अध्यायः 182

भरद्वाजंप्रति भृगुणा वृक्षादीनामपि भौतिकत्वचैतन्यादिसमर्थनम् ॥ 1 ॥

भरद्वाज उवाच ।
त एते धातवः पञ्च ब्रह्मा यानसृजत्पुरा ।
आवृता यैरिमे लोका महाभूताभिसंज्ञिताः ॥
यदाऽसृजत्सहस्राणि भूतानां स महामतिः ।
पञ्चानामेव भूतत्वं कथं समुपपद्यते ॥
भृगुरुवाच ।
अमितानां महाशब्दो भूतानां याति संभवम् ।
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥
चेष्टा वायुः खमाकाशमूष्माऽग्निः सलिलं द्रवः ।
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् ॥
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् ।
श्रोत्रं घ्राणं रमः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः ॥
भरद्वाज उवाच ।
पञ्चभिर्यदि भूतैस्तु यक्ताः स्थावरजङ्गमाः ।
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।
वृक्षा नोपलभ्यन्ते शरीरे पञ्च धातवः ॥
न शृणुन्ते न पश्यन्ति न गन्धरसवेदिनः ।
न चस्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥
अद्रवत्वादनग्नित्वादभूतित्वादवायुतः ।
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥
भृगुरुवाच ।
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः ।
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ॥
ऊष्मतो म्लायते वर्णं त्वक्फलं पुष्पमेव च ।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥
वाय्वग्न्यशनिनिष्पेषैः फलं पुष्पं विशीर्यते ।
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥
पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात् ।
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥
वक्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।
तथा पवनसंयुक्तः पादैः पिबति पादपः ॥
सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् ।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः ।
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥
त्वक्च मांसं तथाऽस्थीनि मज्जा स्नायुश्च पञ्चमम् ।
इत्येतदिह संघातं शरीरे पृथिवीमयम् ॥
तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च ।
अग्निर्जरयते यच्च पञ्चाग्नेयाः शरीरिणः ॥
श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च ।
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥
प्राणात्प्राणयते प्राणी व्यानाद्व्यायच्छते तथा ।
गच्छत्यपाने वाक्चैव समानने समः स्थितः ॥
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते ।
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् । ज्योतेः पश्यति रूपाणि स्पर्शं वेत्ति च वायुतः ।
`शब्दं शृणोति च तदैवाकाशात्तु शरीरवान् ॥
गन्धः स्पर्शो रसो रूपं शब्दश्चात्र गुणाः स्मृताः ।
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ॥
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च । निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ।
शब्दः स्पर्शश्च रूपं च रसश्चापि गुणाः स्मृताः ॥
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ।
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः ॥
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
एवं षङ्किधविस्तारो रसो वारिमयः स्मृतः ॥
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते । ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ।
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणुवृत्तवान् ॥
शुक्लः कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा । कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणः ।
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ॥
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरित्युत ।
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च । तथा खरो मृदू रूक्षो लघुर्गुरुतरोऽपि च ।
एवं द्वादशधा स्पर्शो व्याव्यो गुण उच्यते ॥
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ।
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥
षड््ज ऋषभगान्धारौ मध्यमो धैवतस्तथा ।
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान् ॥
एष सप्तविधः प्रोक्तः शब्द आकाशसंभवः ।
त्र्यैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥
[मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च । यः कश्चिच्छ्रूयते शब्दः प्राणिनो प्राणिनोऽपि वा ।
एतेषामेव सर्वेषां विषये संप्रकीर्तितः ॥
एवं बहुविधाकारः शब्द आकाशसंभवः । आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ॥]
अव्याहतैश्चेतयने न वेत्ति विषमस्थितैः ।
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ॥
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु ।
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिता ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

12-182-1 पञ्चधातव आकाशादयः ये महाभूतसंज्ञाः यैश्च लोका आवृता इति योजना ॥ 12-182-2 भूतानां प्राणिनाम् ॥ 12-182-4 खंसुषिरम् । अत्र शरीरे द्रवो लोहितादिसंघातः । कठिनं मांसास्थ्यादि ॥ 12-182-5 श्रोत्रं खं घ्राणं पृथिवी रसो रसनेन्द्रियं जलं स्पर्शः स्पर्शनेन्द्रियं त्वग्वायुः दृष्टिश्चक्षुरिन्द्रियं तेजः ॥ 12-182-9 अप्रमेयत्वादप्रतीयमानत्वात् । 12-182-16 नालेन नलिकया ॥ 12-182-18 तेन वृक्षेण । जरयति जरयतः ॥ 12-182-21 शरीरिणोऽन्तर्गतोऽग्निस्तेजः क्रोधचक्षुरूष्मजाठररूप इति पञ्चाग्नेयाः ॥ 12-182-22 श्रोत्रमिन्द्रियम् । घ्राणं नासान्ध्रे । कोष्ठमन्नादिस्थानम् ॥ 12-182-24 व्यायच्छते बलसाध्यमुद्यमं करोति ॥ 12-182-25 प्रतिभेदादुरःकण्ठशिरः स्थानभेदात् ॥ 12-182-26 भूमेर्भूम्या घ्राणरूपया । अद्भ्य इति रसनेन ॥ 12-182-28 पार्थिवः पृथिव्याश्रितो मुख्यो गुणः ॥ 12-182-29 ज्योतिः पृथिव्यादिरूपम् । वायुना त्वगिन्द्रियेण । गुणा अप्रधानभूताः एवं जलादावप्येकैको मुख्य इतरेऽप्रधाना इति द्रष्टव्यम् ॥