि । भयमूलान्यनिष्टसंयोगादीनि । आविशन्ति स्वकार्योत्पादनेन व्याप्नुवन्ति ॥ 12-173-43 बुद्धिर्ग्रन्थधारणसामर्थ्यं तद्वन्तम् । कृता स्वतःसिद्धा प्रज्ञा ऊहापोहकौशलं यस्य तम् । शुश्रूषुं शास्त्राम्यासपरम् । शुश्रूषमनसूयकमिति झ. पाठः । तत्र अनसूयकं शास्त्रीयेऽर्थे दोषदृष्टिरसूया तद्रहितमित्यर्थः ॥ 12-173-44 शुक्लं सत्वं कृष्णं तमस्ताभ्यां प्राप्ये गती प्रकाशावरणकार्ये मुक्तिसंसाराख्ये तज्ज्ञम् । देवा दानदयादिरूपाः सात्विक्यश्चेतोवृत्तयः । असुरा राजस्यस्तामस्यो लोभमोहाद्यास्ता एव तासामुभयीनामपि विशेषेण निर्गमो बहिर्भावो यस्यात्तं उदया स्तमयज्ञं देहिनां जन्मविनाशज्ञम् ॥ 12-173-45 यत आयासस्तन्मूलं कारणमायासादेरेकाङ्गं शरीरैकदेशभूतमपि त्यजेत् किमुत धनदारादि ॥ 12-173-46 कामानां विषयाणां मध्ये ॥ 12-173-47 लोके मानुषे । दिव्यं स्वर्गभवम् । तृष्णाक्षयो वैराग्यम् ॥ 12-173-48 कर्तारमजितं कर्म शुभं वा यदि वाऽशुभमिति ड. पुस्तकपाठ ॥ 12-173-56 पापकं हिंसनम् ॥ 12-173-58 कृच्छ्रकाले दुःखकाले । लेभे धर्मं सनातनमिति घ. पाठः । ब्रह्म सनातनमिति ड. पाठः ॥ 12-173-59 आस्थापयत् व्यवस्थापितवती ॥ 12-173-60 अन्तिके हृदयकोशे रमणमानन्दप्रदम् ॥ 12-173-61 एकस्थूणं एकात्माधारं अगारं शरीराख्यम् ॥ 12-173-62 जागृमि जागर्मि ॥ 12-173-65 पर्ववस्थापित आत्मतत्त्वे निष्ठां प्रापितः ॥