अध्यायः 178
भीष्मेण युधिष्ठिरंप्रति इतरनिपेधपूर्वकं प्रज्ञायाः सुखसाधनतायां
प्रमाणतया सृगालकाश्यपसंवादानुवादः ॥ 1 ॥
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥
भीष्म उवाच ।
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये ।
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥
वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम् ।
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥
आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत् ।
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥
तथा मुमूर्षमासीनमकूजन्तमचेतसम् ।
इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम् ॥
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः ।
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप ।
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि ॥
सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः ।
संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।
[अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥]
पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै ।
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥
अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे ।
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा ॥
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली ।
उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च ॥
वर्षाहिमातपानां च परित्राणानि कुर्वते ।
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च ।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः ।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥
दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः ।
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥
एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप ।
किं पुनर्योसि सत्वानां सर्वेषां ब्राह्मणोत्तमः ॥
इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै ।
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥
अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम् ।
नातः पापीयसीं योनिं पतेयमपरामिति ॥
मध्ये वै पापयोनीनां सृगालीयामहं गतः ।
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥
जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः ।
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् ॥
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् ।
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् ।
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।
संप्रज्वलति सा भूयः समिद्भिरिव पावकः ॥
अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि ।
सुखदुःखे तथा चोभे तत्र का परिदेवना ॥
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् ।
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥
न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् ।
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् ॥
न खल्वप्यरसज्ञस्य कामः क्वचन जायते ।
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ।
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥
यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप ।
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते ॥
अप्राशनमसंस्पर्शमसंदर्शनमेव च ।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥
पाणिमन्तो बलवन्तो धनवन्तो न संशयः ।
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः ।
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥
अपरे बाहुबलिनः कृतविद्या मनस्विनः ।
जुगुप्सितां च कृपणां पापवृत्तिमुपासते ॥
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् ।
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति ।
तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः ।
सुसंपूर्णः स्वया योन्या लब्धलाभोसि काश्यप ॥
यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः ।
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥
न केनचित्प्रवादेन सत्येनैवापहारिणा ।
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः ।
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि ॥
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय ।
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् ।
कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम् ॥
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ।
येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके ।
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् ॥
नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः ।
सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः ॥
अहमासं पण्डितको हैतुको वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् ।
आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान् ॥
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः ।
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥
अपि जातु तथा तत्स्यादहोरात्रशतैरपि ।
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥
संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः ।
ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा ॥
भीष्म उवाच ।
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह ।
अहो बतामि कुशलो बुद्धिमांश्चेति विस्मितः ॥
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ।
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् ॥
ततः संपूजयामास काश्यपो हरिवाहनम् ।
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥
12-178-5 रथेन रथघातेन । वैश्यः कश्चिदृषिं दान्तं इति ट.
पाठः ॥ 12-178-6 आत्मानं धैर्यं त्यक्त्वा ॥ 12-178-7 अकूजन्तं मूर्च्छया
निःशब्दम् ॥ 12-178-9 श्रोत्रियोऽधीतदेवः । दोषात् मौढ्यात् ॥ 12-178-10
यत्संतोषणीयं रूपं त्वं स्वस्याऽभिमन्यसेऽवमन्यसे ॥ 12-178-13 न कषाम न
नाशयाम् । 12-178-14 निकषन्ति कण्डूयनेन ॥ 12-178-16 अधिष्ठायाध्यास्य । गां
पृथिवीम् । बलीवर्दादि वा । आत्मनि आत्मभोगनिमित्तम् ॥ 12-178-17 अल्पप्राणा
अल्पबलाः ॥ 12-178-20 अदन्ति दशन्ति ॥ 12-178-23 एके देवाद्याः । अन्ये
पश्वाद्याः ॥ 12-178-25 यदि कदाचिद्भवेस्तथापि न तुष्येरिति योज्यम् ॥ 12-178-28 कामादीनां मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव शरीरपञ्चरे
परिच्छिद्य निरुध्य स्थितस्य भयं नास्तीत्युत्तरेण संबन्धः ॥ 12-178-31
वारुण्या मद्यस्य लट्वाख्यपक्षिमासस्य च । कर्मणि षष्ठ्यौ । त्वं न स्मरसि
ब्राह्मणत्वेन तव तद्रसग्रहाभावात् ॥ 12-178-32 येषां यान्यभुक्तपूर्वाणि ॥ 12-178-38 असंतुष्टः स्वया वृत्त्या मायां प्रेक्षस्व यादृशीन् । इति ट.ड.थ.
पाठः ॥ 12-178-39 पक्षहतानर्धाङ्गवातादिना नष्टान् । आमयाविनोरोगाक्रान्तान् ॥ 12-178-41 प्रवादेन कलङ्केन । अपहारिणा जाविभ्रंशकरेण ॥ 12-178-45 विहाराय
यथोचितेन यज्ञादिना विहर्तुम् ॥ 12-178-48 पण्डितकः कुत्सितः पण्डितः हेतुमदेव
वक्ता न श्रुतिमत् । आक्रोष्टापरुषवाक् ॥ 12-178-49 सर्वशङ्की
स्वर्गादृष्टादिसद्भावेऽपि शङ्कावान् ॥ 12-178-54 हरिवाहनमिन्द्रम् ॥