अध्यायः 179

भीष्मेण युधिष्ठिरंप्रति तपोदानादिसत्कर्मणामपि परम्परया सुखसाधनताकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
`यथाऽस्मिंश्च तथा तत्र जानीयां नृपसत्तम । दुष्कर्तारो यथा लोके यत्कुर्वन्ति तथा शृणु ॥'
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः ।
स्वकर्म कलुषं कृत्वा दुःखे महति धीयते ॥
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकारिणः ॥
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।
श्रद्दधानाश्च दान्ताश्च सत्वस्थाः शुभकारिणाः ॥
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।
क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम् ॥
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु ।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥
सुशीघ्रमपि धावन्तं विधानमनुधावति ।
शेते सह शयानेन येनयेन यथाकृतम् ॥
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ।
करोति कुर्वतः कर्म छायेवाऽनुविधीयते ॥
येनयेन यथा यद्यत्पुरा कर्म समार्जितम् ।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥
स्वकर्मफलनिक्षेपं विधानपरिरक्षितम् ।
भूतग्राममिमं कालः समन्तात्परिकर्षति ॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥
संमानश्चावमानश्च लाभालाभौ क्षयोदयौ ।
प्रवृत्तानि विवर्तन्ते विद्यानान्ते पुनःपुनः ॥
आत्मना विहितं दुःखमात्मना विहितं सुखम् ।
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम् ।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥
संक्लिन्नमग्रतो वस्त्रं पश्चाच्छुध्यति वारिणा ।
`दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा ॥
तपसा तप्यते देहस्तपसा विन्दते महत् ॥' उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम् ॥
दीर्घकालेन तपसा सेवितेन तपोवने ।
धर्मनिर्धूतपापानां संसिद्ध्यन्ते मनोरथाः ॥
शकुनीनामिवाकाशे मत्स्यानामिव चोदके ।
पदं यथा न दृश्येत तथा धर्मविदां गतिः ॥
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः ।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

12-179-1 यद्यस्ति सफलमित्यध्याहारः । दत्तेष्टे गृहस्यस्य धर्मः । तपो वानप्रस्थस्य । गुरुशुश्रूषा ब्रह्मचारिणः ॥ 12-179-3 नास्तिक्यमनर्थः तेन युक्तेनात्मना कुशास्त्रजिताध्यायसयेन । कलुषं पापम् ॥ 12-179-4 मृतेभ्यः प्रमृतं यान्तीति झ. पाठः । तत्र मृतेभ्यो मरणेभ्यः । प्रमृतं मरणान्तरम् । अविलम्बेन पुनःपुनर्म्रियन्त इत्यर्थः ॥ 12-179-5 धनाढ्याः शुभकारिण इति झ. पाठः ॥ 12-179-6 हस्ताववाप्येते प्रवेश्येते यस्मिन्निति हस्तावापो हस्तनिगडस्तेन निगडिताः सन्तो नास्तिका राष्ट्राद्दूरीकृता व्यालादिमत्सु वनेषु गच्छन्तीत्यर्थः ॥ 12-179-7 आतिथेयमतिथिहितं मृष्टान्नदानादि । आत्मवतां जितचित्तानाम् । हस्तदक्षिणं हस्तोपलक्षितेन तत्कर्तव्येन दानादिना कर्मणा दक्षिणमनुकूलम् ॥ 12-179-8 पुलाका गर्तोष्मणा भक्तसिक्थवन्नष्ठवीजभावाः । पुत्तिका मशकाः । कारणं सुखादिहेतुः ॥ 12-179-9 विधानं प्राक्कर्म धावन्तं यतमानमनुधावति फलप्रदानेनानुसरति । येन येन यथा कृतं तं तं प्रति तथा प्राक्कर्मं फलदमफलदं च भवति ॥ 12-179-10 कर्म प्राचीनं छायेवानुविधीयते पुरुषेण स्वस्यातुकूलं क्रियते ॥ 12-179-11 नित्यमपरिहार्यम् ॥ 12-179-12 स्वकर्मणः फलं स्वर्गपश्वादि तदेव निक्षेपरूपं विधानेन कर्मजन्यादृष्टेन रक्षितं भूतग्रामं प्रति कालः समनुकर्षति ॥ 12-179-18 संक्लिन्नं मलेनेति शेषः ॥ 12-179-22 उपालम्भैराक्षेपवाक्यैः । व्यतिक्रमैरपराधैः । अलमुक्तैः पर्याप्तम् । पेशकौशलयुक्तं यथास्यात्तथा ॥