अध्यायः 176
भीष्मेण युधिष्ठिरंप्रति विरक्तेः सुस्वसाधनतायां प्रमाणतया
मङ्किगीताया बोध्यगीतायाश्चानुवादः ॥ 1 ॥
ईहमानः समारम्भान्यदि नासादयेद्धनम् ।
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥
भीष्म उवाच ।
सर्वसाम्यमनायासः सत्यवाक्यं च भारत ।
निर्वेदश्चाविधित्सा च यस्य स्यात्स सखी नरः ॥
एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये ।
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥
ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः ।
केनचिद्धनलेशेन क्रीतवान्दम्यगोयुगम् ॥
सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ ।
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥
तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्पणः ।
उत्थायोत्क्षिप्य तौ दम्यौ पससार महाजवः ॥
ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना ।
प्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥
न जात्वविहितं शक्यं दक्षेणाषीहितुं धनम् ।
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥
पूर्वमर्यैर्विहीनस्य युक्तस्याप्युतिष्ठतः ।
इमं पश्यत संगत्या मम दैवमुपप्लवम् ॥
उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः ।
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥
मणीवोष्ट्रस्य लम्वेते प्रियौ वत्सतरौ मम ।
शुद्वं हि दैवमेवेदं हठे नैवास्ति पौरुषम् ॥
यदि वाऽप्युपपद्येत पौरुषं नाम कर्हिचित् ।
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥
तस्मान्निर्वेद एवेह गन्तव्यः सुखभीप्सता ।
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥
अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता ।
प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥
यः कामानाप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् ।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥
नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन ।
शरीरे जीविते चैव तृष्णा मर्त्यस्य वर्धते ॥
निवर्तस्य विधित्साभ्यः शाम्य निर्विद्य कामुक ।
असकृच्चासि निकृतो न च निर्विद्यसे मनः ॥
यदि नाहं विनाश्यस्ते यद्येवं रमसे मया ।
मा मां योजय लोभेन वृथाऽत्वं वित्तकामुक ॥
संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः ।
कदा तां मोक्ष्यसे मूढ धनेहां धनकामुक ॥
अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव ।
`क्लेशैर्नानाविधैर्नित्यं संयोजयसि निर्घृणः ।'
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात् ॥
न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् ।
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥
नूनं मे हृदयं कामं वज्रसारमयं दृढम् ।
यदनर्थशताविष्टं शतधा न विदीर्यते ॥
त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव ।
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम् ॥
काम जानामि ते मूलं संकल्पात्किल जायसे ।
न त्वां संकल्पयिष्यामि समूलो नभविष्यसि ॥
ईहा धनस्य न सुखा लुब्ध्वा चिन्ता च भूयसी ।
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ॥
परित्यागे न लभते ततो दुःखतरं नु किम् ।
न च तुष्यति लब्धेन भूय एव च मार्गति ॥
अनुतर्पुल एवार्थः स्वादु गाङ्गभिवोदकम् ।
मद्विलापनमेततु प्रतिबुद्धोऽस्मि संत्यज ॥
य इमं मामकं देहं भूतग्रामः समाश्रितः ।
स यात्वितो यथाकामं वसतां वा यथासुखम् ॥
न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु ।
तस्मादुत्सृज्य वः सर्वान्सत्वमेवाश्रयाम्यहम् ॥
सर्व भूतान्यहं देहे पश्यन्मनसि चात्मनः ।
योगे बुद्धिं श्रुते सत्वं मनो ब्रह्मणि धारयन् ॥
विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः ।
यथा मां त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥
त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते ।
तृष्णा शोकश्रमाणां हि त्वं काम प्रभवः सदा ॥
धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम् ॥
अवज्ञानसहस्रैस्तु दोषाः कष्टतराऽधने ।
धने सुखकला या तु साऽपि दुःखैर्विधीयते ॥
धनमस्येति पुरुषं पुरो निघ्नन्ति दस्यवः ।
क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ॥
धनलोलुपता दुःखमिति बुद्धं चिरान्मया ।
यद्यदालम्बसे कामं तत्तदेवानुरुध्यसे ॥
अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥
पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि ।
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ॥
निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया ।
निवृत्तिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥
अतिक्लेशान्सहामीह नाहं बुद्ध्याम्यबुद्धिमान् ।
निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥
परित्यजामि काम त्वां हित्वा सर्वं मनोगतम् ।
न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ॥
क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः ।
द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥
तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् ।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥
निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् ।
सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥
तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च ।
त्यजन्तु मां प्रतिष्ठन्तं सत्वस्थो ह्यस्मि सांप्रतम् ॥
प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च ।
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥
यद्यस्त्यजति कामानां तत्सुखस्याभिपूर्यते ।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥
कामानुबन्धं नुदते यत्किंचित्पुरुषो रजः ।
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥
एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम् ।
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥
आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् ।
प्राप्यावध्यं ब्रह्मपुरं राजेव च वसाम्यहम् ॥
एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः ।
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥
दम्यनाशकृते मङ्किरमृतत्वं किलागमत् ।
अच्छिनत्काममूलं स तेन प्राप परां गतिम् ॥
अत्राप्युदाहरन्तीमं श्लोकं मोक्षोपसंहितम् ।
गीतं विदेहराजेन जनकेन प्रशाम्यता ॥
अनन्तमिव मे वित्तं यस्य मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥
अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम् ।
निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर ॥
बोध्यं शान्तमृषिं राजा नाहुषः पर्यपृच्छत ।
निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम् ॥
उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे ।
कां बुद्धिं समनुप्राप्य शान्तश्चरसि निर्वृतः ॥
बोध्य उवाच ।
उपदेशेन वर्तामि नानुशास्मीह कंचन ।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृष्यताम् ॥
पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने ।
इषुकारः कुमारी च षडेते गुरवो मम ॥
[*भीष्म उवाच ।
आशा बलवती राजन्नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥
सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ।
आमिषस्य परित्यागात्कुररः सुखमेधते ॥
गृहारम्भो हि दुःखाय न सुखाय कदाचन ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥
सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः ।
अद्रोहणैव भूतानां सारङ्ग इव पक्षिणः ॥
`अल्पेभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः ।
सर्वतः सारमादद्यात्पुष्पेभ्य इव षट््पदः ॥'
इषुकारो नरः कश्चिदिपावासक्तमानसः ।
समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥
बहूनां कलहो नित्यं द्वयोः संकथनं ध्रुवम् ।
एकाकी विचरिष्यानि कुमारीशङ्खको यथा ॥] ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षट््सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥
12-176-3 पदानि पदनीयान्याश्रयणीयानि । प्रशान्तये मोक्षाय । एष
इति विधेयापेक्षे लिङ्गैकत्वे ॥ 12-176-5 दम्यगोयुगं द्वौ वत्सतरौ । द्वित्वे
गोयुगजिति गोयुगच्प्रत्ययः ॥ 12-176-7 उत्क्षिष्य
तुलाभाजनद्वयवदुपरिभूमेर्नीत्वा ॥ 12-176-9 अविहितं दैवेना नुपस्थापितं
ईहितुमेष्टुम् । श्रद्धया फलप्राप्तिनिश्चयेन । ईहां चेष्टां ॥ 12-176-10
युक्तस्यावहितचित्तस्य । अनुतिष्ठतोऽर्थप्राप्त्युपायान् । संगत्या
दम्योष्ट्रसंबन्धेन । दैवं देवेनेश्वरेण निर्मितम् ॥ 12-176-11 उद्यम्योद्यम्य
मोक्षार्थमुद्यमं कृत्वा विषमेण कृच्छ्रेण दम्यौ गच्छतः । काकतालीयं दैवकृतं
संगमम् । उन्भाथः कूटयन्त्रम् । उत्पथेनैव धावतः इति झ. पाठः ॥ 12-176-12 वाशब्द
इवार्थे ॥ 12-176-13 उपपद्येत यदि लोकदृष्टान्तेन पौरुषास्तित्वं युज्येत तर्हि
फलव्यभिचारात्तदपि दैवायत्तमेवोपपद्यते न स्वातन्त्र्येणेत्यर्थः ॥ 12-176-17
विधित्सानां धनाद्यर्थं प्रवृत्तीनाम् । गतपूर्वः पूर्वं गतः प्राप्तो गत
पूर्वः ॥ 12-176-18 कामुकका मादिधर्मवत् हे मनः निर्विद्य वैराग्यं
प्राप्यशाम्य शमं गच्छ । निकृतः वञ्चितः प्रवृत्तिनैष्फत्यात् ॥ 12-176-20
मोक्ष्यसे त्यक्ष्यसे ॥ 12-176-21 क्रीडनकः क्रीडामृगः । जातु कदाचित् ।
प्रेष्यतां दास्यम् । कामाभावे कोऽपि कस्यचिदपि न प्रेष्यः स्यादित्यर्थः ॥ 12-176-22 अन्तं नाप्नुवन् अतो हेतोस्त्यक्त्वा ॥ 12-176-23 नूनं ते हृदयं
कामेति झ. पाठः ॥ 12-176-24 प्रियं जायादि ॥ 12-176-25 नभविष्यसि विनशिष्यसि ॥ 12-176-26 ईहा लिप्सा चेष्टा वा । तदा धनस्य धनायेत्यर्थः । लब्ध्वा चिन्ता
नाशभयात् । यथा मृत्युस्तथा दुःखकृत् । श्रमेऽपि फलं संदिग्धम् ॥ 12-176-27
परित्यागे देहस्य परस्वत्वापादनेऽपि न लभते । मार्गति मृगयते ॥ 12-176-28
अनुतर्पुलस्तृष्णावृद्धिकृत् । मद्विलापनं मन्नाशः । एतत् तृष्णावृद्ध्याख्यम् ।
प्रति बुद्धोऽस्मि अतो मां संत्यज । हे कामेति शेषः ॥ 12-176-29 भूतग्रामो यातु
स्वकारणं प्रति । पञ्चत्वमस्त्वित्यर्थः ॥ 12-176-31 योगे विषये बुद्धिं
करष्यामीति निश्चयं कुर्वन् श्रुते श्रवणादौ सत्वमेकाग्नचित्तं धारयन् मनश्च
ब्रह्मणि धारयन् विहरिष्यामीत्यग्रिमेण संबन्धः ॥ 12-176-35 कष्टतराऽधने इति
संधिरार्षः ॥ 12-176-36 धनमस्यास्तीति क्लिश्यन्ति क्लेशयन्ति ॥ 12-176-38
अनलोऽग्निरिवेत्यर्थः ॥ 12-176-41 सहामि इतःपूर्वं सोढवानस्मि ॥ 12-176-43
क्षिपमाणानां धिक्कुर्वताम् ॥ 12-176-44 सकामं लब्धमनोरथम् । हेकामेति शेषः ॥ 12-176-45 निर्वृतिं सुखम् । तृप्तिं पूर्णकामताम् ॥ 12-176-46 प्रतिष्ठन्तं
मोक्षाय गन्तुम् ॥ 12-176-47 प्रहाय स्थितोस्मीति शेषः ॥ 12-176-49 रजः
प्रवर्तको गुणः । तच्च कामेनानुवध्नातीति कामानुबन्धम् । दुःखादिकं च
कामाद्युद्भवम् । अतः सर्वानर्थमूलं रजस्त्याज्यमित्यर्थः ॥ 12-176-50 शाम्यामि
कर्मभ्य उपरतिं गच्छामि । परिनिर्वामि निर्दुःखो भवामि ॥ 12-176-54
काममूलमविद्याम् ॥ 12-176-55 अत्राप्युदाहरन्तीममितिहासं पुरातनं इति झ. पाठः ॥ 12-176-57 पदसंधयं श्लोकम् । वैराग्यार्थमुपन्यस्तम् ॥ 12-176-60 तत्
ज्ञाप्यम् ॥ 12-176-61 सारङ्गो भ्रमरस्तस्याऽन्वेषणमनुगमनम् । इष गतौ दिवादिः ॥ 12-176-68 काचित्कुमारी पित्रादिपरवशा गृहागतानतिथीन्प्रच्छन्नं
भोजयितुमिच्छन्ती ब्रीहिनवहन्तुं प्रचक्रमे । तस्याः प्रकोष्ठस्थाः
शङ्खाश्चुक्रुशुः । सा परेषां सूचना माभूदिति शङ्खान्भड््क्त्वा
एकैकमवशेषितवतीति श्रीमद्भागवते दृष्टान्तोऽयं व्याख्यातः ॥